(अथ पञ्चमाष्टके चतुर्थप्रपाठके षष्ठोऽनुवाकः)।
उदे॑नमुत्त॒रां न॒येति॑ स॒मिध॒ आ द॑धाति॒
यथा॒ जनं॑ य॒ते॑ऽव॒सं क॒रोति॑ ता॒दृगे॒व तत्ति॒
स्र आ द॑धाति त्रि॒वृद्धा अ॒ग्निर्यावा॑ने॒वाग्नि
रतस्मै॑ भाग॒धेयं॑ करो॒त्यौदु॑म्बरीर्भव॒न्त्यूर्ग्वा
उ॑दु॒म्बर॒ ऊर्ज॑मे॒व स्मा॒ अपि॑ दधा॒त्युदु॑ त्वा॒
विश्वे॑ दे॒वा इत्या॑ह प्रा॒णा वै विश्वे॑ दे॒वा-
प्रा॒णैः (१) ए॒वैन॒मुद्य॑च्छ॒तेऽग्ने॒ भर॑न्तु॒
चित्ति॑भि॒रित्या॑ह॒ यस्मा॑ ए॒वैनं॑ चि॒त्तायो॒द्य-
च्छ॑ते॒ तेन॒वैनँ॒ सम॑र्धयति॒ पञ्च॒ दिशो॒ दैवी॑-
[[2369]]
प्रपा० ४ अनु० ६) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(समिदाघानादिविधिः)
र्य॒ज्ञम॑वन्तु दे॒वीरित्या॑ह॒ दिशो॒ ह्ये॑षोऽनु॑ प्र॒ -
च्यव॒तेऽगम॑तिं दुर्म॒ति वाघ॑माना॒ इत्या॑ह॒
रक्ष॑सा॒मप॑हत्यै रा॒यस्षोषे॑ य॒ज्ञप॑तिमा॒भज॑—
नी॒रित्या॑ह प॒शवो॒ वै रा॒यस्पोषः॑ (२) प॒—
शूने॒वाव॑ रुन्धे ष॒ड्भिह॑रिति॒ षड्वा ऋ॒तव॑
ऋ॒तुभि॑रे॒वैनँ हरति॒ द्वे प॑रि॒गृह्य॑वती भवतो॒
रक्ष॑सा॒मप॑हत्यै सूर्य॑रश्मि॒र्हरि॑केशः पुरस्ता॒-
दित्या॑ह॒ प्रसू॑त्यै॒ ततः॑ पाव॒का आ॒शिषो॑ नो
जुषन्ता॒भत्या॒हान्नं॒ वै पा॑व॒कोऽन्न॑मे॒वाव॑ रुन्धे
देवासु॒राः संय॑त्ता आस॒न्ते दे॒वा ए॒तदप्र॑तिर-
थमपश्य॒न्तेन॒ वै तेऽप्र॒ति (३) असु॑रानज-
य॒न्ततदप्र॑तिरथस्याप्रतिर॒थत्वं यदप्र॑तिरथं द्वि॒-
तीयो॒ होता॒ऽन्वाहा॑प्र॒त्ये॑व तेन॒ यज॑मानो॒
भ्रातृ॑व्यान्जय॒त्यथो॒ अन॑भिजितमे॒वाभि ज॑-
यति दश॒र्चं भवति॒ दशा॑क्षरा वि॒राडवि॒राजे॒-
मौ लो॒कौ विधृ॑ताव॒नयो॑र्लो॒कयो॒र्विधृ॑त्या॒
अथो॒ दशा॑क्षरा वि॒राडन्नं॑ वि॒राडवि॒राज्ये॒वा-
न्नाद्ये॒ प्रति॑ तिष्ठत्य॒स॑दिव॒ वा अ॒न्तरि॑क्षम॒-
न्तरि॑क्षमि॒वाऽऽन्नी॑घ्र॒माग्नी॑घ्रे (४) अश्प्रा॑नं॒
नि द॑धाति स॒त्त्वाय॒ द्वाभ्यां॒ प्रति॑ष्ठित्यै वि॒-
मान॑ ए॒ष दि॒वो मध्य॑ आस्त॒ इत्या॑ह॒ व्ये॑वै-
तया॑ मिमीत॒ मध्ये॑ दि॒वो निहि॑तः॒ पृश्नि॒र-
[[2370]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता - (५ पञ्चमकाण्डे -
(चितौ वह्निक्षेपविधिः)
श्मेत्या॒हान्नं॒ वै पृश्न्यन्न॑मे॒वाव॑ रुन्धे चत॒सृ
भि॒रा पुच्छा॑देति च॒त्वारि॒ छन्दाँ सि छ-
न्दोभिरे॒वेन्द्रं॒ विश्वा॑ अवीवृध॒न्नित्या॑ह॒ वृद्धि॑
भे॒वोपाव॑र्तते॒ वाजा॑नाँ॒ सत्प॑तिं॒ पति॑म् (५)
इत्या॒हान्नं॒ वै वाजोऽन्न॑मे॒वाव॑ रुन्धे सुम्न॒हू-
र्य॒ज्ञो दे॒वाँ आ च॑ वक्ष॒दित्या॑ह प्र॒जा वै प॒-
शवः॑ सु॒म्नं प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्ते॒ यक्ष॑द॒
ग्निर्दे॒वो दे॒वाँ आ च॑ वक्ष॒दित्या॑ह स्व॒गा
कृ॑त्यै॒ वाज॑स्य मा प्रस॒वेनो॑द्ग्रा॒भेणोद॑ग्रभी॒
दित्या॑हा॒सौ वा आ॑दि॒त्य उ॒द्यन्नु॑दग्रा॒भ ए॒ष
नि॒म्रोच॑न्निग्रा॒भो ब्रह्म॑णै॒वाऽऽत्मान॑मुदगृ-
ह्णाति॒ ब्रह्म॑णा॒ भ्रातृव्यं॒ नि गृ॑ह्णाति (६)।
(प्रा॒णैः पोषो॑ऽप्र॒त्यग्नीघ्रे॒ पति॑मे॒ष दश॑ च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
चतुर्थप्रपाठके षष्ठोऽनुवाकः॥ ६॥