०१

(तत्र प्रथमोऽनुवाकः)।
हरि ॐ।

  • दे॒वा॒सु॒राः संय॑त्ता आस॒न्ते न व्य॑जयन्त॒ स
    ए॒ता इन्द्र॑स्त॒नूर॑षश्यत्ता उपा॑धत्त॒ तामि॒र्वै स
    त॒नुव॑मिन्द्रि॒यं वी॒र्य॑मा॒त्मन्न॑वत्त॒ ततो॑ दे॒वा
    अभ॑व॒न्पराऽसु॑रा॒ यदि॑न्द्रत॒नूरु॑प॒दधा॑ति त॒नु -
    व॑मे॒व तामि॑रिन्द्रि॒यं वी॒र्यं॑ यज॑मान आ॒त्म
    न्ध॒त्तेऽथो॒ सेन्द्र॑मे॒वाग्निँ सत॑नुं चिनुते॒ भ -
    व॑त्या॒त्मना॒ परा॑ऽस्य॒ भ्रातृ॑व्यः (१) भ॒व॒ति॒
    य॒ज्ञो दे॒वेभ्योऽपा॑क्राम॒त्तम॑व॒रुधं॒ नाश॑क्नुव -
    न्त ए॒ता य॑ज्ञत॒नूर॑पश्य॒न्ता उपा॑दधत॒ तामिर्वै॒
    ते य॒ज्ञभवा॑रुन्धत॒ यद्य॑ज्ञत॒नूरु॑प॒दधा॑ति य॒ज्ञ -
    मे॒व ताभि॒र्यज॑मा॒नोऽव॑ रुन्धे॒ त्रय॑स्त्रिँ शत॒ -
    मुप दधाति॒ त्रय॑स्त्रिँ श॒द्वै दे॒वता॑ दे॒वता॑ ए॒ -
    वाव॑ रु॒न्धेऽथो॒ सात्मा॑नमे॒वाग्निँ सत॑नुं चि -
    नुते॒ सात्मा॒ऽमुष्मि॑ल्लोँ॒के (२) भव॒ति॒ य
    ए॒वं वेद॒ ज्योति॑ष्मती॒रुप॑ दधाति॒ ज्योति॑रे॒वा
    स्मि॑न्दधात्ये॒ताभि॒र्वा अ॒ग्निश्चि॒तो ज्व॑लति॒
    ताभि॑रे॒वैनँ॒ समि॑न्ध उ॒भयो॑रस्मै लो॒कयो॒
    र्ज्योति॑र्भवति नक्षत्रेष्ट॒का उप॑ दधात्ये॒तानि॒
    वै दि॒वो ज्योतीँ॑ पि॒तान्ये॒वाव॑ रुन्धे सु॒कृतां॒

  • एतदाद्येकादशानुवाकभाष्यं चतुर्थकाण्डजस्यचतुर्थप्रपाठकाष्टमानुवाकारभ्य काण्ड समाप्तिपर्यन्तं वर्तते, तत्तत्र द्रष्टव्यम्।

[[2361]]

प्रपा० ४ अनु० २) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(ऋतव्यादीष्टकात्रयप्रोक्षणयोरभिधानम्)
वा ए॒तानि॒ ज्योतिँ॑ वि॒ यन्नक्ष॑त्राणि॒ तान्ये॒-
वाऽऽप्रो॒त्यथो॑ अनूका॒शमे॒वैतानि॑ (३)
ज्योतिँ॑षि कुरुते सुव॒र्गस्य॑ लो॒कस्यानु॑
ख्यात्यै॒ यत्सँ स्पृ॑ष्टा उपद॒ध्यादवृष्ट्यै॑ लो॒-
कमपि॑ दध्या॒दव॑र्षुकः प॒र्जन्यः॑ स्या॒दसँ॑-
स्पृष्टा॒ उप॑ दधाति॒ वृष्ट्या॑ ए॒व लो॒कं क॑-
रोति॒ वर्षु॑कः प॒र्जन्यो॑ भवति पु॒रस्ता॑द॒न्याः
प्र॒तीची॒रुप॑ दधाति प॒श्चाद॒न्याः प्राची॒स्त-
स्मा॑त्प्रा॒चीना॑नि च प्रती॒चीना॑नि च॒ नक्ष॑-
त्रा॒ण्या वर्तन्ते (४)॥
(भ्रा॑तृव्यो लो॒क ए॒वैतान्येक॑चत्वारिँ शच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
चतुर्थप्रपाठके प्रथमोऽनुवाकः॥