०३

(अथ पञ्चमाष्टके षष्ठप्रपाठके तृतीयोऽनुवाकः।
भू॒ते॒ष्ट॒का उप॑ दधा॒त्यत्रा॑त्र॒ वै मृ॒त्युर्जा॑यते॒
यत्र॑यत्रै॒व मृ॒त्युर्जाय॑ते॒ तत॑ ए॒वैन॒मव॑ यजते॒
तस्मा॑दग्नि॒चित्सर्व॒मायु॑रेति॒ सर्वे॒ ह्य॑स्य मृ॒त्य-
वोऽष्टवे॑ष्टा॒स्तस्मा॑दग्नि॒चिन्नाभिच॑रित॒वै प्र॒त्यगे॑-
नमभिचा॒रः स्तृ॑णते सू॒यते॒ वा ए॒ष यो॑ऽग्निं
चि॑नु॒ते दे॑वसु॒वामे॒तानि॑ ह॒वीँषि॑ भवन्त्ये॒ता —
व॑न्तो॒ वै दे॒वानाँ स॒वास्त ए॒व (१) अ॒स्मै॒
सवान्प्र य॑च्छन्ति॒ त ए॑नँ सुवन्ते स॒वो॑ऽग्नि —
र्व॑रुणस॒वो रा॑ज॒सूयं॑ ब्रह्मस॒वश्चित्यो॑ देवस्य॑
त्वा सवि॒तुः प्र॑स॒व इत्या॑ह सवि॒तृप्र॑सूत ए॒वैनं॒
ब्रह्म॑णा दे॒वता॑भिर॒भि षि॑ञ्च॒त्यन्न॑स्यान्नस्या॒ —
भिषि॑ञ्च॒त्यन्न॑स्यान्न॒स्याव॑रुद्ध्यै पु॒रस्ता॑त्प्र॒ —
त्यञ्च॑म॒भिषि॑ञ्चति पु॒रस्ता॒द्धि प्र॑ती॒चीन॒ —

[[2458]]

श्रीमत्सायणाचार्यविरचितेभाष्यसमेता—(५ पञ्चमकाण्डे–
(भूतेष्टकाद्यभिधानम)
मन्न॑म॒द्यते॑ शीर्ष॒तो॑ऽभि षि॑ञ्चति शीर्ष॒तो ह्य-
न्न॑म॒द्यत॒ आ मुखा॑दन्वव॑स्रावयति (२)
मु॒ख॒त ए॒वास्मा॑ अ॒न्नाद्यं॑ दधात्य॒ग्नेस्त्वा॒ सा-
म्रा॑ज्येना॒भि षि॑ञ्चा॒मीत्या॑है॒ष वा अ॒ग्नेः स॒-
वस्तेनै॒वैन॑म॒भि षि॑ञ्चति॒ बृह॒स्पते॑स्त्वा॒ साम्रा॑-
ज्येना॒भि षि॑ञ्चा॒मीत्या॑ह॒ ब्रह्म॒ वै देवानां॒ बृह॒-
स्पति॒र्ब्रह्म॑णै॒वैन॑म॒भि षि॑ञ्च॒तीन्द्र॑स्य त्वा॒ सा-
म्रा॑ज्येना॒भि षि॑ञ्चा॒मीत्या॑हेन्द्रि॒यमे॒वास्मि॑न्नु॒-
परि॑ष्टाद्दधात्ये॒तत् (३) वै रा॑ज॒सूय॑स्य
रू॒पं य ए॒वं वि॒द्वान॒ग्निं चि॑नु॒त उ॒भावे॒व लो॒-
काव॒भि ज॑यति॒ यश्च॑ राज॒सूये॑नेजा॒नस्य॒ य-
श्चा॑ग्नि॒चित॒ इन्द्र॑स्य सुषुवा॒णस्य॑ दश॒धे-
न्द्रि॒यं वी॒र्यं॑ परा॒ऽपत॒त्तद्दे॒वाः सौ॑त्राम॒ण्या स-
म॑भरन्त्सू॒यते वा ए॒ष यो॑ऽग्निं चि॑नु॒ते॑ऽग्निं
चि॒त्वा सौ॑त्राम॒ण्या य॑जेतेन्द्रि॒यमे॒व वी॒र्यँ॑
सं॒भृत्या॒ऽऽत्मन्ध॑त्ते (४)॥
(त ए॒वान्वव॑स्रावयत्ये॒तद॒ष्टाच॑त्वारिँशच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके षष्ठ
प्रपाठके तृतीयोऽनुवाकः॥३॥
(अथ पञ्चमकाण्डे षष्ठप्रपाठके तृतीयोऽनुवाकः)।
कुम्भेष्टाकाश्चरुश्चेति द्वितीये द्वयमीरितम्।

[[2459]]

प्रपा. ६ अनु. ३) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(भूतेष्टकाद्यभिधानम्)
अथ तृतीये भूतेष्टकादिकमुच्यते। यदुक्तं सूत्रकारेण — “प्रसवाय त्वोष-यामाय त्वा काटाय त्वाऽर्णवाय त्वा धर्णसाय त्वा द्रविणाय त्वा सिन्धवे त्वा समुद्राय त्वा सरस्वते त्वा विश्वव्यचसे त्वा सुभूताय त्वाऽन्तरिक्षाय त्वेति द्वादश भूतेष्टकाः” इति। एते च मन्त्राः शाखान्तरगताः। तत्साध्यमुपधानं विधत्ते —
भूतेष्टका उपेति। देशकालनिमित्तविशेषानपेक्ष्यात्रात्रेति वीप्सा। सर्प-व्याघ्रचोराकुलदेशा मृत्युहेतवः। संध्यामध्यरात्रदिर्यक्षराक्षसादिप्रयुक्तमृत्युकालः दुराहारभोजनादीनि मृत्युनिमित्तानि। भूतेष्टकोपधानेन तत एव देशप्रयुक्तात्कालप्रयुक्तान्निमित्तप्रयुक्ताच्च सर्वस्मादपि मृत्योरेनं यजमानपनयति। तस्मादयमग्निचित्स्वस्य प्राप्तमायुः सर्वमेव प्राप्नोति। यस्मादस्य सर्वेऽप्यपमृत्यवो विनाशिताः। किंचायमग्निचिदभिचारविषयोऽपि न भवति। एवं सति यो मूर्खोऽभिचरति एनं मूर्खं सोऽभिचारः प्रत्यङ्मुखो भूत्वा हिनस्ति।
यदुक्तं सूत्रकारेण - “अग्नीषोमीयस्य पशुपुरोडाशमष्टौ देवसुवां हवींष्यनु निर्वपति समानं तु स्विष्टकृदिडम्” इति, तदिदं विधत्ते -
सूयते वा एष इति। यो यजमानोऽग्निं चिनुते स एष देवैः सूयते प्रेर्यते। अतः प्रेरणाय हवींषि निर्वपेत्। अग्नये गृहपतये पुरोडाशमित्यादिराजसूयाम्नातानि देवसुवां हवींषि। तत्र श्रुता येऽग्न्यादयो देवा एतावन्त एव देवानां मध्ये प्रेरकाः। त एव देवा अस्मै यजमानाय स्वकीयाः सर्वा अनुज्ञाः प्रयच्छन्ति। तेन चानुज्ञाप्रदानेनैनं यजमानं प्रेरयन्ति।
यदुक्तं सूत्रकारेण - “दक्षिणं प्रत्यपि पक्षमौदुम्बरीमासन्दीं प्रतिष्ठाप्य तस्यां कृष्णाजिनं प्राचीनग्रीवमुत्तरलोमाऽऽस्तीर्य तस्मिन्नासीनं यजमानमग्निमन्वारब्धं संपातैरभिषिश्चति” इति, तदिदं विधातुं प्रस्तौति-
सवोऽग्निरिति। अभिषेकयुक्तो यागः सव इति ह्युक्तम्। स च द्विविधो वरुणसवो ब्रह्मसवश्च। राजकर्तृ(क)त्वाद्राजसूयं वरुणसवः। वरुणो हि राजाभिमानी देवः। चित्योऽग्निस्तु ब्राह्मणैरप्यनुष्ठेयत्वाद्ब्रह्मसवः। अग्निर्ब्राह्मणाभिमानी देवः। अतः सवत्वादयमभिषेकयोग्य इत्यर्थः।
मन्त्रपूर्वकमभिषेकं विधत्ते -

[[2460]]

श्रीमत्सायणाचार्यविरचितेभाष्यसमेता—–(५ पञ्चमकाण्डे—-
(भूतेष्टकाद्यभिधानम्)
देवस्य त्वेति। ब्रह्मणा मन्त्रेण, प्रतिपाद्याभिरिति शेषः।
सर्वौंषधिरसमभिषेकद्रव्यत्वेन विधत्ते —-
अन्नस्यान्नस्येति। प्रकारविशेषं विधत्ते —-
पुरस्तात्प्रत्यञ्चमिति। पूर्वस्यां दिशि पश्चिमाभिमुखोऽवस्थाय प्रत्यञ्चं स्वाभिमुखं यजमानमभिषिञ्चेत्। लोके हि पुरस्तात्पात्रेऽवस्थितमन्नं स्वाभिमुखत्वेनाद्यते। शिर आरभ्याभिषिञ्चेत्। अन्नमपि शिरोदेशावस्थिते मुखे भुज्यते।
गुणान्तरं विधत्ते -
आ मुखादन्ववेति। शिर आरभ्याऽऽनुलोम्येन मुखपर्यन्तमवस्रावयेन्नत्वधः। मन्त्रेष्वग्निबृहस्पतीन्द्रशब्दतात्पर्यं व्याचष्टे-
अग्नेस्त्वा साम्राज्येनेति। एष ओषधिरसोऽग्नेः सवोऽग्निना प्रेरितः। अतोऽग्निशब्दमुच्चारयन्नग्निसंबन्धेन तेनैव रसेनाभिषिञ्चति। एष वै बृहस्पतेः सव एष वा इन्द्रस्य सव इत्यप्यनुसंधेयम्। एतेऽभिषेकमन्त्राः शाखान्तर आम्नाताः। इह ब्राह्मणेन व्याख्याताः। राजसूयसाम्येनाभिषेकं प्रशंसति-
एतद्वै राजसूयस्येति। एतदभिषेचनमेवाग्नेश्चित्यस्य राजसूयस्य स्वरूपम्। एवंविदश्चिन्वानस्योभयफलं भवति। अतश्चयनाङ्गत्वेन सौत्रामणीं विधत्ते -
इन्द्रस्य सुषुवाणस्येति। सोममभिषुतवत इन्द्रस्येन्द्रियं सोमेपद्रवपापेन दशधा भूत्वा पतितमभूत्। तदेतदिन्द्रियं देवाः सौत्रामण्या स्वाद्वीं त्वेत्यादिग्र-न्थप्रतिपाद्येन यागेन सम्यक्संपादितवन्तः। एवं सत्यत्रापि योऽग्निं चिनुत एषोऽपि सोमाभिषवे प्रेर्यते। तस्मादयमपीन्द्रियमासर्थ्यसंपादनाय सौत्रामण्याख्यं यागमनुतिष्ठेत्। सौत्रामण्याश्चयनाङ्गत्वं न बोध्यते, किंतु कालविधिरयम्। तस्मादिदं वाक्यं प्रकरणादुत्क्रष्टव्यम्॥
अथ मीमांसा।
चतुर्थध्यायस्य तृतीयपादे विंशेऽधिकरणे चिन्तितम्-
अग्निं चित्वा यजेत्सौत्रामण्येत्यङ्गेष्टिरीदृशी।
अङ्गिकाले स्वकाले वा स्यादाद्योऽन्याङ्गवन्मतः॥


१ ख. च. न तेन ते।

[[2461]]

प्रपा. ६ अनु. ४) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(होमाभिधानम्)
निर्वृत्ते चयनादौ तु कर्मान्तरविधानतः।
स्वकाले चोदकप्राप्ते तदनुष्ठानमास्थितम्॥
अग्निं चित्वा सौत्रामण्या यजेत, वाजपेयेनेष्ट्वा बृहस्पतिसवेन यजेतेत्यत्र सौत्रामणीबृहस्पतिसवयोरङ्गत्वं पूर्वमुक्तम्। तच्चाङ्गमङ्गिकालेऽङ्गिना सह प्रयोक्तव्यमितरेषामङ्गानां तथा प्रयुज्यमानत्वादिति चेन्मैवम्। क्त्वाप्रत्ययेन पूर्वकालवाचिना साङ्गे चयनादौ निवृत्ते सति पश्चात्कर्मान्तरत्वेन सौत्रामण्यादेर्विहितत्वात्। यद्यङ्गिना सहैकप्रयोगः स्यात्तदा क्त्वाप्रत्ययप्रापितः पूर्वोत्तरकालविभागो बाध्येत। न ह्यङ्गिना सह प्रयोक्तव्यानामुखासंभरणादीनां चयने निर्वृत्ते पश्चाद्विधानं श्रुतम्। ततः पृथक्प्रयोगेऽवश्यंभाविनि सति स्वस्वचोदकप्रापिते काले तदनुष्ठानं युक्तम्। सौत्रामण्या इष्टिप्रकृतिकत्वात्पर्वकालश्चोदकप्राप्तः। चयनेन सहैष प्रयोगे तु पर्वण्युखासंभरणादिविधानादन्यस्मिन्दिने सौत्रामणी प्रसज्येत। तथा बृहस्पतिसवस्य ज्योतिष्टोमविकृतित्वाद्वसन्तकालश्चोदकप्राप्तः। वाजपेयेन सह प्रयोगैक्ये शरदि वाजपेयस्य विहितत्वाद्बृहस्पतिसवोऽपि शरदि प्रसज्येत। तस्मादतिदिष्टे पर्वणि वसन्ते (च) तदनुष्ठानम्। ननु सर्वत्राङ्गापूर्वैः प्रधानापूर्वं जनयितव्यम्। इह तु पूर्वकालीनेन साङ्गप्रधानानुष्ठानेन फलापूर्वस्य निष्पन्नत्वादुत्तरकालीनमङ्गं निरर्थकमिति चेन्न। तस्यैवापूर्वस्यानेनाङ्गेन प्राबल्यदशायाः कल्पनीयत्वात्। तस्मान्नाङ्गिनः कालेऽनुष्ठानं, किंतु स्वकाल इति स्थितम्। पूर्वानुवाकोक्तकुम्भेष्टकाचरूपधानस्य प्राणभृद्भ्योऽपानभृद्भ्यश्चोर्ध्वभावित्वादिदं ब्राह्मणमभिमन्त्रणमन्त्रसहितं पशुर्वा एष यदग्निरित्यनुवाकान्ते द्रष्टव्यम्। भूतेष्टकोपधानं तु वालखिल्योपधानादूर्ध्वं भवति। अभिषेकस्त्वग्निर्वै देवानामभिषिक्त इत्यस्मात्पूर्वं द्रष्टव्यः। सौत्रामणीब्राह्मणं तु कृत्स्नाद्ब्राह्मणादूर्ध्वं द्रष्टव्यम्।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्ण-
यजुर्वेदीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे षष्ठप्रपाठके
तृतीयोऽनुवाकः॥३॥