१०

(अथ पञ्चमाष्टके चतुर्थप्रपाठके दशमोऽनुवाकः)।
सु॒व॒र्गाय॒ वै लो॒काय॑ देवर॒थो यु॑ज्यते यत्रा-
कू॒ताय॑ मनुष्यर॒थ ए॒ष खलु॒ वै देवर॒थो यद॒-
ग्निर॒ग्निं यु॑नाज्मि॒ शव॑सा घृ॒तेनेत्या॑ह युन-
क्त्येवैनँ॒ स ए॑नं यु॒क्तः सु॑व॒र्गं लो॒कम॒भि
व॑हति॒ यत्सर्वा॑भिः प॒ञ्चभि॑र्यु॒ञ्ज्याद्यु॒क्तो॑ऽस्या-
ग्निः प्रच्यु॑तः स्या॒दप्र॑तिष्ठिता॒ आहु॑तयः
स्युरप्र॑तिष्ठिताः॒ स्तोमा॒ अप्र॑तिष्ठितान्यु॒क्था
नि॑ ति॒सृभिः॑ प्रातःस॒वने॑ऽभि मृ॑शति त्रि॒वृत्
(१) वा अ॒ग्निर्यावा॑ने॒वाग्निस्तं यु॑नक्ति॒
यथाऽन॑सि यु॒क्त आ॑धी॒यत॑ ए॒वमे॒व तत्प्रत्या-
हु॑तय॒स्तिष्ठ॑न्ति॒ प्रति॒ स्तोमः॒ प्रत्यु॒क्थानि॑
यज्ञाय॒ज्ञिय॑स्य स्तो॒त्रे द्वाभ्या॑म॒भि मृ॑शत्ये॒-
तावा॒न्वै य॒ज्ञो यावा॑नग्निष्ठो॒मो भू॒मा त्वा
अ॒स्यात॑ ऊ॒र्ध्वः क्रि॑यते॒ यावा॑ने॒व य॒ज्ञस्तम॑-
न्त॒तो॑ऽन्वारो॑हति॒ द्वाभ्यां॒ प्रति॑ष्ठित्या॒ एक॒-
याऽप्र॑स्तुतं॒ भव॒त्यर्थ॑ (२) अ॒भि मृ॑त्युपै॑-
न॒मुत्त॑रो य॒ज्ञो न॑म॒त्यथो॒ संतत्यै॒ प्र वा ए॒-
षो॑ऽस्माल्लो॒काच्च्य॑वते॒ यो॑ऽग्निं चि॑नु॒ते न
वा ए॒तस्या॑निष्ट॒क आहु॑ति॒रव॑ कल्पते॒ यां
वा ए॒षो॑ऽनिष्ट॒क आहु॑तिं जु॒होति॒ स्रव॑ति॒ वै
सा ताँ स्त्र॑वन्तीं य॒ज्ञोऽनु॒ षरा॑ भवति य॒ज्ञं

[[2378]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता - (५ पञ्चमकाण्डे -
(अग्निसंयोजनाभिधानम्)
यज॑मानो॒ यत्पु॑नश्चि॒तिं चि॑नु॒त आहु॑तीनां॒
प्रति॑ष्ठित्यै॒ प्रत्याहु॑तय॒स्तिष्ठ॑न्ति (३) न
य॒ज्ञः प॑रा॒भव॑ति॒ न यज॑मानो॒ऽष्टावुप॑ दधा-
त्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रेणै॒वैनं॒ छन्द॑सा
चिनुते॒ यदेका॑दश॒ त्रैष्टु॑भेन॒ यद्द्वाद॑श॒ जाग॑-
तेन॒ छन्दो॑भिरे॒वैनं॑ चिनुते नप॒ त्को वै नाभै॒-
षो॑ऽग्निर्यत्पु॑नश्चि॒तिर्य ए॒वं वि॒द्वान्पु॑नश्चि॒तिं
चि॑नु॒त आ तृ॒तीया॒त्पु॑रुषा॒दन्न॑मत्ति॒ यथा॒ वै
पु॑नरा॒धेय॑ ए॒वं पु॑नश्चि॒तिर्यो॑ऽग्न्या॒धेये॑न॒ न
(४) ऋ॒ध्नोति॒ स पु॑नरा॒धेय॒मा धत्ते॒ यो॑ऽ-
ग्निं चि॒त्वा नर्ध्नोति॒ स पु॑नश्चि॒तिं चि॑नु॒ते
यत्पु॑नाश्चि॒तिं चि॑नु॒त ऋद्ध्या॒ अथो॒ खल्वा॑-
हु॒र्न चे॑त॒व्येति रु॒द्रो वा ए॒ष यद॒ग्निर्यया॑
व्या॒ध्रँ सु॒प्तं बो॒धय॑ति ता॒दृगे॒व तदथो॒ ख-
ल्वा॑हुश्चेत॒व्येति॒ यथा॒ वसी॑याँ सं भाग॒धे-
ये॑न बो॒धय॑ति ता॒दृगे॒व तन्मनु॑र॒ग्निम॑चिनुत॒
तेन॒ नाऽऽर्ध्नो॒त्स ए॒तां पु॑नश्चि॒तिम॑पश्य॒ता
म॑चिनुत॒ तया॒ वै स आ॑र्ध्नो॒द्यत्पु॑नश्चि॒तिं
चि॑नु॒त ऋद्ध्यै॑ (५)॥
(त्रि॒वृदथ॒ तिष्ठ॑न्त्यग्न्या॒धे॑ये॒न नाचि॑नुत स॒प्तद॑श च)
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
चतुर्थप्रपाठके दशमोऽनुवाकः॥ १०॥

[[2379]]

प्रपा०४ अनु०११) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(काम्यचितीनामभिधानम्)