(अथ पञ्चमाष्टके चतुर्थप्रपाठके द्वितीयोऽनुवाकः)।
ऋ॒त॒व्या॑ उप॑ दधात्यृतू॒नां कॢप्त्यै॑ द्वं॒द्वमुप॑
दधाति॒ तस्मा॑द्द्वं॒द्वमृ॒तवोऽधृ॑तेव॒ वा ए॒षा य-
न्म॑ध्य॒मा चिति॑र॒न्तरि॑क्षमिव॒ वा ए॒षा द्वं॒द्व-
म॒न्यासु॒ चिती॒षूप॑ दधाति॒ चत॑स्रो॒ मध्ये॒ धृत्या॑
अन्तःश्ले॑षणं॒ वा ए॒ताश्चिती॑नां॒ तदृ॑तव्या॑ य
दृ॑त॒व्या॑ उप॒दधा॑ति॒ चिती॑नां॒ विधृ॑त्या॒ अव॑का॒-
मनूप॑ दधात्ये॒षा वा अ॒ग्नेर्योनिः॒ सयो॑निम
[[2362]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता— (५ पञ्चमकाण्डे)
(ऋतव्यादीष्टकात्रयप्रोक्षणयोरभिधानम्)
(१) ए॒वाग्निं चि॑नुत उ॒वाच॑ ह वि॒श्वामि॒
त्रोऽद॒दित्स ब्रह्म॒णाऽन्नं॒ यस्यै॒ता उ॑पधी॒यान्तै॒
य उ॑ चैना ए॒वं वेद॒दिति॑ संवत्स॒रो वा ए॒तं
प्र॑ति॒ष्ठायै॑ नुदते यो॑ऽग्निं चि॒त्वा न प्र॑ति॒ति-
ष्ठ॑ति॒ पञ्च॒ पूर्वा॒श्चित॑यो भव॒न्त्यथ॑ ष॒ष्ठीं चितिं॑
चिनुते॒ षडवा ऋ॒तवः॑ संवत्स॒र ऋ॒तुष्वे॒व सं॑-
वत्स॒रे प्रति॑ तिष्ठत्ये॒ता वै (२) अधि॑पत्नी॒-
र्नामेष्ट॑का॒ यस्यै॒ता उ॑पधी॒यन्तेऽधि॑पतिरेव
स॑मा॒नानां॑ भवति॒ यं द्वि॒ष्यात्तमु॑प॒दध॑द्ध्या-
येदे॒ताभ्य॑ ए॒वैनं॑ दे॒वता॑भ्य॒ आ वृ॒श्चति ता॒ज-
गार्ति॒मार्छ॒त्यङ्गि॑ रसः सुव॒र्गं लो॒कं यन्तो॒ या
य॒ज्ञस्य॒ निष्कृ॑ति॒रामी॒त्तामृषि॑भ्यः॒ प्रत्यै॑ हन्त-
द्धिर॑ण्यमभव॒द्यद्धि॑रण्यश॒ल्कैः प्रो॒क्षति॑ य॒ज्ञ
स्य॒ निष्कृ॑त्या॒ अथो॑ भेष॒जमे॒वा मै॑ करोति
(३) अथो॑ रू॒पेणै॒वैनँ॒ सम॑र्धय॒त्यथो॒ हि-
र॑ण्यज्योतिषै॒व सु॑व॒र्गं लो॒कमे॑ति सह॒स्रवता॒
प्रोक्ष॑ति साह॒स्रः प्र॒जाप॑तिः प्र॒जाप॑ते॒राप्त्या॑
इ॒मा मे॑ अग्न॒ इष्ट॑का धे॒नवः॑ स॒न्त्वित्या॑ह
धे॒नूरे॒वैनाः॑ कुरुते॒ ता एनं काम॒दुधा॑ अ॒मु-
त्रा॒मुष्मि॑ल्लोँ॒क उप॑तिष्ठन्ते (४)॥
(सयो॑निमे॒ता वै क॑रोत्येका॒न्नच॑त्वारिँ॒ शच्च॑)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
चतुर्थप्रपाठके द्वितीयोऽनुवाकः॥ २॥
[[2363]]
प्रपा० ४ अनु० ३) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(शतरुद्रीयहोमाभिधानम्)