(अथ पञ्चमाष्टके षष्ठप्रपाठके पञ्चमोऽनुवाकः)।
सं॒व॒त्स॒रमुख्यं॑ भृ॒त्वा द्वि॒तीये॑ संवत्स॒र आ॑
ग्ने॒यम॒ष्टाक॑पालं॒ निर्व॑पे॒दैन्द्रमेकादशकपालं
वैश्वदे॒वं द्वाद॑शकपालं बार्हस्प॒त्यं च॒रुं वै॑
ष्ण॒वं त्रि॑कपा॒लं तृ॒तीये॑ संवत्स॒रे॑ऽभि॒जिता॑
यजेत॒ यद॒ष्टाक॑पालो॒ भव॑त्य॒ष्टाक्ष॑रा गाय॒त्र्या॑
ग्ने॒यं गा॑य॒त्रं प्रा॑तः सव॒नं प्रा॑तःसव॒नमे॒व तेन॑
दाधार गाय॒त्रीं छन्दो॒ यदेका॑दशकपालो॒
भव॒त्येका॑दशाक्षरा त्रि॒ष्टुगै॒न्द्रं त्रैष्टु॑भं॒ मा-
ध्यं॑दिनँ सव॑नं॒ माध्यंदिनमे॒व सव॑नं॒ तेन॑
दाधार त्रि॒ष्टुभं॑ (१) छन्दो॒ यद्द्वादशक-
पालो॒ भव॑ति॒ द्वाद॑शाक्षरा॒ जग॑ती वैश्वदे॒वं
जाग॑तं तृ॑तीयसव॒नं तृ॑तीयसव॒नमे॒व तेन॑ दा
धार॒ जग॑तीं॒ छन्दो॒ यद्बा॑र्हस्प॒त्यश्च॒रुर्भव॑ति॒
ब्रह्म॒ वै दे॒वानां॒ बृह॒स्पति॒र्ब्रह्मै॒व तेन॑ दाधार॒
यद्वै॑ष्ण॒वस्त्रि॑कपा॒लो भव॑ति य॒ज्ञो वै विष्णु॑र्य॒
ज्ञमे॒व तेन॑ दाधार॒ यत्तृ॒तीये॑ संवत्स॒रे॑ऽभि॒जि
[[2467]]
प्रपा. ६ अनु. ५) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(केषांचिद्धविषामभिधानम्)
ता॒ यज॑ते॒ऽभि॒जि॒त्यै॒ यत्सं॑वत्स॒रमुख्यं॑ बि॒भ-
र्ती॒ममे॒व (२) तेन॑ लो॒कँ स्पृ॑णोति॒ यद्द्वि॒-
तीये॑ संवत्स॒रेऽग्निं चि॑नु॒ते॑ऽन्तरि॑क्षमे॒व तेन॑
स्पृणोति॒ यत्तृ॒तीये॑ संवत्स॒रे यज॑ते॒ऽमुमे॒व
तेन॑ लो॒कँ स्पृ॑णोत्ये॒तं वै पर॑ आट्णा॒रः
क॒क्षीवाँ औशि॒जो वीत॒ह॑व्यः श्राय॒सस्त्र॒स-
द॑स्युः पौरुकु॒त्स्यः प्र॒जाका॑मा अचिन्वत॒
ततो॒ वै ते स॒हस्रँ॑ सहस्रं पु॒त्रान॑विन्दन्त॒ प्र
थ॑ते प्र॒जया॑ प॒शुभि॒स्तां मात्रा॑माप्नोति॒ यां
तेऽग॑च्छ॒न्य ए॒वं वि॒द्वाने॒तम॒ग्निं चि॑नु॒ते
(३)॥
(दा॒धा॒र॒ त्रि॒ष्टुर्भमि॒ममे॒वैव च॒त्वारि॑ च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
षष्ठप्रपाठके पञ्चमोऽनुवाकः॥५॥
(अथ पञ्चमकाण्डे षष्ठप्रपाठके पञ्चमोऽनुवाकः)
क्षेत्रमानात्पुरा होमश्चतुर्थे समुदीरितः॥
अथ पञ्चमे कानिचिद्धवींषि विधीयन्ते। पूर्वस्मिन्प्रपाठके संवत्सरत्र्यहषडहद्वादशाहाग्निधारणपक्षाश्चत्वारोऽभिहिताः। तत्र तापश्चितामयनाख्यस्य संवत्सरसत्रस्याङ्गभूते चयने सवत्सरमुख्यधारणं नियतम्।
अत एव सत्रकार आह — “तापश्चितेऽग्नौ संवत्सरं दीक्षा संवत्सरमुपसदः पुरस्तादुपसदामाग्नेयमष्टाकपालमिति पञ्च” इति, तदिदं सूत्रोक्तहविःपञ्चकं विधत्ते —
१ ख. घ ड. च क्षेत्रं मातृं पुरा। २ क. घ. ङ दः पर।
[[2468]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (५ पञ्चमकाण्डे —
(केषांचिद्धविषामभिधानम्)
संवत्सरमुख्यमिति। यदप्युक्तं सूत्रकारेण — “तृतीये संवत्सरेऽभिजिता विश्वजिता वा यजेत सर्ववेदसं ददाति” इति, तत्राऽऽद्यं पक्षं विधत्ते —
तृतीये संवत्सर इति। अभिजिदिति सोमयागविशेषः।
तत्र पञ्चसु हविःषु प्रथमहविः प्रशंसति —
यदष्टाकपाल इति। गायत्रीपादस्याष्टाक्षरत्वं प्रसिद्धम्। प्रातःसवनं च गायत्रीछन्दसा निष्पाद्यत्वाद्गायत्रम्। गायत्र्या सहाग्नेरुत्पन्नत्वात्तदाग्नेयमपि। अतस्तेन हविषा प्रातः सवनफलं गायत्रीछन्दोदेवतां च प्राप्नोति।
इतराणि चत्वारि हवींष्यभिजिदाख्यं सोमयागं च क्रमेण प्रशंसति —
यदेकादशकपाल इति। अत्र सर्वत्र हविष्प्रशंसा देवताप्रशंसाऽभिजि-द्यागप्रशंसा च विस्पष्टा। अथोख्यधारणं पञ्चहविर्युक्तचयनमभिजिदाख्यमेकाहं च क्रमेण प्रशंसति —
यत्संवत्सरमुख्यमिति। यद्यप्ययमभिजिदेकाहो न तु संवत्सरसाध्यमयनं तथाऽपि तापश्चितामयनेऽङ्गभूतो योऽग्निस्तद्धर्मः संदत्सरोख्यधारणं संवत्सरोपसदश्च, तेऽभिजिदङ्गेऽप्यतिदिश्यन्ते। तस्मादयमङ्गभूतोऽग्निर्धर्मातिदेशार्थं तापश्चित इत्युच्यते। पञ्च हवींष्यभिजिदङ्गभूतेऽग्नौ विशिष्यन्ते।
तदिदं पञ्चहविरुपेतं चयनं प्रकारान्तेण प्रशंसति —
एतं वै पर इति। परशब्दाभिधेयः कश्चिदृषिः। सोऽयमट्णारस्य पुत्रः। कक्षीवानन्य ऋषिः। स च चोशिजः पुत्रः। वीतहव्योऽन्य ऋषिः। स च श्रयसः पुत्रः। त्रसदस्युरन्यः। स च पुरुकुत्सस्य पुत्रः। त एते प्रजाकामाः सन्तस्तमेतं संवत्सरधारणेन पञ्चहविर्मिश्चोपेतमग्निं चित्वा प्रत्येकं सहस्रं पुत्रानलभन्त।
अथैतस्य चयनस्य फलं दर्शयति-
प्रथते प्रजयेति। पृर्वोक्ता महर्षयो यां मात्रां सहस्रपुत्ररूपमैश्वर्यप्रमाणमगच्छन्, तां मात्रामयमप्येतमग्निं चिन्वानः प्राप्नोति॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे षष्ठप्रपाठके
पञ्चमोऽनुवाकः॥ ५॥
१ ख यत्रीं छन्दो दे। २ ख. श्च. सोऽभि। घ. ङ. च. श्च. साम ३ ख. श्यते। त।
[[2469]]
प्रपा. ६ अनु. ६) कृष्णयजुर्वेदीतैत्तिरीयसंहिता।
(पूर्वोक्तत्रिधिप्रशंसा)