(अथ पञ्चमाष्टके तृतीयप्रपाठके सप्तमोऽनुवाकः)।
ना॒क॒सद्भि॒र्वै दे॒वाः सुव॒र्गं लो॒कमा॑य॒न्तन्ना॑-
क॒सदां॑ नाकस॒त्त्वं यन्ना॑क॒सद॑ उप॒दधा॑ति
नाक॒सद्भि॑रे॒व तद्यज॑मानः सुव॒र्गं लो॒कमे॑ति
[[2349]]
प्रपा० ३ अनु० ६) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(नाकसदादिपञ्चविधेष्टकाभिधानम्)
सुव॒र्गो वै लो॒को नाको॒ यस्यै॒ता उ॑पधी॒यन्ते
नास्मा॒ अकं॑ भवति यजमानायत॒नं वै ना॑क॒-
सदो॒ यन्ना॑क॒सद॑ उप॒दधा॑त्या॑यत॑नमे॒व तद्य-
ज॑मानः कुरुते पृ॒ष्ठानां॒ वा ए॒तत्ते॒जः संभृतं॒
यन्ना॑क॒सदो॒ यन्ना॑क॒सदः॑ (१) उप॒दधा॑ति
पृ॒ष्ठना॑मे॒व ते॒जोऽव॑ रुन्धे पञ्च॒चोडा॒ उय॑
दधात्यप्स॒रस॑ ए॒वैन॑मे॒ता भू॒ता अ॒मुष्मि॑ल्लोँ॒क
उप॑ शे॒रेऽथो॑ तनू॒पानी॑र॒वैता यज॑मानस्य॒
यं द्वि॒ष्यात्तमु॑प॒दध॑द्ध्या॒येदे॒ताभ्य॑ ए॒वैनं॑ दे॒व-
ता॑भ्य॒ आ वृ॑श्चति ता॒जगार्ति॒मार्छ॒त्युत्त॑रा
नाक॒सद्भ्य॒ उप॑ दधाति॒ यथा॑ जा॒यामा॒नीय॑
गृ॒हेषु॑ निषा॒दय॑ति ता॒दृगे॒व तत् (२) प॒श्चा-
त्प्राची॑मुत्त॒मामुप॑ दधाति॒ तस्मा॑त्प॒श्चात्प्राची॒
पत्न्यन्वा॑स्ते स्वयमातृ॒ण्णां च॑ विक॒र्णीं चो॑-
त्त॒मे उप॑ दधाति प्रा॒णो वै स्व॑यमातृ॒ण्णाऽऽ-
यु॑र्विक॒र्णी प्रा॒णं चे॒वाऽऽयु॑श्च प्रा॒णाना॑मुत्त॒मौ
ध॑त्ते॒ तस्मा॑त्प्रा॒णश्चाऽऽयु॑श्च प्रा॒णाना॑मुत्त॒मौ
नान्यामुत्त॑रा॒मिष्ट॑का॒मुप॑ दध्या॒द्यद॒न्यामुत्त॑-
रा॒मिष्ट॑कामुपद॒ध्यात्प॑शू॒नाम (३) च॒ य-
जमानस्य च प्रा॒णं चाऽऽयुश्चापि॑ दध्या॒त्त
स्मा॒न्नान्योत्त॒रेष्ट॑कोप॒धेया॑ स्वयमातृ॒ण्णामुप॑
दधात्य॒सौ वै स्व॑यमातृ॒ण्णाऽमूमे॒वोप॑ ध॒त्तेऽ-
[[2350]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—-(५ पञ्चमकाण्डे—-
(छन्दोभिधेष्टकाभिधानम्)
श्व॒मुप॑ घ्रापयति प्रा॒णमे॒वास्यां॑ दधा॒त्यथो॑
प्राजाप॒त्यो वा अश्वः॑ प्र॒जाप॑तिनै॒वाग्निं चि॑-
नुते स्वयमातृ॒ण्णा भ॑वति प्रा॒णाना॒मत्सृ॑ष्ट्या
अथो॑ सुव॒र्गस्य॑ लो॒कस्यानुख्यात्या ए॒षा वै
दे॒वानां॒ धिक्रा॑न्ति॒र्यद्वि॑क॒र्णी यद्वि॑क॒र्णीमु॑प॒द-
धा॑ति दे॒वाना॑मे॒व विक्रा॑न्ति॒मनु॒ वि क्र॑मत
उत्तर॒त उप॑ दधाति॒ तस्मा॑दुत्तर॒त उ॑पचारो॒ऽ-
ग्निर्वा॑यु॒मती॑ भवति॒ समि॑द्ध्यै (४)॥
(संभृतं॒ यन्ना॑क॒सदो॒ यन्ना॑क॒सद॒स्तत्प॑शू॒नामे॒षा वै द्वाविँशतिश्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
तृतीयप्रपाठके सप्तमोऽनुवाकः॥ ७॥