०१

(तत्र प्रथमोऽनुवाकः)
ह॒रि॒ ॐ।
हि॑रण्यवर्णाः॒ शुच॑यः पाव॒काः यासु॑ जा॒तः
क॒श्यपो॒ यास्विन्द्रः॑। अ॒ग्निं या गर्भं॑ दधि॒रे
विरू॑पा॒स्ता न॒ आपः॒ शँ स्यो॒ना भ॑वन्तु।
यासाँ॒ राजा॒ वरु॑णो॒ याति॒ मध्ये॑ सत्यानृते॒
अ॑व॒पश्य॒ञ्जना॑नाम्। मधु॒श्चुतः॒ शुच॑यो॒ याः
पा॑व॒कास्ता न॒ आपः॒ शँ स्यो॒ना भ॑वन्तु।
यासां॑ दे॒वा दि॒वि कृ॒ण्वन्ति॑ भ॒क्षं या अ॒न्त
रि॑क्षे बहु॒धा भव॑न्ति। याः पृ॑थि॒वीं पय॑सो॒-
न्दन्ति (१) शु॒क्रास्ता न॒ आपः॒ शँ
स्यो॒ना भ॑वन्तु। शि॒वे॑न मा॒ चक्षु॑षा पश्य-
ताऽऽपः शि॒वया॑ त॒नुवोप॑ स्पृशत॒ त्वचं॑ मे।
सर्वाँ॑ अ॒ग्नीँ र॑प्सु॒षदो॑ हुवे वो॒ मयि॒ वर्चो॒
बल॒मोजो॒ नि ध॑त्त। यद॒दः सं॑प्रय॒तीरहा॒व-
न॑दता ह॒ते। तस्मा॒दा न॒द्यो॑ नाम॑ स्थ॒ ता
वो॒ नामा॑नि सिन्धवः। यत्प्रेषि॑ता॒ वरु॑णेन॒
ताः शीभँ॑ स॒मव॑ल्गत (२)। तदा॑प्नो॒दि
न्द्रो॑ वो य॒तीस्तस्मा॒दापो॒ अनु॑ स्थन। अ॒प॒ —
का॒मँ स्यन्द॑माना॒ अवी॑वरत वो॒ हिक॑म्।
इन्द्रो॑ वः॒ शक्ति॑भिर्देवी॒स्तस्मा॒द्वार्णाम॑ वो
हि॒तम्। एको॑ दे॒वो अप्य॑तिष्ठ॒त्स्यन्द॑माना

[[2448]]

श्रीमत्सायणाचार्यविरचितेभाष्यसमेता—–(५ पञ्चमकाण्डे—-
(कुम्भेष्टकामन्त्रणार्थमन्त्राभिधानम्)
यथाव॒शम्। उदा॑निषुर्म॒हीरिति॒ तस्मा॑दुद॒क —
मु॑च्यते। आपो॑ भ॒द्रा घृ॒तमिदाप॑ आसुर॒ —
ग्नीषोमौ॑ बिभ्र॒त्याप॒ इत्ताः। ती॒व्रो रसो॑
मधु॒पृचा॑म्। (३) अ॒रं॒ग॒म आ मा॑ प्रा॒णेन॑
स॒ह वर्च॑सा गन्। आदित्प॑श्याम्यु॒त वा॑
शृणो॒म्या मा॒ घोषो॑ गच्छति॒ वाङ्न॑ आसा —
म्। मन्ये॑ भेजा॒नो अ॒मृत॑स्य॒ तर्हि॒ हिर॑ण्य
वर्णा॒ अतृ॑पं य॒दा वः॑। आपो॒ हि ष्ठा म॑यो॒ —
भुव॒स्ता न॑ ऊ॒र्जे द॑धातन। म॒हे रणा॑य॒ च
क्ष॑से। यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजय —
ते॒ह नः॑। उ॒श॒तीरि॑व मा॒तरः॑। तस्मा॒ अरं॑
गमाम वो॒ यस्य॒ क्षया॑य॒ जिन्व॑थ। आपो॑
ज॒नय॑था च नः। दि॒वि श्र॑यस्वा॒न्तरि॑क्षे
यतस्व पृथि॒व्या सं भ॑व ब्रह्मवर्च॒सम॑सि ब्र —
ह्मवर्च॒साय॑ त्वा (४)॥
उ॒न्दन्ति॑ स॒मव॑ल्गत मधु॒पृचां॑ मा॒तरो॒ द्वाविँ॑शतिश्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके षष्ठ-
प्रपाठके प्रथमोऽनुवाकः॥१॥


(अथ पञ्चमकाण्डे षष्ठः प्रपाठकः)।
(तत्र प्रथमोऽनुवाकः)
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥

[[2449]]

प्रपा. ६ अनु. १) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(कुम्भेष्टकामन्त्रणार्थमन्त्राभिधानम्)
उक्ता वायव्यपश्वाद्याः पञ्चमे हि प्रपाठके।
कुम्भेष्टकामन्त्रणादि षष्ठे मन्त्रैरुदीर्यते॥
यदुक्तं सूत्रकारेण हिरण्यवर्णा इत्युपहिता अभिमन्त्रयते इति तत्र कुम्भेष्टकाभिमन्त्रणार्थानां त्रयोदशानामृचां मध्ये प्रथममाह—
हिरण्यवर्णा इति। आपस्तावन्निर्मलत्वेन भास्वरत्वाद्धिरण्यसदृशवर्णोपेताः। तथा शुचयः स्वयं शुद्धाः पावकाः स्नानादिना शरीरादिशुद्धिहेतवश्च। यास्वप्सु कश्पाख्यः प्रजापतिरुत्पन्नः। यास्वप्स्विन्द्रोऽप्युत्पन्नः। अग्निं च या आपो गर्भत्वेन दधिरे। तदेतत्त्रयं शाखान्तरगतेभ्योऽर्थवादेभ्यो द्रष्टव्यम्। अत्राप्यग्ने गर्भो अपामसीति चतुर्थकाण्डे मन्त्रान्तरं समाम्नातम्। ईदृश्यो या आपस्ताः स्योनाः सुखकारिण्यो नोऽस्माञ्शं भवन्तु सुखं प्रापयन्तु।
अथ द्वितीयामाह-
यासाँ राजेति। वरुणाख्यो राजाऽपामधिपतिर्यासामपां मध्ये याति गूढः संचरति। किं कुर्वन्, जनानां सत्यानृते अवपश्यन्स्नानपानादौ१ यो यथा शास्त्रमाचरति तत्सर्वमवपश्यत् ताश्चाऽऽपो मधुररसं श्चोतन्ति सारयन्तीति मधुश्चुतः। शुचय इत्यादि पूर्ववत्। अथ तृतीयामाह —
यासां देवा इति। दिवि द्युलोके देवा यासामपां संबन्धि सारं भक्षं कृण्वन्ति स्वभोज्यं कुर्वन्ति। पीयूषं हि देवैः सेव्यते, तच्चापां सारभूतम्। याश्चाऽऽपोऽन्तरिक्षे वृष्टिधारारूपेण बहुप्रकारा भवन्ति। याश्चाऽऽपः पृथिवीं सर्वां पयसा स्वकीयेन द्रवेणोन्दन्ति क्लेदयन्ति। शुक्रा निर्मलाः। ता न आप इत्यादि पूर्ववत्। अथ चतुर्थीमाह —
शिवेन मेति। हे आपो यूयं शिवेन चक्षुषा शान्तया दृष्ट्या मा पश्यत मामवलोकयत। तथ शिवया तनुवा शान्तेन युष्मदीयशरीरेण मे त्वचमुपस्पृ-शत। अहमप्यप्सुषदो जलेषु स्थितान्सर्वानप्यग्नीन्हुवे जुहोमि होमन तर्पयामि। वो युष्मदीयं यद्वर्चः कान्तिर्यच्च बलं यदप्योजो बलहेतुरष्टमो धातुस्तत्सर्वं मयि निधत्त स्थापयत।


१ ख.दौ यद्यथा।

[[2450]]

श्रीमत्सायणाचार्यविरचितेभाष्यसमेता—(५ पञ्चमकाण्डे–
(कुम्भेष्टकामन्त्रणार्थमन्त्राभिधानम्)
अथ पञ्चमीमाह —
यददः संप्रयतीरिति। यद्यस्मात्कारणाददो द्युलोकस्थानात्संप्रयतीः सम्य-क्प्रकर्षेण गच्छन्त्यो हे आपो यूयम्। अहिशब्दो मेघनामधेयम्। यस्मिन्हते युष्माभिस्ताडिते सत्यनदत नादं कृतवत्यः। प्रवाहगतपाषाणेष्विव मेघेषु जलाघातेन शब्दो जायते। यस्मान्नादं कृतवत्यस्तस्मादा समन्तात्सर्वेष्वपि स्थानेषु नद्यो नाम स्थ नदीति नामधेयं प्राप्ताः। हे सिन्धवः स्यन्दनशीला आपो वो युष्माकं तानि नामानि तादृशानि निर्वचनसाध्यानि नामानि विद्यन्ते।
अथ षष्टीमाह —
यत्प्रेषिता इति। हे आपो यद्यस्मात्कारणाद्वरुणेन प्रेषितास्ता यूयं शीभं समवल्गत शुभं यथा भवति तथा सम्यग्वल्गनवन्नृत्तं हर्षेण कृतवत्यस्तत्तदानीं यतीः प्रसरन्तीर्वो युष्मानिन्द्र उत्सुकः सन्द्रष्टुमाप्नोत्तस्मात्कारणादाप्यन्त इति व्युत्पत्त्याऽऽप इति नामधेयं प्राप्यानुस्थन सर्वेषामनुकूलाः स्थ।
अथ सप्तमीमाह-
अपकाममिति। देवीर्हे आपो देव्योऽपकामं स्यन्दमानाः प्रयोजनविशेष-मनपेक्ष्य स्वभावत एव प्रवहन्तीर्वो युष्मानिन्द्रः परितोषदवीवरत वृतवान्। स्यन्दनेऽपि युष्मांक न साधनान्तरापेक्षा किं तु वः शक्तिभिर्युष्मदीयशक्तिवशादेव स्यन्दनं, हिकमित्यव्ययं प्रसिद्धिवाचकम्। उदकस्य स्वशक्त्यैव स्यन्दनं सर्वलोकप्रसिद्धमित्यर्थः। यस्मादिन्द्रेण वृतास्तस्माद्वो युष्माकं वारिश्त्येतन्नाम हितं संपन्नम्। अथाष्टमीमाह-
एको देवो अपीति। यथावशं स्वेच्छयैव स्यन्दमाना अप एको देव इन्द्रोऽप्यतिष्ठदध्यतिष्ठत्स्वाधीनाः कृतवान्। इन्द्रेणाधिष्ठिता ता आपो महीर्महत्यः प्रभूताः सत्य उदानिषुरुत्कर्षेण चेष्टितवत्यः। तस्मादुदानादुदकमिति नामोच्यते।
अथ नवमीमाह-
आपो भद्रा इति। एता आपो भद्राः कल्याणरूपा आप इदाप एव घृतमासुर्गोशरीरद्वारा घृतरूपेण परिणताः। ता आप इत्तादृश्य आप एवाग्री-षोमौ देवौ बिभ्रति धारयन्ति। अग्निं या गर्भमित्यग्निधारणं पूर्वमेवोक्तम्। सोम

[[2451]]

प्रपा. ६ अनु. १) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(कुम्भेष्टकामन्त्रणार्थमन्त्रभिधानम्)
धारणमप्यमृतकारणद्वारा द्रष्टव्यम्। मधुपृचां माधुर्ययुक्तानामपां रतः सारांश- स्तीव्रोऽत्यन्तस्वादुररंगमोऽलं संपूर्णं यथा भवति तथा गच्छति प्राप्नोति सर्वजनपुष्टिकारीत्यर्थः। तादृशो रसः प्राणेन श्वासवायुना वर्चसा बलेन सह मा मां प्रत्यागन्नागच्छतु यावदपां रसोऽन्नादिरूपेण शरीरे तिष्ठति तावत्प्राणो नातिगच्छति। बलं च न विनश्यति। अथ दशमीमाह —
आदित्पश्यामीति। आदिदनन्तरमेव पश्यामि अपां रसे मच्छरीरमागते सति तदानीमेव चक्षुषा द्रष्टुं शक्तोऽस्मि। उत वा शृणोमि अपि च श्रोतुमपि शक्तोऽस्मि। आसामपां घोषो नाद आगच्छति मच्छरीरे वर्तते। स एव घोषो नोऽस्माकं वाक्। हे हिरण्यवर्णास्तेजस्विन्य आपो यदा वो युष्माकं सेवयाऽतृपमहं तृप्तोऽभवं तर्हि तस्मिन्कालेऽमृतस्य भेजानो मन्ये पीयूषं सेवितवानस्मीति तर्कये। अथैकादशीमाह —
आपो हि ष्ठेति। हिशब्द एवकारार्थः प्रसिद्ध्यर्थो वा। आपो यूयमेव मयोभुवः स्थ सुखयित्र्यो भवत। स्नानपानदिहेतुत्वेन सुखोत्पादकत्वं प्रसिद्धम्। तास्तादृश्यो यूयं नोऽस्मानूर्जे रसाय भवदीयरसानुभवार्थं दधातन स्थापयत। किंच महे महते रणाय रमणीयाय चक्षसे दर्शनाय दधातनास्मान्परतत्त्वसाक्षात्कारयोग्यान्कुरुतेत्यर्थः। अथ द्वादशीमाह —
यो वः शिवतम इति। वो युष्माकं शिवतमः शान्ततमः सुखैकहेतुर्यो रसोऽस्ति। इहास्मिन्कर्मणि नो स्मान्। तस्य भाजयत तं रसं प्रापयत। तत्र दृष्टान्तः- उशतीरिव मातरः कामयमानाः प्रीतियुक्ता मातरो यथा स्वकीयस्तन्यरसं शिशुं पाययन्ति तद्वत्। अथ त्रयोदशीमाह —
तस्मा अरमिति। यस्य रसस्य क्षयाय क्षयेण निवासेन जिन्वथ यूयं प्रीता भवथ तस्मै रसाय वो युष्मानरं गमामालं भृशं प्राप्नुमः। किंच हे आपा यूयं नोऽस्माञ्जनयथ प्रजोत्पादकान्कुरुत।
कल्पः - “दिवि श्रयस्वेति बार्हस्पत्यं नैवारं पयसि चरुं मध्ये कुम्भेष्टका-नामुपदधाति” इति पाठस्तु —
दिवि श्रयस्वेति। हे नैवारचरो दिवि श्रयस्व द्युलोक आश्रितो भव।

[[2452]]

श्रीमत्सायणाचार्यविरचितेभाष्यसमेता—(५ पञ्चमकाण्डे–
(कुम्भेष्टकोपधानविधिः)
अन्तरिक्षेऽपि यतस्व प्रयत्नवान्भव। पृथिव्या संभव संयुक्तो भव। ब्रह्मवर्चसमसि तत्साधनत्वात्तद्रूपमसि। अतो ब्रह्मवर्चसाय त्वामत्रोपदधामि।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे षष्ठप्रपाठके
प्रथमोऽनुवाकाः॥१॥