(अथ पञ्चमाष्टके तृतीयप्रपाठक एकादशोऽनुवाकः)।
दे॒वा॒सु॒राः संय॑त्ता आस॒न्कनी॑याँ सो दे॒वा
आस॒न्भूयाँ॒ सोऽसुरा॒स्ते दे॒वा ए॒ता इष्ट॑का
अपश्य॒न्ता उपा॑दधत भूय॒स्कृद॒सीत्ये॒व भू-
याँ॑ सोऽभव॒न्वन॒स्पति॑भि॒रोष॑धीभिर्वरिव॒स्कृ
द॒सीती॒माम॑ जय॒न्प्राच्य॒सीति॒ प्राचीं॒ दिश॑म -
जयन्नू॒र्धवाऽसीत्य॒मूभ॑जयन्नन्तरिक्ष॒सद॑स्य॒न्त -
रि॑क्षे सी॒देत्य॒न्तरि॑क्षमजय॒न्ततो॑ दे॒वा अभ॑वन्
(१) पराऽसुरा॒ यस्यै॒ता उ॑पधी॒यन्ते॒ भूया॑-
ने॒व भ॑वत्य॒भीमाल्ँ लो॒कान्ज॑यति॒ भव॑त्या॒त्मना॒
परा॑ऽस्य भ्रातृ॑व्यो भवत्यप्सु॒षद॒सि श्येन॒स
द॒सीत्या॑है॒तद्वा अ॒ग्ने रू॒पँ रू॒पेणै॒वाग्निमव॑
रुन्धे पृथि॒व्यास्त्वा॒ द्रवि॑णे सादया॒मीत्या॑हे॒-
माने॒वैताभि॑र्लो॒कान्द्रवि॑णावतः कुरुत्त आ-
यु॒ष्या उप॑ दधा॒त्यायुरे॒व (२) अ॒स्मि॒न्द॒धा॒-
[[2355]]
प्रपा० ३ अनु० १२) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अश्वमेधविधि.)
त्यग्ने॒ यत्ते॒ परँ॒ ह्रन्नामेत्या॑है॒तद्वा अ॒ग्नेः
प्रि॒यं धाम प्रि॒यमे॒वास्य॒ घामोपा॑ऽऽप्नोति ता-
वेहि॒ सँर॑भावहा॒ इत्या॑ह॒ व्ये॑वैने॑न॒ परि॑
धत्ते॒ पाञ्च॑जन्ये॒ष्वप्यें॑ध्यग्न॒ इत्या॑है॒ष वा अ॒ग्निः
पाञ्च॑जन्यो॒ यः पञ्च॑चितीक॒स्तस्मा॑दे॒वमा॑ह-
र्त॒व्या॑ उप॑ दधात्ये॒तद्वा ऋ॑तू॒नां प्रि॒यं धाम॒
यदृ॑त॒व्या॑ ऋतू॒नामे॒व प्रियं धामाव॑ रुन्धे सु॒-
मेक इत्याह संवत्सरो वै सुमेकः संवत्सर-
स्यैव प्रियं धामोपाऽऽप्नोति (३)॥
(अभवन्नायुरेवर्तव्या उप षड्विँ शतिश्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
तृतीयप्रपाठक एकादशोऽनुवाकः॥ ११॥