(अथ पञ्चमाष्टके चतुर्थप्रपाठके तृतीयोऽनुवाकः।
रु॒द्रो वा ए॒ष यद॒ग्निः स ए॒तार्हे जा॒तो यर्हि॒
सर्व॑श्चि॒तः स यथा॑ व॒त्सो जा॒तः स्तनं॑ प्रे॒प्स -
त्ये॒वं वा ए॒ष ए॒तर्हि॑ भाग॒धेयं॒ प्रेप्स॑ति॒ तस्मै॒
यदाहु॑तिं॒ न जु॑हु॒याद॑ध्व॒र्य॑ च यजमानं च
ध्यायेच्छतरुद्रीयं जुहोति भाग॒धेयेनै॒वैनँ॑
शमयति॒ नाऽऽर्ति॒मार्छत्यध्व॒र्युन यज॑मानो॒
यद्ग्रा॒म्याणां॑ पशू॒नाम् (१) पय॑सा जुहु -
याद्ग्रा॒म्यान्प॒शूञ्छु॒चार्प॑ये॒द्यदा॑र॒ण्याना॑मार॒ -
ण्यान्ज॑र्तिलयवा॒ग्वा॑ वा जुहु॒याद्ग॑वीधुकय -
वा॒ग्वा॑ वा॒ न ग्रा॒म्यान्प॒शून्हि॒नस्ति॒ नाऽऽर॒ -
ण्यानथो॒ खल्वा॑हु॒रना॑हुति॒र्वै ज॒र्तिला॑श्च ग॒वी -
धु॑का॒श्चेत्य॑जक्षी॒रेण॑ जुहोत्याग्ने॒यी वा ए॒षा
यद॒जाऽऽहु॑त्यै॒व जु॑होति॒ न ग्रा॒म्यान्प॒शून्हि॒ -
नस्ति॒ नाऽऽर॒ण्यानङ्गि॑रसः सुव॒र्गं लो॒कं
य॑न्तः (२) अ॒जायां॑ ध॒र्म प्रासि॑ञ्च॒न्त्सा
शोच॑न्ती प॒र्णं परा॑ऽजिही॒त सो॑ ३ऽर्को॑ऽभव॒ -
त्तद॒र्कस्या॑र्क॒त्वम॑र्कपर्णे॑न जुहोति सयोनि॒ -
त्वायोद॒ङ्तिष्ठ॑न्जुहोत्ये॒षा वै रु॒द्रस्य॒ दिक्स्वा
या॑मे॒व दि॒शि रु॒द्रं नि॒रव॑दयते चर॒माया॒सि -
ष्ट॑कायां जुहोत्यन्त॒त ए॒व रु॒द्र नि॒रव॑द्यते
त्रेधाबिभ॒क्तं जु॑होति॒ त्रय॑ इ॒मे लो॒का इ॒मा -
[[2364]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता - (५ पञ्चमकाण्डे -
(परिषेचनाद्यभिधानम्)
ने॒व लो॒कान्स॒माव॑द्वीर्यान्करो॒तिय॒त्यग्रे॑ जु-
होति (३) अथेय॒त्यथेय॑ति॒ त्रय॑ इ॒मे लो॒का
ए॒भ्य ए॒वैनं॑ लो॒केभ्य॑ शमयति ति॒स्र उत्त॑रा॒
आहु॑तीजुहोति॒ षट्सं प॑द्यन्ते॒ षड्वा ऋ॒तव॑
ऋ॒तुभि॑रे॒वै॑नँ शमयति॒ यद॑नुपरि॒कामं॑ जु
हु॒याद॑न्तरवचा॒रिणँ॑ रु॒द्रं कु॑र्या॒दथो॒ खल्वा॑-
हुः॒ कस्यां॒ वाऽह॑ दि॒शि रु॒द्रः कस्यां॒ वेत्य॑-
नुपरि॒क्राम॑मे॒व हो॑त॒व्य॑मप॑रिवर्गमे॒वैनँ॑ शम
यति (४) ए॒ता वै दे॒वताः॑ सुव॒र्ग्या॑ या
उ॑त्त॒मास्ता यज॑मानं वाचयति॒ ताभिरे॒वैनँ॑
सुव॒र्गं लो॒कं ग॑मयति॒ यं द्वि॒ष्यात्तस्यय॑ संच॒रे
प॑शू॒नां न्य॑स्ये॒द्यः प्र॑थ॒मः प॒शुर॑भि॒तिष्ठति॒ स
आर्ति॒मार्छ॑ति (५)॥
(प॒शू॒नां यन्तोऽग्ने॑ जुहो॒त्यप॑रिवर्गमे॒वैनँ॑ शमयति त्रिँ॒ शच्च॑)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
चतुर्थप्रपाठके तृतीयोऽनुवाकः॥ ३॥