०३

(अथ पञ्चमाष्टके तृतीयप्रपाठके तृतीयोऽनुवाकः।
दे॒वा वै यद्य॒ज्ञेऽकु॑र्वत॒ तदसू॑रा अकुर्वत॒ ते
दे॒वा ए॒ता अ॑क्ष्णयास्तोमीया॑ अपश्यन्ता
अ॒न्यथा॒ऽनूच्या॒न्यथोपा॑दधत॒ तदसु॑रा॒ नान्व-
वा॑य॒न्ततो॑ दे॒वा अभ॑व॒न्पराऽमु॑रा॒ यद॑क्ष्णया

[[2341]]

प्रपा ० ३ अनु ० ३) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अक्ष्णयास्तोमीयादीनामभिधानम्)
स्तो॒मीया॑ अ॒न्यथा॒ऽनूच्या॒न्यथो॑प॒दधा॑ति॒ भ्रा-
तृ॑व्याभिभूत्यै॒ भव॑त्या॒त्मना॒ पर॑ऽस्य॒ भ्रातृ॑-
व्यो भवत्या॒शुस्त्रि॒वृदिति॑ पु॒रस्ता॒दुप॑ दधाति
यज्ञमु॒खं वै त्रि॒वृत् (१) य॒ज्ञ॒मुखमेव पु॒र-
स्ता॒द्वि या॑तवति॒ व्यो॑म सप्तद॒श इति॑ दक्षि
ण॒तोऽन्नं॒ वै व्यो॑मान्नँ॑ सप्तद॒शोऽन्न॑मे॒व द॑
क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॑णेनान्न॑मद्यते ध॒रुण॑
एकविँ॒श इति॑ प॒श्चात्प्र॑ति॒ष्ठा वा ए॑कविँ॒शः
प्रति॑ष्ठित्यै भा॒न्तः प॑ञ्चद॒श इत्यु॑त्तर॒त ओजो॒
वै भा॒न्त ओजः॑ पञ्चद॒श ओज॑ ए॒वोत्त॑र॒तो
ध॑त्ते॒ तस्मा॑दुत्तरतोभिप्रया॒यी ज॑यति॒ प्रतू॑र्ति
रष्टाद॒श इति॑ पु॒रस्ता॑त् (२) उप॑ दधाति॒
द्वौ त्रि॒वृता॑वभिपू॒र्वं यज्ञमु॒खे वि या॑तयत्य
भिव॒र्त स॑विँ॒ श इति॑ दक्षिण॒तोऽन्नं॒ वा अ॑ -
भिव॒र्तोऽन्न॑ सविँ॒ शोऽन्न॑मे॒व द॒क्षिण॒तो ध॑त्ते॒
तस्मा॒द्दक्षि॑णे॒नान्न॑मद्यते॒ वर्चो॑ द्वाविँ॒श इति॑
प॒श्चाद्यद्विँ॑ श॒तिर्द्वे तेन॑ वि॒राजौ॒ यद्द्वे प्र॑ -
ति॒ष्ठा तेन॑ वि॒राजो॑रे॒वाभि॑पू॒र्वम॒न्नाद्ये॒ प्रति॑
तिष्ठति॒ तपो॑ नवद॒श इत्यु॑त्तर॒तस्तस्मा॑त्स॒व्यः
(३) हस्त॑योसत्प॒स्वित॑रो॒ योनि॑श्चतुर्विँ॒ श
इति॑ पु॒रस्ता॒दुप॑ दधाति॒ चतु॑र्विँशत्यक्षरा
गाय॒त्री गा॑य॒त्री य॑ज्ञमु॒खं यज्ञमु॒खमे॒व पु॒र—

[[2342]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(५ पञ्चमकाण्डे—
(अक्ष्णयास्चोमीयादीनामभिधानम्)
स्ता॒द्वि या॑तयति॒ गर्भाः॑ पञ्चविँ॒ श इति॑
दक्षिण॒तोऽन्नं॒ वै गर्भा॒ अन्नं॑ पञ्चविँ॒ शोऽ
न्न॑मे॒व द॑क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॑णे॒नान्न॑म
द्यत॒ ओज॑स्त्रिण॒व इति॑ प॒श्चादि॒मे वै लो॒का-
स्त्रि॑ण॒व ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठति सं॒भर॑ण -
स्त्रयोविँ॒ श इति॑ (४) उ॒त्त॒र॒तस्तस्मा॑त्स॒-
व्यो हस्त॑योः संभा॒र्य॑तरः॒ ऋतु॑रेकत्रिँ॒ श
इति॑ पु॒रस्ता॒दुप दधाति॒ वाग्वै ऋतु॑र्यज्ञमु॒खं
वाग्य॑ज्ञमु॒खमे॒व पु॒रस्ता॒द्वि या॑तयति ब्र॒ध्रस्य॑
वि॒ष्टपं॑ चतुस्त्रिँ॒ श इति॑ दक्षिण॒तो॑ऽसौ वा
आ॑दि॒त्यो ब्र॒ध्नस्य॑ वि॒ष्टपं॑ ब्रह्मवर्च॒समे॒व द॑ -
क्षिण॒तो ध॑त्ते॒ तस्मा॒द्दक्षि॒णोऽर्धो॑ ब्रह्मवर्च॒सि-
त॑रः प्रति॒ष्ठा त्रयस्त्रिँ॒श इति॑ प॒श्चात्प्रति॑-
ष्ठित्यै॒ नाकः॑ षट्त्रिँ॒ श इत्यु॑त्तर॒तः सु॑व॒र्गो
वै लो॒को नाकः॑ सुव॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै
(५)॥
(वै त्रि॒वृदिति॑ पु॒रस्ता॑त्स॒व्यस्त्र॑योविँ॒श इति॑ सुव॒र्गो वै पञ्च॑ च )।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
तृतीयप्रपाठके तृतीयोऽनुवाकः॥ ३॥