(अथ पञ्चमकाण्डे षष्ठप्रपाठके चतुर्थोऽनुवाकः)।
स॒जूरब्दोऽया॑वभिः सजू॒रुषा॒ अरु॑णीभिः
१ क. घ. ङ ष्टिविकृतित्वा।
[[2462]]
श्रीमत्सायणाचार्यविरचितेभाष्यसमेता—–(५ पञ्चमकाण्डे —
(होमाभिधानम्)
स॒जूः सूर्य॒ एत॑शेन स॒जोषा॑व॒श्विना॒ दँ सो॑-
भिः स॒जूर॒ग्निर्वैश्वा॑न॒र इडा॑भिर्घृ॒तेन॒ स्वाहा॑
संवत्स॒रो वा अब्दो॒ मासा॒ अया॑वा उ॒षा
अरु॑णीः॒ सूर्य॒ एत॑श इ॒मे अ॒श्विना॑ संवत्स॒-
रो॑ऽग्निर्वै॑श्वा॒नरः प॒शव॒ इडा॑ पश॒वो॑ घृ॒तँ
सं॑वत्स॒रं प॒शवोऽनु॒ प्र जा॑यन्ते संवत्स॒रेणै-
वास्मै॑ प॒शन्प्र ज॑नयति दर्भस्त॒म्बे जु॑होति॒
यत् (१) वा अ॒स्या अ॒मृतं॒ यद्वी॒र्य॑ तद्द॒र्भा-
स्तस्मि॑न्जुहोति॒ प्रैव जा॑यतेऽन्ना॒दो भ॑वति॒
यस्यै॒वं जुह्व॑त्ये॒ता वै दे॒वता॑ अ॒ग्नेः पु॒रस्ता॑-
द्भागा॒स्ता ए॒व प्री॑णा॒त्यथो॒ चक्षु॑रे॒वाग्नेः
पु॒रस्ता॒त्प्रति॑ दधा॒त्यन॑न्धो भवति॒ य ए॒वं
वेदाऽऽपो॒ वा इ॒दमग्रे॑ सलि॒लमा॑सी॒त्स प्र॒जा-
प॑तिः पुष्करप॒र्णे वातो॑ भू॒तो॑ऽलेलाय॒त्सः
(२) प्र॒ति॒ष्ठां नावि॑न्दत॒ स ए॒तद॒पां कु॒ला-
य॑मपश्य॒त्तस्मि॑न्न॒ग्निम॑चिनुत॒ तदि॒यम॑भव॒-
त्ततो॒ वै स प्रत्य॑तिष्ठ॒द्यां पु॒रस्ता॑दु॒पाद॑धा॒त्त-
च्छिरो॑ऽभव॒त्सा प्राची॒ दिग्यां द॑क्षिण॒त उ॒
पाद॑धा॒त्स दक्षि॑णः प॒क्षो॑ऽभव॒त्सा द॑क्षि॒णा
दिग्यां प॒श्चादु॒पाद॑धा॒त्तत्पुच्छ॑मभव॒त्सा प्र॒-
तीची॒ दिग्यामु॑त्तर॒त उ॒पाद॑धात् (३) स
उत्त॑रः प॒क्षो॑ऽभव॒त्सोदी॑ची॒ दिग्यामु॒परि॑ष्टा
[[2463]]
प्रपा. ६ अनु. ४) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(होमाभिधानम्)
दु॒पाद॑धा॒त्तत्पृ॒ष्ठम॑भव॒त्सोर्ध्वा दिगि॒यं वा अ॒
ग्निः पञ्चे॑ष्टक॒स्तस्मा॒द्यद॒स्यां खन॑न्त्य॒भीष्ट॑कां
तृ॒न्दन्त्य॒भि शर्क॑राँ॒ सर्वा॒ वा इ॒यं वयो॑भ्यो॒
नक्तं॑ दृ॒शे दी॑प्यते॒ तस्मा॑दि॒मां वयाँ॑सि॒
नक्तं॒ नाध्या॑सते॒ य ए॒वं वि॒द्वान॒ग्निं चि॑नु॒ते
प्रत्ये॒व (४) ति॒ष्ठ॒त्य॒भि दिशो॑ जयत्याग्ने॒यो
वै ब्रा॑ह्म॒णस्तस्मा॑द्ब्राह्म॒णाय॒ सर्वा॑सु दि॒क्ष्व-
र्धु॑कँ॒ स्वामे॒व तद्दिश॒मन्वे॑त्य॒पां वा अ॒ग्निः
कु॒लायं॒ तस्मा॒दापो॒ऽग्निँ हारु॑काः॒ स्वामे॒व
तद्योनिं प्र वि॑शन्ति (५)॥
(यद॑लेलाय॒त्स उ॑त्तर॒त उ॒पाद॑धादे॒व द्वात्रिँ॑शच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
षष्ठप्रपाठके चतुर्थोऽनुवाकः॥४॥
(अथ पञ्चमकाण्डे षष्ठप्रपाठके चतुर्थोऽनुवाकः)।
भूतेष्टकाभिषेकादि तृतीये समुदीरितम्॥
अथ चतुर्थे होमो विधीयते। यदुक्तं सूत्रकारेण - “सजूरब्दोऽयावभिरिति दर्भस्तम्बे पञ्चाऽऽहुतीर्जुहोति” इति, तमिमं विधातुं मन्त्रानुत्पादयति —
सजूरब्दोऽयावभिरिति। अब्दः संवत्सरः। अभावा मासाः। स च संवत्सरस्तैर्मासैः सह समानप्रीतिः। अत्र सर्वेषु मन्त्रेषु घृतेन स्वाहेत्यनुषज्यते। तस्मै माससहिताय संवत्सराय घृतेन द्रव्येण स्वाहा जुहोमि। उषा येयमुषःकालदेवता सेयमरुणीभी रक्तवर्णाभिः प्रभाभिः सजूः समानप्रीतिः। तामुद्दिश्य घृतेन स्वाहा जुहोमि। सूर्यो देव एतशेन स्वकीयाश्वेन सजूः समानप्रीतिः। तमुद्दिश्य घृतेन स्वाहा जुहोमि। अश्विना यावेतावश्विनौ तौ दंसोभिर्दंशनैर्व्याधि-
[[2464]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—–(५ पञ्चमकाण्डे —
(होमाभिधानम्)
निराकरणव्यापारैः सजोषौ परस्परं समानप्रीती। तावुद्दिश्य घृतेन जुहोमि। वैश्वानरः सर्वमनुष्यप्रियो योऽग्निः स इडाभिः पशुभिः सजूः समानप्रीतिः। तमुद्दिश्य घृतेन जुहोमि॥ मन्त्रान्व्याचष्टे-
संवत्सरो वा इति। मन्त्रागतस्याब्दशब्दस्य संवत्सरः एवार्थः। अयावशब्देन मासा अभिधीयन्ते। उषःशब्दादयश्चत्वारः प्रसिद्धाः। इमे द्यावापृथिव्या-वश्विशब्देन विवक्षिते। अग्निर्वैश्वानर इत्यनेन संवत्सरो विवक्षितः। इडाशब्देन पशवो विवक्षिताः। घृतशब्देनापि तत्कारणत्वात्पशव एव विवक्षिताः। तात्पर्यार्थस्तु गर्भभूताः पशवः संवत्सरमनुसृत्य प्रजायन्ते। अत एतन्मन्त्रपाठेनास्मै यजमानाय संवत्सरकालेन पशूनुत्पादयति॥ अथ होमं विधत्ते —
दर्भस्तम्बे जुहोतीति। अस्याः पृथिव्याः संबन्धि यदमृतं स्वादुद्रव्यं, यच्च तत्संबन्धि वीर्यं सामर्थ्यं तदुभयमेवैते दर्भाः। अतस्तस्मिन्नमृते वीर्ये दर्भरूपे हुतवान्भवति। तेन होमेन प्रजा उत्पादयत्येव। यस्य यजमानस्य कर्मण्येवं जुह्वति स यजमानो न केवलं प्रजोत्पादकः किं त्वन्नादश्च भवति। एता एव मन्त्रोक्ताः संवत्सरमासादयः सर्वा देवता अग्नेरपि पूर्वभागिनोऽतस्ताः प्रीणयत्येव। किं च पूर्वकालीनेन होमेनाग्नेश्चक्षुरेव संपादयति। तदेवं दर्भस्तम्बहोमो देवताः कालश्च प्रशस्ताः॥ अथ वेदनं प्रशंसति —
अनन्धो भवतीति। अथ चितियोग्या भूमिर्बहुधा स्तूयते, तत्र तावदादौ भूमिनिष्पत्तिप्रकारं दर्शयति —
आपो वा इदमिति। यदिदं जगदिदानीं दृश्यते तच्च सर्वमुत्पत्तेः पूर्वमाप एवाऽऽसीन्न तु देवमनुष्यादिकम्। तस्मिन्न (तास्व) प्सु पृथिव्यादिभूतान्तरमेलनं वारयितुं सलिलमिति विशेष्यते। शुद्धजलमेवाऽऽसीदित्यर्थः। तदानीं प्रजापतिः स्वशरीरमवस्थापयितुं मूर्तस्य कस्यचिदाधारस्याभावात्स्वयं वायुरूपोऽभूत्तदुदकमध्यवर्तिनि कस्मिंश्चित्पद्मपत्रे समाश्रितः। तस्य चलत्वात्स्वयं च वायुरूपत्वादलेलायदितस्ततो डोला(ल)यमानोऽभूत्। तादृशः कुत्रापि स्थिरां स्थितिं नालभत। स पुनराधारं पर्यालोचयन्नपां मध्ये कुलायं शैवालमपश्यत। तस्मिञ्शैवालेऽग्निमिष्टकाभिश्चितवान्। सोऽयमिष्टकाचितोऽग्निरियं दृश्यमाना भूमिरभवत्। तत ऊर्ध्वं स प्रजापतिस्तस्यां भूमौ प्रतिष्ठितोऽभूत्॥
[[2465]]
प्रपा. ६ अनु. ४) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(होमाभिधानम्)
चयनेन भूम्युत्पत्तिप्रकारं प्रपञ्चयति —
यां पुरस्तादिति। स प्रजापतिर्यां प्रौढामिष्टकां स्वस्य पुरस्तादुपादधात्तदि-ष्टकारूपं चीयमानस्याग्नेः शिरस्थानमभवत्। लोके तु भूम्येकदेशरूपा पूर्वा दिक्संपन्ना। एवं दक्षिणाद्यूर्ध्वान्तेषु योजयितव्यम्॥
भूमेश्चित्याग्निरूपत्वं शास्त्रीयलौकिकदृष्टिभ्यां दृढी करोति —
इयं वा अग्निरिति। येयं भूमिरस्ति सेयमेव यः पञ्चभिरिष्टकाभिश्चितोऽग्निः। तस्मादग्नित्वाद्यद्यनभिज्ञाः प्राणिनोऽस्यां भूमौ क्वचित्खनन्ति तदानीं ते मूर्खाः प्रजापतिनोपहितामिष्टकामभितो हिंसन्ति चूर्णी कुर्वन्ति। तथा येयं शर्करा तेनोपहिता तामप्यभितृन्दन्ति सर्वतश्चूर्णयन्ति, तथाविधः प्रत्यवायस्तेषां भवतीत्यर्थः। सेयं शास्त्रीयदृष्टिः। अथ लौकिकदृष्टिरुच्यते-वयोभ्यो दृशे पक्षिणां दृष्टौ भूमिः सर्वाऽपि रात्रावग्निवद्दीप्ता भवति। यस्मादेवं तस्माद्रात्रौ पक्षिणो भूमिं नाऽऽश्रयन्ति, किंतु वृक्षाग्राण्याश्रयन्ति। तस्माच्छास्त्रीयलौकिकदृष्टिभ्यामियं भूमिरग्निरेव॥ एतद्वेदनं प्रशंसति —
य एवं विद्वानिति। अथ ब्राह्मणद्वारा सर्वदिगुपेताया भूमेरग्नित्वं द्रढयति-
आग्नेयो वा इति। अग्निब्राह्मणयोः प्रजापतिमुखजत्वसंबन्धेन ब्राह्मण आग्नेयः। यस्मादयमग्निसंबधस्तस्मादग्निरूपभूम्यवयवरूपासु सर्वास्वपि दिक्षु ब्राह्मणस्य समृद्धिशीलं जीवनं भवति। स्वदेश इव परदेशेष्वपि देवदत्तः शास्त्राभिज्ञः पूज्यते। अयं हि स्वकीयां दिशमनु गच्छति। तस्माद्युक्तमेतत्॥
इदानीं लौकिकजलद्वारा पुनरप्यग्नित्वं द्रढयति —
अपां वा अग्निरिति। योऽयं भूमिरूपोऽग्निः सोऽयं नदीकूपादिगतानामपां कुलायं स्थानम्। भूमाववस्थितत्वाद्योनिश्चापां भूमिरूपोऽग्निरेव। यस्मादग्निकार्या आपस्तस्मान्महतो गृहादिदाहिनोऽग्नेरपहरणाय मनुष्यैः सेचिता आपस्तमग्निमपहरन्त्यः स्वयमपि शुष्यन्ति। यस्मादेवाग्निरूपां स्वयानिं प्रविशन्ति।
१ ख च सेयं प।
[[2466]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—–(५ पञ्चमकाण्डे —
(केषांचिद्धविषामभिधानम्)
तस्मादवगम्यते जलकारणाग्निरूपेयं भूमिरिति। अत्रोक्तस्य होमस्य वेदिविमानात्पूर्वभावित्वात्पुरुषमात्रेणेत्यनुवाकात्पूर्वमिदं ब्राह्मणं द्रष्टव्यम्॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्ण- यजुर्वेदीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे षष्ठप्रपाठके
चतुर्थोऽनुवाकः॥४॥