०६

(अथ पञ्चमाष्टके तृतीयप्रपाठके षष्ठोऽनुवाकः)।
र॒श्मिरित्ये॒वाऽऽदि॒त्यम॑सृजत॒ प्रेति॒रिति॒ धर्म॒ -
मन्वि॑ति॒रिति दिवँ॑ सं॒धि॒रि॒त्य॒न्त॒रि॑क्षं प्रति॒-
धिरिति॑ पृथि॒वीं वि॑ष्ट॒म्भ इति॒ वृष्टिं प्र॒वेत्य-
ह॑रनु॒वेति॒ रात्रि॑मु॒शिगिति॒ वसू॑न्प्रके॒त इति॑
रू॒द्रान्त्सु॑दी॒तिरित्या॑दि॒त्यानोज॒ इ॑ति पि॒तृँ
स्तन्तु॒रिति॑ प्र॒जाः पृ॑तना॒षाडिति प॒शून्रे॒वदि -
त्योष॑धीरभि॒जिद॑सि यु॒क्तग्रा॑वा (ऽ) इ -
न्द्रा॑य॒ त्वेन्द्रं॑ जि॒न्वेत्ये॒व द॑क्षिण॒तो वज्रं॒ प

[[2348]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—-(५ पञ्चमकाण्डे -
(नाकसदादिपञ्चत्रिधेष्टकाभिधानम्)
र्यौह॑द॒भिजित्यै॒ ताः प्र॒जा अप॑प्राणा असृजत॒
तास्वधि॑पतिर॒सीत्ये॒व प्रा॒णम॑दधाद्य॒न्तेपा॒नँ
सँ॒ सर्प॒ इति॒ चक्षु॑र्वयो॒धा इति॒ श्रोत्रं॒ ताः
प्र॒जाः प्रा॑ण॒ती॑रपान॒तीः पश्य॑न्तीः शृण्वती॒र्न
मि॑थु॒नी अ॑भव॒न्तासु॑ त्रि॒वृद॒सीत्ये॒व मि॑थु॒न -
म॑दधा॒त्ताः प्र॒जा मि॑थुनी (२) भव॑न्ती॒र्न
प्राजा॑यन्त॒ ताः सँ॑ रो॒हो॑ऽसि नीरो॒हो॑ऽसि -
त्ये॒व प्राज॑नय॒त्ताः प्र॒जाः प्रजा॑ता॒ न प्रत्य॑ति -
ष्ठ॒न्ता व॑सु॒कोऽसि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सी -
त्ये॒वैषु लो॒केषु॒ प्रत्य॑स्थापय॒द्यदाह॑ वसु॒को॑ऽ
सि॒ वेष॑श्रिरसि॒ वस्य॑ष्टिर॒सीति॑ प्र॒जा ए॒व
प्रजाता एषु लोकेषु प्रतिष्ठापयति सात्माऽ
न्तरि॑क्षँ रोहति॒ सप्रा॑णो॒ऽमुष्मिल्ँ लो॒के प्रति॑
तिष्ठ॒त्यव्य॑र्धुकः प्राणापा॒नाभ्यां॑ भवति॒ य
ए॒वं वेद॑ (३)॥
(यु॒क्तग्रा॑वा प्र॒जा मिथु॑न्य॑न्तरि॑क्षं॒ द्वाद॑श च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
तृतीयप्रपाठके षष्ठोऽनुवाकः॥६॥