०८

(अथ पञ्चमाष्टके चतुर्थप्रपाठकेऽष्टमोऽनुवाकः)।
वसो॒र्धारां॑ जुहोति॒ वसो॑र्मे॒ धारा॑ऽस॒दिति॒ वा
ए॒षा हू॑यते घृ॒तस्य॒ वा ए॑नमे॒षा धारा॒ऽमुष्मि॑-
ल्लोँ॒के पिन्व॑मा॒नोप॑तिष्ठत॒ आज्ये॑न जुहोति॒
तेजो॒ वा आज्यं॒ तेजो॒ वसो॒र्धारा॒ तेज॑से॒वास्मै॒
तेजोऽव रु॒न्धेऽथो॒ कामा॒ वै वसो॒र्धारा॒ का-
मा॑ने॒वाव॑ रुन्धे॒ यं का॒मये॑त प्रा॒णान॑स्या॒
न्नाद्यं॒ वि (१) छि॒न्द्या॒मिति॑ वि॒ग्राहं तस्य॑
जुहुयात्प्रा॒णाने॒वास्या॒न्नाद्यं॒ वि च्छि॑नत्ति॒ यं
का॒मये॑त प्रा॒णान॑स्या॒न्नाद्यँ॒ सं त॑नुया॒मिति॒
संततां॒ तस्य॑ जुहुयात्प्रा॒णाने॒वास्या॒न्नाद्यँ॒ सं
त॑नोति॒ द्वाद॑श द्वाद॒शानि॑ जुहोति॒ द्वाद॑श॒
मासाः॑ संवत्स॒रः सं॑वत्स॒रेणै॒वास्मा॒ अन्न॒मव॑
रु॒भ्धेऽन्नं॑ च॒ मेऽक्षु॑च्च म॒ इत्या॑है॒तद्वै (२)

[[2374]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—-(५ पञ्चमकाण्डे -
(वसोर्धाराभिधानम्)
अन्न॑स्य रू॒पँ रू॒पेणै॒वान्न॒मव॑ रुन्धे॒ऽग्निश्च॑
म॒ आप॑श्च म॒ इत्या॑है॒षा वा अन्न॑स्य॒ योनिः॒
सयो॑न्ये॒वान्न॒मव॑ रुन्धे॒ऽर्धेन्द्राणि॑ जुहोति दे॒
वता॑ ए॒वाव॑ रुन्धे॒ यत्सर्वे॑षामर्धमिन्द्र॒ प्रति॒
तस्मा॒दिन्द्रो॑ दे॒तता॑नां भू यष्ठ॒भाक्त॑म॒ इन्द्र॒-
मुत्त॑रमाहेन्द्रि॒यमे॒वास्मिन्नु॒परि॑ष्टाद्दधाति य-
ज्ञायु॒धानि॑ जुहोति य॒ज्ञः (३) वै य॑ज्ञायु॒
धानि॑ य॒ज्ञमे॒वाव॑ रु॒न्धेऽथो॑ ए॒तद्वै य॒ज्ञस्य॑
रू॒पँ रू॒पेणै॒व य॒ज्ञमव॑ रुन्धेऽवमृ॒थश्च॑ मे
स्वगाका॒रश्च॑ म॒ इत्या॑ह स्व॒गाकृ॑त्या अ॒ग्नि-
श्च॑ मे घ॒र्मश्च॑ म॒ इत्या॑है॒तद्वै ब्र॑ह्मवर्च॒सस्य॑
रू॒पँ रू॒पेणै॒व ब्र॑ह्मवर्च॒समव॑ रुन्ध॒ ऋक्च॑
मे॒ साम॑ च म॒ इत्या॑ह (४) ए॒तद्वै छन्द॑-
साँ रू॒पँ रू॒पेणै॒व छन्दाँ॒ स्यव॑ रुन्धे॒ ग
र्भा॑श्च मे व॒त्साश्च॑ म॒ इत्या॑है॒तद्वै प॑शू॒नाँ
रू॒पँ रू॒पेणै॒व प॒शूनव॑ रुन्धे कल्पा॑न्जुहो॒त्य-
कॢप्तस्य॒ कॢप्त्यै॑ यु॒ग्मदयु॒जे जु॑होति मि-
थुन॒त्वायो॑त्त॒रावती भवतो॒ऽभिक्रा॑न्त्या॒ एका॑
च मे ति॒स्रश्च॑ म॒ इत्या॑ह देवछन्द॒सं वा
एका॑ ति॒स्रश्च॑ (५) म॒नु॒ष्य॒छ॒न्द॒सं च
त॑स्रश्चा॒ष्ठौ च॑ देवछन्द॒सं चै॒व म॑नुष्यछन्द॒सं
चाव॑ रुन्ध॒ आ त्रय॑स्त्रि शतो जुहोति॒ त्र-

[[2375]]

प्रपा० ४ अनु० ९) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(वाजप्रसवीयाभिधानम्)
य॑स्त्रिँश॒द्वै दे॒वता॑ दे॒वता॑ ए॒वाव॑ रुन्ध॒
आऽष्टाच॑त्वारिँ शतो जुहोत्य॒ष्टाच॑त्वारिँ
शदक्षरा॒ जग॑ती॒ जाग॑तः प॒शवो॒ जग॑त्यै॒वा -
स्मै॑ प॒शूनव॑ रुन्धे॒ वाज॑श्च प्र॒सवश्चेति॑ द्वाद॒ -
शं जु॑होति॒ द्वाद॑श॒ मासाः संवत्स॒रः सं॑वत्स॒र
ए॒व प्रति॑ तिष्ठति (६)॥
(वि वै य॒ज्ञः साम॑ च म॒ इत्या॑ह च ति॒स्रश्चैका॒न्नप॑ञ्चा॒शच्च॑)।
इति श्री कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
चतुर्थप्रपाठकेऽष्ठमोऽनुवाक॥ ८॥