१२

(अथ पञ्चमाष्टके चतुर्थप्रपाठके द्वादशोऽनुवाकः)।
पव॑स्व॒ वाज॑सातय॒ इत्य॑नु॒ष्टु॒क्प्र॑ति॒पद्भ॑वति
ति॒स्रो॑ऽनु॒ष्टुभ॒श्चत॑स्रो गाय॒त्रियो॒ यत्ति॒स्रोऽ
नु॒ष्टुभ॒स्तस्मा॒दश्व॑स्त्रि॒भिस्तिष्ठँ॑ स्तिष्ठति॒ य
च्चत॑स्त्रो गाय॒त्रिय॒स्तस्मा॒त्सर्वाँ॑ श्च॒तुरः॑ प॒द ।

[[2381]]

प्रपा० ४ अनु० ११) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अश्वमेधीयस्तोत्रसंबन्ध्यृगाद्यभिधानम्)
प्र॑ति॒दध॒त्पला॑यते पर॒मा वा ए॒षा छन्द॑सां॒
यद॑नु॒ष्टुक्प॑रम॒श्च॑तुष्टो॒मः स्तोमा॑नां पर॒म
स्त्रि॑रा॒त्रो य॒ज्ञानां॑ पर॒मोऽश्वः॑ पशू॒नां प॑र॒मे
णै॒वैनं॑ पर॒मतां॑ गमयत्येकविँ॒ शमह॒र्भवति
(१) यस्मि॒न्नश्व॑ आल॒भ्यते॒ द्वाद॑श॒ मासाः॒
पञ्च॒र्तव॒स्त्रय॑ इ॒मे लो॒का अ॒सावा॑दि॒त्य ए॑क —
विँ॒श ए॒ष प्र॒जाप॑तिः प्राजाप॒त्योऽश्व॒स्तमे॒वऽ
सा॒क्षादृ॑ध्नोति॒ शक्व॑रयः पृ॒ष्ठं भ॑वन्त्य॒न्यद॑-
न्य॒च्छन्दो॒ऽन्ये॑न्ये॒ वा ए॒ते प॒शव॒ आ लभ्यन्त
उ॒तेव॑ ग्रा॒म्या उ॒तेवा॑ऽऽर॒ण्या यच्छक्व॑रयः
पृ॒ष्ठं भव॒न्त्यश्व॑स्य सर्व॒त्वाय॑ पार्थुर॒श्मं ब्र॑ह्म-
सा॒मं भ॑वति र॒श्मिना॒ वा अश्वः॑ (२)
य॒त ईश्व॒रो वा अश्वोऽय॒तोऽप्र॑तिष्ठितः॒ परां॑
परा॒वतं॒ गन्तो॒र्यत्पा॑र्थुर॒श्मं ब्र॑ह्मसा॒मं भव॒त्य-
श्व॑स्य॒ यत्यै॒ धृत्यै॒ संकृ॑त्यच्छावाकसा॒मं भ॑
वत्युत्सन्नय॒ज्ञो वा ए॒ष यद॑श्वमे॒धः कस्तद्वे॒दे-
त्या॑हुर्यदि॒ सर्वो॑ वा क्रि॒यते॒ न वा॒ सर्व॒ इति॒
यत्संकृ॑त्यच्छावाकसा॒मं भव॒त्यश्व॑स्य सर्व॒-
त्वाय॒ पर्या॑प्त्या॒ अन॑न्तरायाय॒ सर्व॑स्तोमोऽ-
तिरा॒त्र उ॑च॒ममह॑र्भवति॒ सर्व॒स्याऽऽप्त्यै॒ सर्व॑-
स्य॒ जित्यै॒ सर्व॑मे॒व तेना॑ऽऽप्रोति॒ सर्वं॑ जयति

[[2382]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—-(५ पञ्चमकाण्डे—
(अश्वमेधीयस्तोत्रसंबन्ध्यृगाद्यभिधानम्)
(अर्हभवति वा अश्वोऽहर्भवति दश च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
चतुर्थप्रपाठके द्वादशोऽनुवाकः॥ १२॥


देवासुरास्तेनर्तव्या रुद्रोऽश्मन्नृषदे वडुदेनं प्राचीमिति वसोर्धारामग्निर्देवेभ्यः
सुवर्गाय यत्राकूताय छन्दश्चितं पवस्व द्वादश॥ १२॥
देवासुरा अजायां वै ग्रुमुष्टिः प्रथमो देवयतामेतद्वै छन्दसाँ
रूपमृध्नोत्यष्टौ पञ्चाशत्॥ ५८॥
हरि ॐ।
इतिकृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
चतुर्थः प्रपाठकः॥ ४॥


(अथ पञ्चमकाण्डे चतुर्थः प्रपाठकः)।
(तत्र प्रथमादिद्वादशान्ता अनुवाकाः)।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥
प्रपाठके तु तार्तीये वर्णिताश्चितयोऽखिलाः।
चतुर्थे चितिसंस्कारो द्वादशात्रानुवाककाः॥
इष्टका इन्द्रतन्वाख्या यज्ञतन्वभिधास्तथा।
नक्षत्राख्याश्च विहिताः प्रथमेऽप्यनुवाकके॥
ऋतव्या वैश्वदेव्यश्च द्वितीये प्रोक्षणं तथा।
शतरुद्रीयहोमस्तु तृतीये समुदीरितः॥
परिषेचनमप्युक्तं तुर्ये तद्वद्विकर्षणम्।
व्याघारणं वैश्वकर्मणाऽऽहुतिश्चात्र पञ्चमे॥

[[2383]]

प्रपा० ४ अनु० ११) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अश्वमेधीयस्तोत्रसंबन्ध्यृगाद्यभिधानम्)
षष्ठे तु समिदाधानमग्निप्रणयनं तथा।
होताऽन्वाहाप्रतिरथं दशर्चं सविकल्पकम्।
सप्तमे चितिमारुह्य वह्निं तत्र विनिक्षिपेत्।
वसोर्धाराऽष्टमे वाजप्रसवीयोऽप्यनन्तरे॥
दशमे वहिनयोगश्च पुनश्चितिरितीरितः।
एकादशे तु काम्यानि विहव्याश्च समीरिताः॥
द्वादशे त्वश्वमेधीयस्तोत्रे त्रयमुदीरितम्।
ऋक्स्तोमः साम चेत्येवं प्रपाठक उदीरितः॥
तत्राऽऽदौ बहिष्पवमानस्तोत्रे चोदकप्राप्तां गायत्रीमपवदितुमन्यामृचं विधत्ते —
पवस्व वाजसातय इति। बहिष्पवमान तोत्रे प्राकृते त्रयस्तृचा गायत्राः। तेऽत्र चोदकेन प्राप्ताः। तत्परित्यागेन पवस्वेत्यादिका येयमृगमुष्टुक्सा प्रतिपत्प्रथमा कार्या। प्रतिपध्यते प्रारभ्यतेऽनयेति प्रतिपन्। अस्मिंस्तृचे चतुष्पादो यास्तिस्त्रोऽनुष्टुभस्तास्त्रिपात्त्वेन विभज्यमानाश्चतस्त्रो गायत्रियो भवन्ति। तत्र यस्मात्स्वरूपेण तिस्त्रोऽनुष्टुभस्तस्मादश्वो गमनं परित्यज्यैकत्र यदा तिष्ठति तदानीमेकस्मिन्पादे भारमुपेक्ष्य त्रिष्वेव पादेषु भारमवलम्व्य तिष्ठति। यस्मादेता विभज्यमानाश्चतस्रो गायत्रियस्तस्मात्पलायमानोऽश्वश्चतुरः पादान्सर्वानपि भूमौ प्रक्षपन्नेवपलायते। प्रकारान्तरेणानुष्टुभं प्रशंसति —
परमा वा इति। सर्ववागात्मकत्वाच्छन्दसां मध्यऽनुष्टुभः परमत्वं वाग्वा अनुष्टुबिति बहुशः श्रुतम्। स्तोमानां त्रिवृदग्निष्टोमादीनां मध्ये प्रकृतत्वाच्चां तुष्टोमस्य परमत्वम्। त्रिरात्रस्याश्वमेधस्य महापातकप्रायश्चित्तरूपत्वाद्यज्ञानमध्ये परमत्वम्। तादृशयज्ञसाधनत्वात्संग्रामजयहेतुत्वाच्च पशूनां मध्येऽश्वस्य परमत्वम्। एवं सति परमस्य त्रिरात्रस्य परमे चतुष्टोमे परमस्याश्वस्य संबन्धित्वेनानुषटुभि परमायां प्रयुज्यमानायां परमेणैवैनं साधनसमूहेन परमतां श्रेष्ठतां प्राप्नोति। प्रकृतिप्राप्तास्त्रिवृदादिस्तोमान्वाधितुं स्तोमान्तरं विधत्ते —
एकविँ शमिति। एकविंशावृत्त्यात्मकेन स्तोमेन सर्वत्र युक्तं न तु स्तोमान्तरेण तादृशमेकविंशमहः कर्तव्यम्। प्रथमतृतीययोरहेनार्व्यावृत्तये विशेष्यते —

[[2384]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—-(५ पञ्चमकाण्डे—
(अश्वमेधीयस्तोत्रसंबन्ध्यृगाद्यभिधानम्)
यस्मिन्मध्यमेऽहन्ययमश्व आलभ्यते तदहरेकविंशम्। अश्वो ह्युक्थ्यसंज्ञके द्वितीयेऽहन्यालभ्यते। मासर्तुलोकादित्यानामेकविंशतिसंख्योपेतत्वाज्जगद्रूपेण प्रजापतिशरीरत्वादश्वस्य प्रजापतिजन्यत्वाच्च तस्याश्वस्य समृद्ध्यर्थमयमेकविंशतिस्तोमो युक्तः।
अथ पृष्ठस्तोत्रगतानामृचां छन्दोन्तरं वारयितुं शक्वर्याख्यं छन्दो विधत्ते —
शक्करयः पृष्ठमिति। शक्वरीछन्दोपेता ऋचः शक्वरयस्तामिर्युक्तं पृष्ठस्तोत्रं कुर्यात्। सप्तपादात्मके शक्वर्यात्मके (ख्ये) छन्दसि पादत्रयात्मकं गायत्र्याख्यं छन्दः, पादचतुष्टयात्मकं त्रिष्टुबाख्यं छन्दः, पादपञ्चकात्मकं पङ्क्त्यात्मकं (ख्यं) छन्द इत्येवमन्यदन्यन्नानाविधं छन्दोऽन्तर्भवति। अश्वमेधेऽप्यश्वप्रधानकेऽन्येऽन्ये नानाजातीया एव पशव आलभ्यन्ते। तत्र केचन ग्राम्या एव केचनाऽऽरण्या एव। तत्राप्यवान्तरभेदा बहुधा द्रष्टव्याः। एवं सर्वपृष्ठस्तोत्रेऽश्वमेधसंबन्धिनि नानाछन्दोगर्भितशक्वरीस्वीकारे सति मुख्यस्याश्वस्य सर्वपश्वात्मकत्वं संपादितं भवति। अथ चोदकप्राप्तं सामान्तरमपवदितुं सामविशेषं विधत्ते —
पार्थुरश्ममिति। पृथुरश्मिना महर्षिणा दृष्टं साम पार्थुरश्मं, ब्रह्माणमृत्विजमभिलक्ष्य गीयमानं साम ब्रह्मसामं, तच्च नात्र प्रकृतं कार्यं — किंतु पार्थुरश्मं कार्यम्। यस्मात्कारणाद्रश्मिना रज्जुविशेषेण दृढीभूतोऽश्वः पुरुषमपेक्षितदेशे नेतुमीश्वरः समर्थः यस्माच्च कारणादयतो नियमनरहितो श्वः क्वाप्यप्रतिष्ठितः सन्नत्यन्तं दूरं गन्तुं समर्थस्तस्मादश्वस्य यत्यै दूरगमननियमनायोपरितनपुरुषेण धारणाय च पार्थुरश्मं कार्यम्। तथैवाच्छावाकं प्रति गातव्यं सामविशेषं विधत्ते —-
संकृत्यच्छावाकेति। समीचीनाऽऽकृतिर्यस्य साम्नस्तत्संकृति विकलमङ्गं सम्यक्कर्तुं समर्थमित्यर्थः। एतन्नामकं सामगानां यत्प्रसिद्धं तदच्छावाकमभिलक्ष्य गातव्यम्। योऽयमश्वमेधः ऋतुः सोऽयं विनष्टयज्ञावयवो बहुभिरवयवैरुपेतत्वात्कृत्स्नोऽयमवथवसंघातः क्रियते क्वचित्किंतिदवयवो विस्मृतो वेति को नाम लोके वेत्ति। तस्मात्संकृतियामानेनाश्वसंबन्धिनः ऋतोः सर्वावयवसाकल्यं भवति। तच्च देवानां संपूर्त्यै यजमानस्य च स्वर्गप्राप्तिविघ्नपरिहाराय संपद्यते।
अपेक्षितविशेषगुणैर्युक्तं द्वितीयमहर्विधायाथ तृतीयं विधत्ते —-

[[2385]]

प्रपा० ४ अनु० ११) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अश्वमेधीयस्तोत्रसंबन्ध्यृगाद्यभिधानम्)
सर्वस्तोम इति। त्रिवृदाद्यास्त्रयस्त्रिंशदन्ता आम्नाताः सर्वेऽपि स्तोमायस्मिन्नतिरात्रे सन्ति सोऽयमतिरात्रस्तृतीयदिवसे कर्तव्यः। तच्च स्तोमगतं सर्वत्वं स्वेन पूर्वमप्राप्तस्य सर्वस्यापि प्राप्त्यै भवति। यस्तु वैरी पूर्वमजितस्तस्य सर्वस्यापि जयाय भवति। तस्मादयं यजमानस्तेन सर्वस्तोमेन प्राप्तव्यं धनादिकं सर्वं प्राप्नोति, जेतव्यं वैरिवर्गं सर्वं जयति॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे चतुर्थप्रपाठके
प्रथमादिद्विदशान्ता अनुवाकः॥ १-१२॥


वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः।
इति श्रीमद्विद्यातीर्थमहेश्वरापरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य
श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधवाचार्येण विरचिते
वेदार्थप्रकाशे कृष्णयजुर्वेदीय तैत्तिरीयसंहिताभाष्ये
पञ्चमकाण्डे चतुर्थः प्रपाठकः॥ ४॥


[[2386]]