०४

(अथ पञ्चमाष्टके चतुर्थप्रपाठके चतुर्थोऽनुवाकः)
अश्म॒न्नूर्ज॒मिति॒ परि॑ षिञ्चति मा॒र्जय॑त्ये
वैनमथो॑ त॒र्पय॑त्ये॒व स एनं॑ तृ॒प्तोऽक्षु॑ध्य॒न्नशो॑-
चन्न॒मुष्मि॑ल्लो॒क उप॑ तिष्ठते॒ तृप्य॑ति प्र॒जया॑
प॒शुभि॒र्य ए॒वं वेद॒ तां न॒ इष॒मूर्जं॑ धत्त मरुतः

[[2365]]

प्रपा० ४ अनु०३) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(परिषेचनाद्याभिधानम्)
सँ ररा॒णा इत्या॒हान्न॒ वा ऊर्गन्नं॑ म॒रुतोऽन्नं-
मे॒वाव रु॒न्धेऽश्मँ॑ स्ते॒ क्षुद॒मुं॒ ते॒ शुक् (१)
ऋ॒च्छ॒तु॒ यं द्वि॒ष्म इत्या॑ह॒ यमे॒व द्वेष्टि॒ तम॑
स्य क्षु॒धा च॑ शु॒चा चा॑र्पयति॒ त्रिः प॑रिषि॒-
ञ्चन्पर्ये॑ति त्रि॒वृद्धा अ॒ग्निर्यावा॑ने॒वाग्निस्तस्य॒
शुचँ शमयति॒ त्रि पुनः॒ पर्ये॑ति॒ षट्सं प॑-
द्यन्ते॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वास्य॒ शुचँ
शमयत्य॒पां वा ए॒तत्पुष्पं॒ यद्वे॑त॒सो॑ऽपाम् (२)
शरोऽव॑का वेतसशा॒खया॒ चाव॑काभिश्च॒ वि
क॑र्ष॒त्यापो॒ वै शा॒न्ताः शा॒न्ताभिरे॑वास्य॒ शु
चँ शमयति॒ यो वा अ॒ग्निं चि॒तं प्र॑थ॒मः
प॒शुर॑धि॒काम॑तीश्व॒रो वै तँ शु॒चा प्र॒दहो॑
म॒ण्डूके॑न वि क॑र्षत्ये॒ष वै प॑शूनाम॑नुपजी॒व-
नी॒यो न वा ए॒ष ग्रा॒म्येषु॑ प॒शुषु॑ हि॒तो ना-
ऽऽर॒ण्येषु॒ तमे॒व शु॒चाऽर्प॑यत्यष्टा॒भिर्वि क॑र्षति
(३) अ॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रो॑ऽग्निर्या-
वा॑ग्ने॒वाग्निस्तस्य॒ शुचँ शमयति षाव॒कव॑-
तीभि॒रन्नं॒ वै पा॑व॒कोऽन्ने॑वै॒वास्य॒ शुचँ शम-
यति मृ॒त्युर्वा ए॒ष यद॒ग्निर्ब्रह्म॑ण ए॒तद्रू॒पं य-
त्कृ॑ष्णाजि॒नं कार्ष्णी॑ उपा॒नहा॒वुप॑ मुञ्चते॒
ब्रह्म॑णै॒व मृ॒त्योर॒न्तध॑त्ते॒ऽन्तर्मृ॒त्योर्ध॑त्ते॒ऽन्तर

[[2366]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता - (५ पञ्चमकाण्डे -
(व्याघारणाद्यभिधानम्)
न्नाद्या॒दित्या॑हुर॒न्यामु॑पमु॒ञ्चते॒ऽन्यां नान्तः
(४) ए॒व मृ॒त्योर्ध॒त्तेऽवा॒न्नाद्यँ॑ रुन्धे॒ नम॑-
स्ते॒ हर॑से शो॒चिष॒ इत्या॑ह नम॒स्कृत्य॒ हि
वसी॑याँ समुप॒चर॑न्त्य॒न्यं ते॑ अ॒स्मत्त॑पन्तु
हे॒तय॒ इत्या॑ह॒ यमे॒व द्वेष्टि॒ तम॑स्य शु॒चाऽर्प॑
यति पाव॒को अ॒स्मभ्यँ॑ शि॒वो भ॒वेत्या॒हान्नं॒
वै पा॑व॒कोऽन्न॑मे॒वाव॑ रुन्धे॒ द्वाभ्या॒मधि॑ क्रा -
मति॒ प्रति॑ष्ठित्या अ॒पस्य॑वतीभ्याँ॒ शान्त्यै॑
(५)॥
(शुग्वे॑त॒सो॑ऽपाम॑ष्टा॒भिर्वि क॑र्षति॒ नान्तरेका॒न्नप॑ञ्चा॒शच्च॑)
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
चतुर्थप्रपाठके चतुर्थोऽनुवाकः॥ ४॥