०४

(अथ पञ्चमाष्टके तृतीयप्रपाठके चतुर्थोऽनुवाकः)।
अ॒ग्नेर्भा॒गो॑ऽसीति॑ पु॒रस्ता॒दुय॑ दधाति यज्ञ -

[[2343]]

प्रपा० ३ अनु ०४) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अक्ष्णयास्तोमीयादीनामभिधानम्)
मु॒खं वा अ॒ग्निर्य॑ज्ञमु॒खं दी॒क्षा य॑ज्ञमु॒खं ब्रह्म॑
यज्ञमु॒खं त्रि॒वृद्य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑त -
यति नृ॒चक्ष॑सां भा॒गो॑ ऽसीति॑ दक्षिण॒तः शु॑-
श्रु॒वाँ सो॒ वै नृ॒चक्ष॒सो ऽन्नं॑ धा॒ता जा॒तायै॒वा
स्मा॒ अन्न॒मपि॑ दधाति॒ तत्मा॑ज्जा॒तोऽन्न॑मत्ति
ज॒नित्रँ॑ स्पृ॒तँ स॑प्तद॒शः स्तोम॒ इत्या॒हान्नं॒
वै ज॒नित्र॑म् (१) अन्नँ॑ सप्तद॒शोऽन्न॑मे॒व
द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यते मि॒-
त्रस्य॑ भा॒गो॑ऽसीति॑ प॒श्चात्प्रा॒णो वै मि॒त्रो॑ऽ-
पा॒नो वरु॑णः प्राणापा॒नावे॒वास्मि॑न्दधाति
दि॒वो वृ॒ष्टिर्वातः॑ स्पृ॒ता ए॑कविँ॒ शः स्तोम॒
इत्या॑ह प्रति॒ष्ठा वा ए॑कविँ॒ शः प्रति॑ष्ठित्या॒
इन्द्र॑स्य भा॒गो॑ऽसीत्यु॑त्तर॒त ओजो॒ वा इन्द्र॒
ओजो॒ विष्णु॒रोजः॑ क्षत्रमोजः॑ पञ्चद॒शः
(२)ओज॑ एवोत्त॑र॒तो ध॑त्ते॒ तस्मा॑दुत्तर
तोभिप्रया॒यी ज॑यति॒ वसू॑नां भा॒गेऽसीति॑
पु॒रस्ता॒दुप॑ दधाति यज्ञमु॒खं वै वस॑वो यज्ञ
मु॒खँ रु॒द्रा य॑क्षमु॒खं च॑तुर्विँ॒ शो यज्ञ॑मु॒ख-
मे॒व पु॒रस्ता॒द्वि या॑तयत्यादि॒त्यानां॑ भा॒गो॑ऽ-
सीति॑ दक्षिण॒तोऽन्नं॒ वा आ॑दि॒त्या अन्नं॑ म॒रु-
तोऽन्नं॒ गर्भा॒ अन्नं॑ पञ्चविँ॒ शोऽन्न॑मे॒व द॑-
क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॑णे॒नान्न॑मद्य॒तेऽदि॑त्यै

[[2344]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(५ पञ्चमकाण्डे—-
(अक्ष्णयास्तोमीयदीनामभिधानम्)
भा॒गः (३) अ॒सीति॑ प॒श्चात्प्र॑ति॒ष्ठा वा अ -
दितिः प्रति॒ष्ठा पू॒षा प्र॑ति॒ष्ठा त्रि॑ण॒वः प्रति॑ -
ष्ठित्यै दे॒वस्य॑ सवि॒तुर्भा॒गो॑ऽसीत्यु॑त्तर॒तो ब्रह्म॒
वै दे॒वः स॑वि॒ता ब्रह्म॒ बृह॒स्पति॒ब्रह्म॑ चतुष्टो॒मो
ब्र॑ह्मवर्च॒समे॒वोत्त॑र॒तो ध॑त्ते॒ तस्मा॒दुत्त॒रोऽर्धो
ब्रह्मवर्च॒सित॑रः सावि॒त्रव॑ती भवति॒ प्रसू॑त्यै॒
तस्मा॑द्ब्राह्म॒णाना॒मुदीची स॒निः प्रसू॑ता
ध॒र्त्रश्च॑तुष्टोम इति॑ पु॒रस्ता॒दुप दधाति यज्ञ-
मु॒खं वै ध॒र्त्रः (४) य॒ज्ञ॒मु॒खं च॑तुष्टो॒मो
यज्ञमु॒खमे॒व पु॒रस्ता॒द्विया॑तयति॒ यावा॑नां
भा॒गो॑ऽसीति॑ दक्षिण॒तो मासा॒ वै यावा॑ अर्ध-
मा॒सा अया॑वा॒स्तस्मा॑द्दक्षि॒णावृ॑तो॒ मासा॒
अन्नं॒ वै यावा॒ अन्नं॑ प्र॒जा अन्न॑मे॒व द॑क्षिण॒तो
ध॑त्ते॒ तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यत ऋभू॒णां भा॒
गो॑ऽसीति॑ प॒श्चात्प्रति॑ष्ठित्यै विव॒र्तो॑ऽष्टाचत्वा-
रिँ॒ श इत्यु॑त्तर॒तो॑ऽनयो॑र्लो॒कयोः॑ सवीर्य॒
त्वाय॒ तस्मा॑दि॒मौ लो॒कौ स॒माव॑द्विर्यौ (५)
यस्य॒ मुख्य॑वतीः पु॒रस्ता॑दुपधी॒यन्ते॒ मुख्य॑
ए॒व मव॒त्याऽस्य॒ मुख्यो॑ जायते॒ यस्यान्न॑व-
तीर्दक्षिण॒तोऽत्त्यन्न॒भाऽऽस्या॑न्ना॒दो जा॑यते॒
यस्य प्रतिष्टा॒व॑तीः प॒श्चात्प्रत्ये॒व ति॑ष्ठति॒ य-
स्यौज॑स्वतीरुत्तर॒त ओ॑ज॒स्व्ये॑व भ॑व॒त्याऽस्यौ॑

[[2345]]

प्रपा० ३ अनु० ४) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(असपत्नविराडाख्येष्टकाभिधानम्)
ज॒स्वी जायते॒ऽर्को वा ए॒ष यद॒ग्निस्तस्यै॒तदे॒व
स्तो॒त्रमे॒तच्छ॒स्त्रं यदे॒षा वि॒धा (६) वि॒धी॒
यते॒ऽर्क ए॒व तद॒र्क्य॑मनु॒ वि धी॑य॒तेऽत्त्यन्न॒मा-
ऽस्या॑न्ना॒दो जा॑यते॒ यस्यै॒षा वि॒धा वि॑धी॒यते॒
य उ॑ चैनामे॒वं वेद॒ सृष्टी॒रुप॑ दधाति यथासृ॒-
ष्ट॒मेवाव॑ रुन्धे॒ न वा इ॒दं दिवा॒ न नक्त॑मासी॒-
दव्या॑वृत्तं॒ ते दे॒वा ए॒ता व्यु॑ष्टरिपश्य॒न्ता उ-
पा॑दधत॒ ततो॒ वा इ॒दं व्यौ॑च्छ॒द्यस्यै॒ता उ॑प-
धी॒यन्ते॒ व्ये॑वास्मा॑ उच्छ॒त्यथो॒ तम॑ ए॒वाप॑
हते (७)॥
( वै ज॒नित्रं॑ पञ्चद॒शोऽदि॑त्यै भा॒गो वै ध॒र्त्र स॒माव॑द्वीर्यौ वि॒धा ततो॒ वा इ॒दं चतु॑र्दश च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
तृतीयप्रपाठके चतुर्थोऽनुवाकः॥ ४॥