०७

(अथ पञ्चमाष्टके चतुर्थप्रपाठके सप्तमोऽनुवाकः)।
प्राची॒मनु॑ प्र॒दिशं॒ प्रेहि॑ वि॒द्वानित्या॑ह देव-
लो॒कमे॒वैतयो॒पाव॑र्तते क्रम॑ध्वम॒ग्निना॒ नाक॒-
मित्या॑हे॒माने॒वैतया॑ लो॒कान्क्र॑मते पृथि॒व्या
अ॒हमुद॒न्तरि॑क्ष॒माऽरु॑ह॒मित्या॑हे॒माने॒वैतया॑ लो॒-
कान्त्स॒मारो॑हति॒ सुव॒र्यन्तो॒ नापे॑क्षन्त॒ इत्या॑ह

[[2371]]

प्रपा० ४ अनु० ७) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(वितौ वह्निक्षेपविधिः)
सुव॒र्गमे॒वैतया॑ लो॒कमे॒त्यग्ने॑ प्रेहि (१) प्र॒ -
थ॒मो दे॑वय॒तामित्या॑हो॒भये॑ष्वै॒तया॑ देवमनु -
ष्येष॒ चक्षु॑र्दधाति प॒ञ्चभि॒रधि॑ क्रामति॒ पा -
ङ्क्तो य॒ज्ञो यावा॑ने॒व य॒ज्ञस्तेन॑ स॒ह सु॑व॒र्ग
लो॒कमे॑ति॒ नक्तो॒पासेति॑ पुरोनुवा॒क्या॑मन्वा॑ह॒
प्रत्या॒ अग्ने॑ सहस्रा॒क्षेत्या॑ह साह॒स्रः प्र॒जा
प॑तिः प्र॒जाप॑ते॒राप्त्यै॒ तस्मै॑ ते विधेम॒ वाजा॑य॒
स्वाहेत्या॒हान्नं॒ वै वाजोऽन्न॑मे॒वाव॑ (२)
रु॒न्धे॒ द॒ध्नः पूर्णामौदु॑म्बरीँ स्व॑यमातृ॒ण्यायां॑
जुहो॒त्यूर्ग्वै दध्यूर्गु॑दु॒म्बरो॒ऽसौ स्व॑यमातृ॒ण्णा -
ऽमुष्या॑मे॒वोर्जं॑ दधाति॒ तस्मा॑द॒मुतो॒ऽर्वाची॒मृ -
ज॒मुप जीवामस्ति॒सृभिः॑ सादयति त्रि॒वृद्वा
अ॒ग्निर्यावा॑ने॒वाग्निस्तं प्र॑ति॒ष्ठां ग॑मयति॒ प्रेद्धो॑
अग्ने दीदिहि पु॒रो न॒ इत्यौदु॑म्बरी॒मा द॑धा-
त्ये॒षा वै सू॒र्भी कर्ण॑कावत्ये॒तया॑ ह स्म (३)
वै दे॒वा असु॒राणाँ शतत॒र्हाँ॑ स्तृँ हन्ति॒
यदे॒तया॑ स॒मिध॑मा॒दधा॑ति॒ वज्र॑मे॒वैतच्छ॑त॒घ्नीं
यज॑मानो॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ स्तृत्या॒ अ-
छ॑म्बँ कारं वि॒धेभ॑ ते पर॒मे जन्म॑न्नग्न॒ इति॒
वैक॑ङ्कती॒मा द॑धाति॒ भा ए॒वाव॑ रुन्धे॒ ताँ
स॑वि॒तुर्वरे॑ण्यस्य चि॒त्रामिति॑ शमी॒मयीँ॒
शान्त्या॑ अ॒ग्निर्वा॑ ह॒ ठा अ॑ग्नि॒चितं॑ दुहे॑ऽग्नि-

[[2372]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—-(५ पञ्चमकाण्डे—
(चितौ वह्निक्षेपविधिः)
चिद्वा॒ऽग्निं दु॑हे॒ ताम (४) स॒वि॒तुर्व॒रे॑ण्यस्य
चि॒त्रामित्या॑है॒ष वा अ॒ग्नेर्दोह॒स्तम॑स्य॒ कण्व॑
ए॒व श्रा॑य॒सो॑ऽवेत्ते॑न ह स्मै॒नँ स दु॑हे॒ यदे॒ -
तयां॑ स॒मिध॑मा॒दधा॑त्यग्नि॒चिदे॒व तद॒ग्निं दु॑हे
स॒प्त ते॑ अग्ने स॒मिधः॑ स॒प्त जि॒ह्वा इत्या॑ह
स॒प्तैवास्य॒ साप्ता॑नि प्रीणाति पू॒र्णया॑ जु -
होति पूर्ण इव हि प्रजापतिः प्रजापतेः (५)
आप्त्यै॒ न्यू॑नया जुहोति॒ न्यू॑ना॒द्धि प्र॒जाप॑तिः
प्र॒जा असृ॑जत प्र॒जानाँ॒ सृष्ट्या॑ अ॒ग्निर्दे॒वे
भ्यो॒ निला॑यत॒ स दिशोऽनु॒ प्रावि॑श॒ज्जुह्व॒
न्मन॑सा॒ दिशो॑ ध्यायेद्दि॒ग्भ्य ए॒वैन॒मव॑ रुन्धे
द॒ध्ना पु॒रस्ता॑ज्जुहो॒त्याज्ये॑नो॒परि॑ष्टा॒त्तेज॑श्वै॒
वास्मा॑ इन्द्रि॒यं च॑ स॒मीची॑ दधा॑ति॒ द्वाद॒श
कपालो वैश्वान॒रो भ॑वति॒ द्वाद॑श॒ मासाः॑
संवत्स॒रः सं॑वत्स॒रो॑ऽग्निर्वै॑श्वान॒रः सा॒क्षात्
(६) ए॒व वै॑श्वान॒रभव॑ रुन्धे॒ यत्प्र॑याजा
नूया॒जान्कु॒र्याद्विक॑स्तिः॒ सा य॒ज्ञस्य॑ दर्वि
हो॒मं क॑रोति य॒ज्ञस्य॒ प्रति॑ष्ठित्यै रा॒ष्ट्रं वै वै॑-
श्वान॒रो विण्म॒रुतो॑ वैश्वान॒रँ हु॒त्वा मारु॒
तान्जु॑होति रा॒ष्ट्र ए॒व विश॒मनु॑ बध्यात्यु॒च्चै
र्वै॑श्वान॒रस्याऽऽश्रा॑वयत्युपाँ॒ शु मारु॒तान्जु॑
होति॒ तस्मा॑द्रा॒ष्ट्रं विश॒मति॑ वदति मारु॒ता

[[2373]]

प्रपा. ४ अनु. ८) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(वसोर्धाराभिधानम्)
भ॑वन्ति म॒रुतो॒ वै दे॒वानां॒ विशो॑ देववि॒शोनै॒ -
वास्मै॑ मनुष्यवि॒शमव॑ रुन्धे स॒प्त भ॑वन्ति
स॒प्तग॑णा॒ वै म॒रुतो॑ गण॒श ए॒व विश॒मव॑
रुन्धे ग॒णे॑न ग॒णम॑नुद्रुत्य॑ जुहोति॒ विश॑मे॒-
वास्मा॒ अनुवर्त्मानं करोति (७)॥
(अग्ने॒ प्रेह्यव॑ स्म दुहे॒ तां प्र॒जाप॑तेः सा॒क्षान्म॑नुष्यवि॒शमेक॑विँशतिश्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
चतुर्थप्रपाठके सप्तमोऽनुवाकः॥ ७॥