१०

(अथ पञ्चमाष्टके तृतीयप्रपाठके दशमोऽनुवाकः)।
वृ॒ष्टि॒सनी॒रु॑प दधाति॒ वृष्टि॑मे॒वाव॑ रुन्धे॒ यदे॑-
क॒धोपदध्यादेक॑मृ॒तुं व॑र्षेदनुपरि॒हारँ॑ साद
यति॒ तस्मा॒त्सर्वा॑नृ॒तून्व॑र्षति पुरोवात॒सनि॑र॒
सीत्या॑है॒तद्वै वृष्ट्यै॑ रू॒पँ रू॒पेणै॒व वृष्टि॒मव

[[2353]]

प्रपा ०३ अनु० १०) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(वृष्टिसन्यादीष्टकापश्चकाभिधानम्)
रुन्धे सं॒यानी॑भि॒र्वै दे॒वा इ॒माल्ँ लो॒कान्त्सम॑-
यु॒स्तत्सं॒यानी॑नाँ संयानि॒त्वं यत्सं॒यानी॑रुपद-
धा॑ति॒ यथा॒ऽप्सु ना॒वा सं॒यात्ये॒वम् (१)
ए॒वैतामि॒र्यज॑मान इ॒माल्ँ लो॒कान्त्सं या॑ति
प्ल॒वो वा ए॒षो॑ऽग्नेयत्सं॒यानी॒र्यत्सं॒यानी॑रुप॒द-
धा॑ति प्ल॒वमे॒वैतम॒ग्नय॒ उप॑ दधात्यु॒त यस्यै॒
तासूप॑हिता॒स्वापो॒ऽग्निँ हर॒न्त्यह्र॑त ए॒वास्या॒
ग्निरादित्येष्टका उप दधात्यादित्या वा एतं
भूत्यै॒ प्रति॑ नुदन्ते योऽलं॒ भूत्यै॒ सन्भूतिं॒ न
प्रा॒प्नोत्या॑दि॒त्याः (२) ए॒वैनं॒ भूति॑ गमय -
न्त्य॒सौ वा ए॒तस्या॑ऽऽदि॒त्यो रुच॒माद॑त्ते॒ यो॑ऽ
ग्नि॑ चि॒त्वा न रोच॑ते॒ यदा॑दित्येष्ट॒का उ॑पद॒-
धा॑त्य॒सावे॒वास्मि॑न्नादि॒त्यो रुचं॑ दधाति॒ य-
था॒ऽसौ दे॒वानाँ॒ रोच॑त ए॒वमे॒षैव म॑नुष्या॑
णाँ रोचते घृतेष्ट॒का उप॑ दधात्ये॒तद्वा अ॒ग्नेः
प्रि॒यं धाम॒ यद्घृ॒तं प्रि॒येणै॒वैनं॒ धाम्ना॒ सम॑
र्धयति (३) अथो॒ तेज॑साऽनुपरि॒हारँ
सादय॒त्यप॑रिवर्गमे॒वास्मि॒न्तेजो दधाति प्र॒
जाप॑तिर॒ग्निम॑चिनुत॒ स यश॑सा॒ व्या॑र्ध्यत॒
स ए॒ता य॑शो॒दा अ॑पश्य॒त्ता उपा॑धत्त॒ ताभि॒र्वै
स यश॑ आ॒त्मन्न॑धत्त॒ यद्य॑शो॒दा उ॑प॒दधा॑ति॒

[[2354]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—-(५ पञ्चमकाण्डे—-
(भूयस्कृदादष्टिकाषट्काभिधानम्)
यश॑ ए॒व ताभि॒र्यज॑मान आत्म॒न्ध॑त्ते॒ पश्चो॑प
दधाति॒ पाङक्तः॒ पुरु॑षो॒ यावा॑ने॒व पुरु॑ष॒स्त -
स्मि॒न्यशो॑ दधाति (४)॥
(ए॒वं प्रा॒प्नोत्यादि॒त्या अ॑र्धय॒त्येका॒न्नप॑ञ्चा॒शच्च॑)।
इति कृष्णयजुर्वेदीयतैत्तिरीसंहितायां पञ्चमाष्टके
तृतीयप्रपाठके दशमोऽनुवाकः॥ १०॥