(अथ पञ्चमाष्टके चतुर्थप्रपाठके पञ्चमोऽनुवाकः)।
नृ॒षदे॒ वडिति॒ व्याधा॑रयति प॒ङ्क्त्याऽऽ
हु॑त्या यज्ञमु॒खमा र॑भतेऽक्ष्ण॒या व्याघा॑रयति॒
तस्मा॑दक्ष्ण॒या प॒शवोऽ ङ्गा॑नि॒ प्र ह॑रन्ति॒ प्र
तिष्ठित्यै॒ यद्व॑षट्कु॒र्याद्या॒तया॑माऽस्य वषट
का॒रस्या॒द्यन्न व॑षट्कु॒र्याद्रक्षाँ॑ सि य॒ज्ञँ ह॑—
न्युर्वडित्या॑ह प॒रोक्षमे॒व वष॑ट्करोति॒ नास्य॑
या॒तया॑मा वषट्का॒रो भव॑ति॒ न य॒ज्ञँ र -
क्षाँ॑सि घ्नन्ति हु॒तादो॒ वा अ॒न्ये दे॒वाः (१)
[[2367]]
प्रपा० ४ अनु० ५) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(व्याधारणाद्यभिधानम्)
अ॒हुतादो॒ऽन्ये तान॑ग्नि॒चिदे॒वोभया॑न्प्रीणाति॒
ये दे॒वा दे॒वाना॒मिति॑ द॒ध्ना म॑धुमि॒श्रेणावो॑
क्षति हु॒ताद॑श्चै॒व दे॒वान॑हू॒ताद॑श्च॒ यज॑मानः
प्रीणाति॒ ते यजमानं प्रीणन्ति द॒ध्नैव हु॒तादः॑
प्री॒णाति॒ मधु॑पाऽहु॒तादो॑ ग्रा॒म्यं वा ए॒तदन्नं॒
यद्दध्या॑र॒ण्यं मधु॒ यद्द॒ध्ना म॑धुमि॒श्रेणा॒वोक्ष॑ -
त्यु॒भय॒स्याव॑रुद्ध्यै ग्रुमु॒ष्टिनाऽवो॑क्षति प्राजा
प॒त्यः २ वै ग्रु॑मु॒ष्टिः स॑योनि॒त्वाय॒ द्वा-
भ्यां॒ प्रति॑ष्ठित्या अनुपरि॒चार॒सर्वो॑क्ष॒त्यप॑रि
वर्गमे॒वैना॑नान्प्रीणाति॒ वि वा ए॒ष प्रा॒णैः प्र॒ज
या॑ प॒शुमि॑ऋध्यते॒ यो॑ऽग्निं चि॒न्वन्न॑धि॒का
म॑ति प्राण॒दा अ॑पान॒दा इत्या॑ह प्रा॒णाने॒वा-
ऽऽत्मन्ध॑त्ते वर्चो॒दा व॑रिवो॒दा इत्या॑ह प्र॒जा
वै वर्चः॑ प॒शवो॒ परि॑वः प्र॒जामे॒व प॒शूना॒त्म
न्ध॑त्त॒ इन्द्रो॑ वृ॒त्रमह॒न्तं वृ॒त्रः (३) ह॒तः
षो॑ड॒शभि॑र्भो॒गर॑सिना॒त्स ए॒तम॒ग्नयेऽनकि॑वत॒
आहु॑तिमपश्य॒त्ताम॑जुहो॒त्तस्या॒ग्निरनी॑कवा॒-
न्त्स्वेन॑ भाग॒धेये॑न प्री॒तः षो॑डशधा वृ॒त्रस्य॑
भो॒गानप्य॑दहद्वैश्वकर्म॒णेन॑ पा॒प्मनो॒ निर॑मु-
च्यत॒ यद॒ग्नयेनकि॑वत॒ आहु॑तिं जुहोत्य॒ग्नि-
रे॒वास्यानी॑कवा॒न्त्स्वेन॑ भाग॒धेये॑न प्री॒तः पा॒-
[[2368]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता - (५ पञ्चमकाण्डे -
(समिदाधानादिविधिः)
प्मान॒मपि॑ दहति वैश्वकर्म॒णेन पा॒प्मनो॒
निर्मु॑च्यते॒ यं का॒मये॑त चि॒रं पा॒प्मन (४)
निर्मु॑च्ये॒तेत्येकै॑र्क॒ तस्य॑ जुहुयाच्चि॒रमे॒व
पा॒प्मनो॒ निर्मु॑च्यते॒ यं का॒मये॑त ता॒जक्पा॒-
प्मनो॒ निमुच्ये॒तेति॒ सर्वा॑णि॒ तस्या॑नु॒द्रुत्य॑
जुहुयात्ता॒जगे॒व पा॒प्मनो॒ निर्मु॑च्य॒तेऽथो॒ खलु॒
नानै॒व सू॒क्ताभ्यां॑ जुहोति॒ नानै॒व सू॒क्तयो॑-
र्वी॒र्यं॑ दधा॒त्यथो॒ प्रति॑ष्ठित्यै (५)॥
देवाः प्राजापत्यो वृत्रश्चिरं पाप्मनश्चत्वारिँ शच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
चतुर्थप्रपाठके पञ्चमोऽनुवाकः॥ ५॥