(अथ पञ्चमाष्टके तृतीयप्रपाठके नवमोऽनुवाकः)।
सर्वा॑भ्यो॒ वै दे॒वता॑भ्यो॒ऽग्निश्ची॑यते॒ यत्स॒युजो॒
नोप॑द॒ध्याद्दे॒वता॑ अस्या॒ग्निं वृञ्जीर॒न्यत्स॒युज॑
उप॒दधा॑त्या॒त्मननैवैनँ॑ स॒युजं॑चिनुते॒ नाग्नि-
[[2352]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता - (२ द्वितीयकाण्डे -
(वृष्टिसन्यादीष्टकापञ्चकाभिधानम्)
ना॒ व्यृ॑ध्य॒तेऽथो॒ यथा॒ पुरु॑षः॒ स्राव॑भिः॒ संत॑त
ए॒वमे॒वैताभि॑र॒ग्निः संततो॒ऽग्निना॒ वै दे॒वाः
सु॑व॒र्ग लो॒कमा॑य॒न्ता अ॒मूः कृत्ति॑का अभ॒-
वन्यस्यै॒ता उ॑पधी॒यन्ते॑ सुव॒र्गमे॒व (१) लो॒-
कमे॑ति॒ गच्छ॑ति प्रका॒शं चि॒त्रमे॒व भ॑वति
मण्डलेष्ट॒का उप॑ दधाती॒मे वै लो॒का म॑ण्ड-
लेष्ट॒का इ॒मे खलु॒ वै लो॒का दे॑वपु॒रा दे॑व-
पु॒रा ए॒व प्र वि॑शति॒ नाऽऽर्ति॒मार्च्छ॑त्य॒ग्निं
चि॑क्या॒नो वि॒श्वज्यो॑तिष॒ उप॑ दधाती॒माने॒वै
ताभिर्लोकान्ज्योतिष्मतः कुरुतेऽथो प्राणा-
ने॒वैता यज॑मानस्य दाध्रत्ये॒ता वै दे॒वताः॑
सुव॒र्ग्या॑स्ता ए॒वान्वा॒रभ्य॑ सुव॒र्गं लो॒कमे॑ति
(२)॥
(सु॒व॒र्गमे॒व ता ए॒व चत्वा॒रि॑ च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
तृतीयप्रपाठके नवमोऽनुवाकः॥ ९॥