११

(अथ पञ्चमाष्टके चतुर्थप्रपाठक एकादशोऽनुवाकः)।
छ॒न्द॒श्चितं॑ चिन्वीत प॒शुका॑मः प॒शवो॒ वै
छन्दाँ॑ सि पशु॒माने॒व भ॑वति श्ये॒नचितं॑ चि -
न्वीत सुव॒र्गका॑मः श्ये॒नो वै वय॑सां॒ पति॑ष्ठः
श्ये॒न ए॒व भू॒त्वा सु॑व॒र्ग लो॒कं प॑तति कृड्क॒
चितं॑ चिन्वीत॒ यः का॒मये॑त शीर्ष॒ण्वान॒मु -
ष्मि॑ल्लोँ॒के स्या॒मिति॑ शीर्ष॒ण्वाने॒वामुष्मि॑
ल्लोँ॒के भ॑वत्यलज॒चितं॑ चिन्वीत॒ च॑तुःसीतं
प्रति॒ष्ठाका॑म॒श्चत॑स्त्रो॒ दिशो॑ दि॒क्ष्य॑व प्रति॑
तिष्ठति प्रउग॒चितं॑ चिन्वी॒त भ्रातृ॑व्यवा॒न्प्र
(१) ए॒व भ्रातृ॑व्यान्नुदत उभ॒यतः॑प्रउगं
चिन्वीत॒ यः का॒मये॑त प्रजा॒तान्भ्रातृ॑व्यान्नु
देय॒ प्रति॑ जनि॒ष्यमा॑णा॒निति॑ प्रैव जा॒ता -
न्भ्रातृ॑व्यान्नु॒दते॒ प्रति॑ जनि॒ष्यमा॑णान्रथच -
क्र॒चितं॑ चिन्वीत॒ भ्रातृ॑व्यावा॒न्वज्रो॒ वै रथो॒
वज्र॑मे॒व भ्रातृ॑व्येभ्यः॒ प्र ह॑रति द्रोण॒चितं॑
चिन्वी॒तान्न॑कामो॒ द्रो॒णे वा अन्नं॑ भ्रियते॒
सयो॑न्ये॒वान्न॒मव॑ रुन्धे समू॒ह्यं॑ चिन्वीत प॒शु -
का॑मः पशुमाने॒व भ॑वति (२) प॒रि॒चा॒य्यं
चिन्वीत॒ ग्राम॑कामो ग्रा॒म्येव भ॑वति श्मशा -
न॒चितं॑ चिन्वीत॒ यः का॒मये॑त पितृलो॒क
ऋ॑ध्नुया॒मिति॑ पितृलो॒क ए॒वध्नो॑ति विश्वा -

[[2380]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—-(५ पञ्चमकाण्डे—
(अश्वमेधीयस्तोत्रसंबन्ध्व्यृगाद्यभिधानम्)
मित्रजमद॒ग्नी वसि॑ष्ठेनास्पर्धेताँ॒ स ए॒ता
ज॒मद॑ग्निर्विह॒व्या॑ अपश्य॒त्ता उपा॑धत्त ताभि॒र्वै
स वसि॑ष्ठस्येन्द्रि॒यं वी॒र्य॑मवृङ्क्त॒ यद्वि॑ह॒व्या॑
उप॒दधा॑तीन्द्रि॒यमे॒व ताभि॑र्वी॒र्य॑ यज॑मानो॒
भ्रातृ॑व्यस्य वृङ्क्ते॒ होतु॒र्धिष्णि॑य॒ उप॑ दधा -
ति यजमानायत॒नं वै (३) होता॒ स्व ए॒ -
वास्मा॑ आ॒यत॑न इन्द्रि॒यं वी॒र्य॑मव॑ रुन्धे॒ द्वा -
द॒शोप॑ दधाति॒ द्वाद॑शाक्षरा॒ जग॑ती॒ जाग॒ताः
प॒शवो॒ जग॑त्यै॒वास्मै॑ प॒शूनव॑ रुन्धे॒ऽष्टाव॑ष्टा
व॒न्येषु॒ धिष्णि॑ये॒षूप॑ दधात्य॒ष्टाश॒फाः प॒शवः॑
प॒शूने॒वाव॑ रुन्धे॒ षण्मा॑र्जा॒लीये॒ षड्वा ऋ॒तव
ऋ॒तवः खलु॒ वै दे॒वाः पि॒तर॑ ऋ॒तूने॒व दे॒वा -
न्पि॒तॄन्प्री॑णाति (४)॥
(प्र भ॑वति यजमानायत॒नं वा अ॒ष्टाच॑त्वारिँ शच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
चतुर्थप्रपाठक एकादशोऽनुवाकः॥ ११॥