(अथ पञ्चमकाण्डे तृतीयप्रपाठक द्वादशोऽनुवाकः)।
प्र॒जाप॑ते॒रक्ष्य॑श्वय॒त्तत्परा॑ऽपत॒त्तदश्वो॑ऽभव॒द्य-
दश्व॑य॒त्तदश्व॑स्याश्व॒त्वं तद्दे॒वा अ॑श्वमे॒घेने॒व
प्रत्य॑दधुरे॒ष वै प्रजाप॑तिँ॒ सर्वं॑ करोति॒ यो॑ऽ
श्वमे॒घेन॒ यज॑ते॒ सर्व॑ ए॒व भ॑वति॒ सर्व॑स्य॒ वा
ए॒षा प्राय॑श्चित्तिः॒ सर्व॑स्य भेष॒जँ सर्वं॒ वा
ए॒तेन॑ पा॒प्मानं॑ दे॒वा अ॑तर॒न्नपि॒ वा ए॒तेन॑
ब्रह्मह॒त्याम॑तर॒न्त्सव॑ पा॒प्मान॑म् (१) त॒र॒ति॒
तर॑ति ब्रह्मह॒त्यां यो॑ऽश्व॒मेधे॒न यज॑ते॒ य उ॑
[[2356]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—-(५ पञ्चमकाण्डे -
(अश्वमेधविधिः)
चैनमे॒वं वेदोत्त॑रं॒ वै तत्प्र॒जाप॑ते॒रक्ष्य॑श्वय॒त्त-
स्मा॒दश्व॑स्योत्तर॒तोऽव॑ द्यन्ति दक्षिण॒तो॑ऽन्येषां॑
पशू॒नां वै॑त॒सः कटो॑ भवत्य॒प्सुयो॑नि॒र्वा अ-
श्वो॑ऽप्सु॒जो वे॑त॒सः स्व ए॒वैनं॒ योनौ॒ प्रति॑
ष्ठापयति चतुष्टो॒मः स्तोमो॑ भवति स॒रड्ढ॒
वा अश्व॑स्य॒ सक्थ्याऽबृ॑ह॒त्तद्दे॒वाश्च॑तुष्टो॒मेनै॒व
प्रत्य॑दधु॒र्यच्च॑तुष्टो॒मः स्तोमो॒ भवत्यश्व॑स्य
सर्व॒त्वाय॑ (२)॥
(सर्व॑ पा॒प्मान॑मवृहद्द्वा॒द॑श च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
तृतीयप्रपाठक द्वादशोऽनुवाकः॥ १२॥
उ॒त्स॒न्न॒य॒ज्ञ इन्द्रा॑ग्नी दे॒वा वा अ॑क्ष्णयास्तो॒मीया॑ अ॒ग्नेर्भा॒गो॑ऽस्यग्ने॑ जा॒तान्र॒श्मिरिति॑ नाक॒सद्भि॒श्छन्दाँ॑ सि॒ सर्वा॑भ्यो वृष्टि॒सनी॑र्देवासु॒राः कनी॑याँ सः प्र॒जाप॑तेरक्षि॒ द्वाद॑श॥ १२॥
उ॒त्स॒न्न॒य॒ज्ञो दे॒वा वै यस्य॒ मुख्य॑वतीर्नाक॒सद्धि॑र॒वैताभि॑-
र॒ष्टाच॑त्वारिँ शत्॥ ४८॥
हरिः ॐ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
तृतीयः प्रपाठकः॥ ३॥
[[2357]]
प्रपा ०३ अनु० १२) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अश्वमेधविधि.)
अथ पञ्चमकाण्डे तृतीयः प्रपाठकः)।
(तत्र प्रथमादिद्वादशान्ता अनुवाकाः)।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥
चितिराद्या द्वितीये स्यात्तृतीये तु चतुष्टयम्।
द्वादशात्रानुवाकाः स्युः प्रथमे त्विष्टका इमाः॥
आश्विन्यश्च तथर्तव्याः प्राणभृत्संज्ञकास्तथा।
अपस्याश्च वयस्याश्च द्वितीयस्यां चितौ श्रुताः॥
द्वितीये स्वयमातृण्णा दिश्याः प्राणभृतस्तथा।
बृहत्यो वालखिल्याश्च तृतीयस्यां चिताविमाः॥
तृतीयतुर्ययोरक्ष्णयास्तोमीयाश्च सृष्ट्यः।
व्युष्ट्यश्चेष्टकाः प्रोक्ताश्चतुर्थ्यां च चिताविमाः॥
पञ्चमे त्वसपत्नाख्या विराडाख्यश्च वर्णिताः।
षष्ठे तु स्तोमभागाख्या नाकसत्संज्ञकास्तु याः॥
चोडाख्याः स्वयमातृण्णा विकर्णी ताश्व सप्तमे।
छन्दोभिधा अष्टमे स्चुः पञ्चभ्याम तु चिताविमाः॥
अथावशिष्टाः कथ्यन्ते ता विज्ञेया यथाचिति।
सपुजो मण्डलाख्याश्च विश्वज्योतिष इत्यमूः।
नवमे दशमे वृष्टिसनिसंयानिकाभिधाः।
आदित्याख्या घृताख्याश्च यशोदाश्चेति वर्णिताः॥
एकादशे तु भूयस्कृदग्निरूपाभिधा अपि।
द्रविणोदातस्तथाऽऽयुष्याः स्यादाग्नह्रदयाभिधा॥
ऋतव्याश्चेत्येवमेताः क्रमादिह समीरिताः।
द्वादशे त्वश्वमेधस्य विधिरित्येत्र निर्णयः॥
तमिममश्वमेधं विधत्ते–
प्रजापतेरक्षीति। प्रजापतेश्चतुर्मुखस्याक्षिगोलकं केनापि व्याधिनोच्छूनम -
१ ख. रित्येव नि।
[[2358]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—-(५ पञ्चमकाण्डे—-
(अश्वमेधविधिः)
भूत्। तच्च भूमौ पतितं सदश्वरूपेणाऽऽविर्बभौ। यस्मात्कारणादश्वयत्तस्माकारणातत्त उत्पन्नस्य प्राणिनोऽश्वनाम संपन्नम्। ततो देवाः प्रतीकारं विचार्याश्वमेधमनुष्ठाय तेनाश्वमेधसामर्थ्येन तत्प्रजापतेरक्षि समादधुः। तस्मादेवं प्रशस्तत्वादश्वमेधेन यजेत। स च यष्टा प्रजापतिं संपूर्ण करोति। स्वयं च प्रजापतिप्राप्त्या सर्वात्मको भवति। तदेवं सर्वभावप्राप्त्यर्थमश्वमेधं विधाय पुनः पापक्षयार्थमश्वमेधक्रतुं तदुपासनं च विधत्ते—–सर्वस्य वा इति। येयमश्वमेधानुष्ठितिः सैषा सर्वस्य पाप्मन उपपातकरूपस्य महापातकरूपस्य च प्रायश्चित्तिर्भवति। किंच, सर्वस्य व्याधिजातस्य तद्धेतुपापक्षयद्वारेणाश्वमेधानुष्ठानम भेषजम्। अत एवेदानींतना देवाः पूर्वस्मिन्मनुष्य जन्मन्येतेनाश्वमधेन गोवधादिरूपमुपपातकं ब्रह्महत्यादिरूपं महापातकं च परिह्रतवन्तः। तस्मादिदानीमपि योऽश्वमेधक्रतुना यजते सोऽयमुपपातकमहापातके तरति। योऽपि च पुरुष एनमश्वमेधं शास्त्रोक्तप्रकारेण जानाति। ज्ञानं च द्विविधम् - अर्थनिर्णय उपासनं च। तत्रार्थनिर्णयः पदवाक्यप्रमाणपर्यालोचनया संपद्यते। उपासनाप्रकारस्तु सप्तमकाण्डस्यान्तिमानुवाके - “यो वा अश्वस्य मेध्यस्य शिरो वेद” इत्यस्मिन्नभिधास्यते। चोदकप्राप्तं दक्षिणावदानं बाधितुं विधत्ते—
उत्तरं वै तदिति। यस्मात्प्रजापतेरुत्तरभागवर्ति वामाक्षि उच्छ्नमभवत्तस्मादश्वसंबन्धिनो हविषोऽवदानमप्युत्तरस्यां दिशि कर्तव्यम्। अन्येषामश्वव्यतिरिक्तानां पशूनां दक्षिणस्यां दिश्यवदानम्। अत एव सूत्रकार आह - “पशुकाल उत्तरत उपरिष्टादग्नेर्वैतसे कटेऽश्वं प्राञ्चं यथाऽङ्गं चिनोति एवं पुरस्तात्प्रत्यञ्चं तूपरं पश्वात्प्राचीनं गोमृगं दक्षिणतः प्लक्षशाखास्वितरान्पशूनासादयति” इति। ह्रविःसादनाधारं विधत्ते—–
बैतसः कट इति। अप्सु जलेषु योनिर्निवासस्थानं यस्यासावप्सुयोनिः। वडवा हि समुद्रजलेष्ववतिष्ठते। वेसस्योदकजन्यत्वं प्रसिद्धम्।
यदुक्तं सूत्रकारेण—-“श्वोभूते प्रतायते गोतमचतुष्टोमयोः पूर्वो रथंतरसामा”
१ ख. प्रजापते।
[[2359]]
प्रपा० ३ अनु ०१२) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अश्वमेधविधः)
इति। गोतमेन दृष्टौ यौ चतुष्टोमाख्यावेकाहऋतू तयोर्मध्ये यः पूर्वश्वतुष्टोम सोऽत्र कर्तव्य इति सूत्रार्थः। तमिमं विधत्ते—
चतुष्टोमः स्तोम इति। चत्वारः स्तोमास्त्रिवृत्पश्चदशः सप्तदश एकविंशो यस्मिन्नग्निष्टोमे विद्यन्ते सोऽयं चतुष्टोम। द्वितीयेन स्तोमशब्देन विशेष्यभूतोऽग्निष्टोमो लक्ष्यते। भीमसेनो भीमः सत्यभामा भामेतिवत्त्रिवृदग्निष्टोम इत्यत्र विधानात्। एकस्तोमकोऽपि कश्चिदग्निष्टोमो विद्यते तद्व्यावृत्तये चतुष्टोम इति विशिनष्टि। त्रिसुत्यात्मकस्याश्वमेधस्य प्रथममहश्वतुष्टोमरूपं कुर्यात्। सरट्शब्देन कृकलासोऽभिधीयते। स कदाचिदश्वस्य सक्थिप्रदेशमारुह्य तत्सक्थिमांसमुद्यम्य भक्षितवान्। तच्च सक्थिरूपं विकलमङ्गं देवाश्चतुष्टोमेनैव समादधुः। तस्मादयं चतुष्टोमोऽश्वस्य संपूर्तये भवति।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे तृतीयप्रपाठके
प्रथमादिद्वादशान्ता अनुवाकाः॥ १ -१२॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थाश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥
इति श्रीमद्विद्यातीर्थमहेश्वरापरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य
श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधवाचार्येण विरचिते
वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये पञ्चम
काण्डे तृतीयः प्रपाठकः॥ ३॥
१ क. घ. ङ. त्रिरात्म।
[[2360]]