(अथ पञ्चमाष्टके षष्ठप्रपाठके द्वितीयोऽनुवाकः)।
अ॒पां ग्रहा॑न्गृह्णात्ये॒तद्वाव रा॑ज॒सूयं॒ यदे॒ते
ग्रहा॑ स॒वो॑ऽग्रिर्व॑रुणस॒वो रा॑ज॒सूय॑मग्निस॒-
वश्चित्य॒स्ताभ्या॑मे॒व सू॑य॒तेऽथो॑ उ॒भावे॒व लो॒-
काव॒भि ज॑यति॒ यश्च॑ राज॒सूये॑नेजा॒नस्य॒ य-
श्चा॑ग्नि॒चित॒ आपो॑ भव॒न्त्यापो॒ वा अ॒ग्ने-
र्भ्रातृ॑व्या॒ यद॒पो॑ऽग्नेर॒धस्ता॑दुप॒दधा॑ति॒ भ्रातृ॑-
व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ परा॑ऽस्य॒ भ्रातृ॑व्यो
भवत्य॒मृत॑म् (१) वा आप॒स्तस्मा॑द॒द्भिरव॑-
तान्तम॒भि षि॑ञ्चन्ति॒ नाऽऽर्ति॒मार्छ॑ति॒ सर्व॒मा-
यु॑रेति॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वं
वेदान्नं॒ वा आपः॑ प॒शव॒ आपोऽन्नं॑ प॒शवो॑ऽ
न्ना॒दः प॑शु॒मान्भ॑वति॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य
उ॑ चैना ए॒वं वेद॒ द्वाद॑श भवन्ति॒ द्वाद॑श॒
मासाः॑ संवत्स॒रः सं॑वत्स॒रेणै॒वास्मै॑ (२)
अन्न॒मव॑ रुन्धे॒ पात्रा॑णि भवन्ति॒ पात्रे॒ वा
अन्न॑मद्यते॒ सयो॑न्ये॒वान्न॒मव॑ रुन्ध॒ आ द्वा॑द॒-
शात्पु॑रुषा॒दन्न॑म॒त्त्यथो॒ पात्रा॒न्न छि॑द्यते॒ य-
[[2453]]
प्रपा. ६ अनु. २) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(कुम्भेष्टकोपधानविधिः)
स्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ चैना ए॒वं वेद॑ कु॒ —
म्भाश्च॒ कु॒म्भीश्च॑ मिथु॒नानि॑ भवन्ति मिथु॒ —
नस्य॒ प्रजा॑त्यै॒ प्र प्र॒जया॑ प॒शुभि॑र्मिथु॒नैर्जा॑
यते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ (३) चै॒ना॒
ए॒वं वेद॒ शुग्वा अ॒ग्निः सो॑ऽध्व॑र्युं यज॑मानं
प्र॒जाः शु॒चाऽर्प॑यति॒ यद॒प उ॑प॒दधा॑ति॒ शु॒च॑ —
मे॒वास्य॑ शमयति॒ नाऽऽर्ति॒मार्छ॑त्यध्व॒र्युर्न
यज॑मानः॒ शाम्य॑न्ति प्र॒जा यत्रै॒ता उ॑पधी॒य
न्ते॒ऽपां वा ए॒तानि॒ हृद॑यानि॒ यदे॒ता आपो॒
यदे॒ता अ॒प उ॑प॒दधा॑ति दि॒व्याभि॑रे॒वैनाः॒ सँ
सृ॑जति॒ वर्षु॑कः प॒र्जन्यः॑ (४) भ॒व॒ति॒ यो
वा ए॒तासा॑मा॒यत॑नं॒ कॢप्तिं॒ वेदा॒ऽऽयत॑नवा
न्भवति॒ कल्प॑तेऽस्मा अनुसी॒तमुप॑ दधात्ये॒-
तद्वा आ॑सामा॒यत॑नमे॒षा कॢप्तिर्य ए॒वं वे
दा॒ऽऽयत॑नवान्भवति॒ कल्प॑तेऽस्मै द्वं॒द्वम॒न्या
उप॑ दधाति॒ चत॑स्रो॒ मध्ये॒ धृत्या॒ अन्नं॒ वा
इष्ट॑का ए॒तत्खलु॒ वै सा॒क्षादन्नं॒ यदे॒ष च॒रुर्य-
दे॒तं च॒रुमु॑प॒दधा॑ति सा॒क्षात् (५) ए॒वास्मा॒
अन्न॒मव॑ रुन्धे मध्य॒त उप॑ दधाति मध्य॒त
ए॒वास्मा॒ अन्नं॑ दधाति॒ तस्मा॑न्मध्य॒तोऽन्न॑म-
द्यते बार्हस्प॒त्यो भ॑वति॒ ब्रह्म॒ वै दे॒वानां॒ बृह॒-
स्पति॒र्ब्रह्म॑णै॒वास्मा॒ अन्न॒मव॑ रुन्धे ब्रह्मवर्च॒
[[2454]]
श्रीमत्सायणाचार्यविरचितेभाष्यसमेता—(५ पञ्चमकाण्डे–
(कुम्भेष्टकोपधानविधिः)
साय॒ त्वेत्या॑ह तेज॒स्वी ब्र॑ह्मवर्च॒सी भ॑वति॒
यस्यै॒ष उ॑पधी॒यते॒ य उ॑ चैनमे॒वं वेद॑ (६)॥
अ॒मृत॑मस्मै जायते॒ यस्यै॒ता उ॑पधी॒यन्ते॒ य उ॑ प॒र्जन्य॑ उप॒दधा॑ति
सा॒क्षात्स॒प्तच॑त्वारिँशच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
षष्ठप्रपाठके द्वितीयोऽनुवाकः॥२॥
(अथ पञ्चमकाण्डे षष्ठप्रपाठके द्वितीयोऽनुवाकः)।
कुम्भेष्टकामन्त्रणार्था मन्त्राः प्रथम ईरिताः॥
अथ द्वितीये तदिष्टकोपधानं विधत्ते। यदुक्तं सूत्रकारेण — कुम्भं कुम्भीं चाद्भिः पूरयित्वा शर्म च स्थ वर्म च स्थ देवस्य वः सवितुः प्रसवे मधुमतीः सादयामीति पुरस्तादनुसीतमुपधाय ज्योतिष वामिति हिरण्यशल्कौ प्रत्यस्यत्येवमुत्तरा उत्तरैर्मन्त्रैः प्रतिदिशमनुसीतं चतस्रो मध्ये इति, तदिदमुपधानं विधत्ते -
अपां ग्रहानिति। गृह्यन्त आप एष्विति ग्रहा जलाधाराः कुम्भाः कुम्भ्यश्च। ते चाद्भिः पूरितत्वादपां ग्रहास्तान्कुम्भकुम्भीरूपान्गृह्णाति। ग्रहणेनोपधानमुपलक्ष्यते। यस्यैता उपधीयन्त इत्युपसंहारात्। राजसूये ग्रहसद्भावात्तत्साम्यमापादयितुमिह ग्रहिधातुना व्यवहारः। य एते कुम्भकुम्भीरूपा अपां ग्रहा एतदेव राजसूयस्वरूपं फलेन तत्सदृशत्वात्। योऽयं चीयमानोऽग्निः सोऽयं सवः सूयतेऽभिषिच्यते यजमानोऽत्रेत्याभषेकयुक्तो यज्ञः सवस्तदृशोऽयमग्निः। यदेतद्राजसूयाख्यं कर्म सोऽयं वरुणसवः। वरुणो हि कदाचिद्राजसूयं कृत्वा तत्राभिषिक्तः। यस्तु चित्यः सोऽयमग्निसवः। अस्मिन्नप्यग्नावभिषेको विद्यते। अतः कुम्भीष्टकोपधाने सति ताभ्यां वरुणसवाग्निसवाभ्यामुभाभ्यां सूयतेऽयं यजमानोऽनुष्ठितवान्भवति। अपि च राजसूयेनेष्टवता यो लोकोऽग्निचितश्च यो लोकस्तावुभौ लोकावेतदिष्टकोपधानेनाभिजयत्येव।
कुमभेषु कुम्भीषु च जलस्थापनं विधत्ते -
१ क. त्यस्यत्ये। २ घ. ङ त्तरै।
[[2455]]
प्रपा. ६ अनु. २) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(कुम्भेष्टकोपधानविधिः)
आपो भवन्तीति। जलेनाग्निशान्तेरपामग्निशत्रुत्वम्। अतश्चीयमानस्या-ग्नेरधस्ताद्भूमौ कुम्भकम्भीगतानामपामुपधाने सति भ्रातृव्याभिभूतिर्भवति। उपधाता स्वयमैश्वर्यवान्भवति। भ्रातृव्यः पराभवति। किं चैता आपोऽमृतमेवात्र तस्योदकजन्यत्वात्। यस्मादमृतं तस्मादवतान्तमत्यन्तग्लानि-मापन्नं मूर्छित मूर्छानिवारणाय शीतलाभिरद्भिरभिषिञ्चन्ति।
एतदुपधानं तद्वेदनं च प्रशंसति-
नाऽऽर्तिमार्छतीति। प्रकारान्तरेणापः प्रशंसति-
अन्नं वा आप इति। अन्नस्योदकजन्यत्वात्पशूनां चोदकपोष्यत्वादब्रूपत्वं च। क्षीराद्यन्नहेतुत्वात्पशूनामप्पन्नत्वम्। अतोऽपामुपधाता वेदिता चान्नवान्पशुमांश्च भवति। जलपात्राणां संख्यां विधत्ते -
द्वादश भवन्तीति। उपधेयानामपामाधारान्विधत्ते -
पात्राणि भवन्तीति। पात्राणि कुम्भकुम्भीरूपाणि। पात्रे कांस्यादिमये जनैरन्नं भक्ष्यते पच्यते च। अतः पात्रस्यान्नयोनित्वात्तत्सहितमेवान्नमाप्नोति। किंचोपधाता वेदिता च पात्रसंख्यया स्वात्मपुत्रपौत्रादेर्द्वादशपुरुषपर्यन्तादन्नसमृद्धो भवति। अपि च पात्राद्गृहोपकरणसंघातात्कदाचिदपि न विच्छिद्यते।
पात्राणां परिमाणविशेषं विधत्ते -
कुम्भाश्च कुम्भीश्चेति। कुम्भाः पुरुषसदृशाः प्रौढा घटाः। कुम्भ्यो योषित्समाना अल्पाः। अतो मिथुनसंपत्त्या प्रजोत्पादनाय भवति। उपधातृवेदितारौ मिथुनरूपाः प्रजा उत्पादयतः। प्रकारान्तरेण तदुपधानं प्रशंसति-
शुग्वा अग्निरिति। अयमग्निः शुग्वै संतापहेतुरेव। अतः सोऽग्निरध्वर्युप्रभृतीन्संतापेन योजयति। अपामुपधानेनाग्नेः। संतापहेतुत्वं शमयति। यस्मिन्कर्मण्येता इष्टका उपधीयन्ते न तत्राध्वर्युर्म्रियते नापि यजमानः। प्रजाश्च सर्वबाधोपशमयुक्ता भवन्ति। पुनः प्रकान्तरेण प्रशंसति-
अपां वा इति। एताः पात्रगता या आप एतान्यब्देवतानां ह्रदयस्थानानि
१ ख भवन्ति।
[[2456]]
श्रीमत्सायणाचार्यविरचितेभाष्यसमेता—(५ पञ्चमकाण्डे–
(कुम्भेष्टकोपधानविधिः)
अत एवाऽऽसामुपधातेष्टकारूपोपेतो अपो दिव्याभिरद्भिः संयोजयति। ततः पर्जन्यो वर्षणशीलो भवति॥ अथोपधानस्थानं विधत्ते —
यो वा एतासामिति। आयतनं स्थानम्। कॢप्तिः सामर्थ्यम्। तदुभयं यो वेद स प्रौढगृहाद्यायत वान्भवति। एतदर्थं च सर्वं भोग्यजातं समृद्धं भवति। अतोऽभिज्ञोऽनुसीतमुपदध्यात्, एकैकस्यां दिशि या लाङ्गलपद्धतयस्ता अनुसृत्योपदध्यात्। एतत्सीतासमीपमेवैतासां कुम्भेष्टकानां स्थानम्। तत्रावस्थितिरेवैतासां सामर्थ्यमुक्तम्॥ वेदनफलमुपसंहरति —
य एवं वेदेति। उपधाने प्रकारविशेषं विधत्ते —
द्वंद्वमन्या इति। पूर्वदिग्वर्तिनीषु तिसृषु सीतासु कुम्भं कुम्भीं चेति द्वंद्वम्। एवं दिगन्तरेष्वपि। तदिदमुच्यते - द्वंद्वमन्या इति। द्वादशानां मध्ये दिक्च-तुष्टयेऽष्टौ गताः। अथावशिष्टाश्चतस्रो मध्ये स्थापयेत्। तच्च धृत्यै दार्ढ्याय भवति॥
अथ दिवि श्रयस्वेतिमन्त्रसाध्यं चरूपधानं विधत्ते —
अन्नं वा इष्टका इति। इष्टका अन्नहेतुत्वादन्नं, चरुः साक्षादेवान्नमत-श्चरूपधानेन व्यवधानं विनैव मुख्यमन्नं प्राप्नोति॥ उपधानस्थानं विधत्ते —
मध्यत उपेति। इष्टकानां मध्ये चरुस्थापनं यत्तद्यजमानस्य मध्य उदरेऽन्नं स्थापितं भवति। मध्यमे वयसि भूयिष्ठमन्नमद्यते॥ चरोर्देवतां विधत्ते -
बार्हस्पत्यो भवतीति। ब्रह्मणैव ब्राह्मणवृत्त्यैव याजनादिना न तु सेवा दिनेत्यर्थः। मन्त्रे ब्रह्मवर्चसशब्दद्वयस्य तात्पर्यं दर्शयति-
ब्रह्मवर्चसमसीति। तेजः कान्तिः। ब्रह्मवर्चसमध्ययनादिसंपत्तिः॥
अत्र मीमांसा।
द्वितीयाध्यायस्य तृतीयपादे सप्तमाधिकरणे चिन्तितम्-
चरुर्भवति नैवार उपधत्ते चरुं त्विति।
यागः स्यादुपधानं वा याग शेषोक्तदेवतः॥
यागत्वानिश्चये शेषो नापेक्ष्योऽतो यजिः कुतः।
किं तूपधानमात्रत्वं यावदुक्तं चरोः स्थितम्॥
१ ख. गस्यानि।
[[2457]]
प्रपा. ६ अनु. ३) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(भूतेष्टकाद्यभिधानम्)
अग्नौ श्रूयते - “नैवारश्चरुर्भवति” इति, “चरुमुपदधाति” इति च। तत्र नीवारचरुद्रव्यको यागो विधीयते। न चात्र देवताया अभावः। “बृहस्पतेर्वा एतदन्नं यन्नीवाराः” इति वाक्यशेषेण देवतासिद्धेः। उपधानं तु यागोपयुक्तस्य प्रतिपत्तिः स्विष्टकृद्वदिति प्राप्ते ब्रूमः - यागविधौ निश्चिते सति पश्चाद्देव-तायामपेक्षितायां वाक्यशेषबलाद्देवताकॢप्तिः। इह तु देवताकल्पनेन यागविधित्वनिश्चय इत्यन्योन्याश्रयः। तस्मादिहोपधानमात्रं विधीयते
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजु-र्वेदीयतैत्तिरीयसंहिताभाष्ये पञ्चकाण्डे षष्ठप्रपाठके
द्वितीयोऽनुवाकः॥२॥