(अथ पञ्चमाष्टके तृतीयप्रपाठके पञ्चमोऽनुवाकाः)।
अग्ने॑ जा॒तान्प्र णु॑दा नः स॒पत्ना॒निति॑ पु॒र-
स्ता॒दुप॑ दधाति जा॒ताने॒व भ्रातृ॑व्या॒न्प्र णु॑दते॒
सह॑सा जा॒तानिति॑ प॒श्चाज्ज॑नि॒ष्यमा॑णाने॒व
प्रति॑ नुदते चतुश्चत्वारिँ॒ शः स्तोम॒ इति॑
दक्षिण॒तो ब्र॑ह्मवर्च॒सं वै च॑तुश्चत्वारिँ शो
ब्र॑ह्मवर्च॒समे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॒णो-
[[2346]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(५ पञ्चमकाण्डे—
(असपत्नविराडाख्येष्टकाभिधानम्)
ऽर्धो॑ ब्रह्मवर्च॒सित॑रः षोड॒शः स्तोम॒ इत्यु॑त्त
र॒त ओजो॒ वै षो॑ड॒श ओज॑ ए॒वोत्त॑र॒तो ध॑त्ते॒
तस्मा॑त् (१) उ॒त्त॒र॒तो॒भि॒प्र॒या॒यी ज॑यति
वज्रो॒ वै च॑तुश्चत्वारिँ॒ शो वज्रः॑ षोड॒शो
यदे॒ते इष्ट॑के उप॒दधा॑ति जा॒ताँश्चैव जा॑नि॒ -
ष्यमा॑णाँ श्च भ्रातृ॑व्यान्प्र॒णुद्य॒ वज्र॒मनु॒ प्र
ह॑रति॒ स्तृत्यै॒ पुरी॑षवतीं॒ मध्य॒ उप॑ दधाति॒
पुरी॑षं॒ वै मध्य॑मा॒त्मनः॒ सात्मा॑नमे॒वाग्निं चि॑
नुते॒ सात्मा॒ऽमुष्मि॑ल्लोँ॒के भ॑वति॒ य ए॒वं वेदै॒ता
वा अ॑सप॒त्ना नामेष्ट॑का॒ यस्यै॒ता उ॑पधी॒यन्ते॑
(२) नास्य॑ स॒पत्नो॑ भवति प॒शुर्वा ए॒ष
यद॒ग्निर्वि॒राज॑ उत्त॒मायां॒ चित्या॒मुप॑ दधाति
वि॒राज॑मे॒वोत्त॒मां प॒शुषु॑ दधाति॒ तस्मा॑त्पशु॒
मानु॑त्त॒मां वाचं॑ वदति॒ दश॑द॒शोप॑ दधाति
सवीर्य॒त्वाया॑क्ष्ण॒योप॑ दधाति॒ तस्मा॑दक्ष्ण॒या
प॒शवोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै॒ यानि॒ वै
छन्दाँ॑ सि सुव॒र्ग्या॑ण्यास॒न्तैर्दे॒वाः सु॑व॒र्गं लो॒
कमा॑य॒न्तेनर्ष॑यः (३) अ॒श्रा॒म्य॒न्ते तपो॑ऽत-
प्यन्त॒ तानि॒ तप॑साऽपश्य॒न्तेभ्य॑ ए॒ता इष्ट॑का॒
नि॑रमिम॒तेव॒श्छन्दो॒ वरि॑व॒श्छन्द॒ इति॒ ता
उपा॑दधत॒ ताभि॒र्वै तै सु॑व॒र्ग लो॒कमा॑य॒न्यदे॒ता
इष्ट॑का उप॒दधा॑ति॒ यान्ये॒व छन्दाँ॑ सि सुव॒-
र्ग्या॑णि॒ तैरे॒व यज॑मानः सुव॒र्गं लो॒कमे॑ति य॒
[[2347]]
प्रपा० ३ अनु० ६) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(स्तोमभागरव्येष्टकाभिधानम्)
ज्ञेन॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ता स्तोम॑-
भागैरे॒वासृ॑जत॒ यत् (४) स्तोम॑भागा उ-
प॒दधा॑ति प्र॒जा ए॒व तद्यज॑मानः सृजते॒ बृह॒-
स्पति॒र्वा ए॒तद्य॒ज्ञस्य॒ तेजः॒ सम॑भर॒द्यत्सोम॑-
भागा॒ यत्स्तोम॑भागा उप॒दधा॑ति॒ सते॑जसमे॒-
वाग्निं चि॑नुते॒ बृह॒स्पति॒र्वा ए॒तां य॒ज्ञस्य॑ प्र-
ति॒ष्ठाम॑पश्य॒द्यत्स्तोम॑भागा॒ यत्स्तोम॑भागा उ-
प॒दधा॑ति य॒ज्ञस्य॒ प्रति॑ष्ठित्यै स॒प्तस॒प्तोप॑ द-
धाति सवीर्य॒त्वाय॑ ति॒स्त्रो मध्ये॒ प्रति॑ष्ठित्यै
(५)॥
(उत्तरतो धत्ते तस्मादुपधीयन्त ऋषयोऽसृजत यत्त्रिचत्वारिँ शच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
तृतीयप्रपाठके पञ्चमोऽनुवाकः॥ ५॥