(तत्र प्रथमोऽनुवाकः)।
ह॒रिः॒ ॐ।
- उ॒त्स॒न्न॒य॒ज्ञो वा ए॒ष य॒दग्निः किं वाऽहै॒
तस्य॑ क्रि॒यते॒ किं वा॒ न यद्वै य॒ज्ञस्य॑ कि॒य-
*एतदाद्येकादशानुवाकाश्चतुर्थकाण्डतृतीयपपाठकस्थचतुर्थानुवाकमारभ्य तद्रत चतुर्थप्रपाठकस्थसप्तमानुवाकपर्यन्तेन मूलेन सह व्याख्यात इत्यत्र पुनर्भाष्यकृता न व्याख्याताः।
[[2337]]
प्रपा. ३ अनु. १) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(द्वितीयावितिगताश्विन्यादीष्टकाचतुष्ट्याभिधानम्)
मा॑णस्यान्त॒र्यन्ति॒ पूय॑ति॒ वा अ॑स्य॒ तदा॑श्वि॒-
नीरुप॑ दधात्या॒श्विनौ॒ वै दे॒वानां॑ भि॒षजौ॒ ता-
भ्या॑मे॒वास्मै॑ भेष॒जं करोति॒ पञ्चोप॑ दधाति॒
पाङक्तो॑ य॒ज्ञो यावा॑ने॒व य॒ज्ञस्तस्मै॑ भेष॒जं
क॑रोत्यृत॒व्या॑ उप॑ दधात्यृ॒तूनां कॢप्त्यै॑ (१)
पञ्चोप॑ पधाति॒ पञ्च॒ वा ऋ॒तवो॒ याव॑न्त
ए॒वर्तव॒स्तान्क॑ल्पयति समा॒नप्र॑भृतयो भवन्ति
समा॒नोद॑क॒स्तिस्मा॑त्समा॒ना ऋ॒तव॒ एके॑न
प॒देन॒ व्याव॑र्तन्ते॒ तस्मा॑दृ॒तवो॒ व्याव॑र्तन्ते प्रा-
ण॒भृत॒ उप॑ दधात्यृ॒तुष्वे॒व प्रा॒णान्द॑धाति॒ त-
स्मा॑त्समा॒नाः सन्त॑ ऋ॒तवो॒ न जी॑र्य॒न्त्यथो॒
प्र ज॑नयत्ये॒वैना॑ने॒ष वै वा॒युर्यत्प्रा॒णो यदृ॑तव्या॑
उ॒पधाय॑ प्राण॒भृतः॑ (२) उ॒प॒दधा॑ति॒ त-
स्मा॒त्सर्वा॑नृतृननु॑ वा॒युरा व॑रीवर्ति वृष्टि॒सनी॒-
रुप॑ दधाति॒ वृष्टि॑मे॒वाव॑ रुन्धे॒ यदे॑क॒धोप॑द॒-
ध्यादेक॑मृ॒तुं व॑र्षेदनुपरि॒हारँ॑ सादयति॒ त-
स्मा॒त्सवा॑नि॒तून्व॑र्षति॒ यत्प्रा॑ण॒भृत॑ उप॒धाय॑
वृष्टि॒सनी॑रु॒पदधा॑ति॒ तस्मा॑द्वा॒युप्र॑च्युतां दि॒वो
वृष्टि॑रीर्ते प॒शवो॒ वै व॑य॒स्या॑ नाना॑मनसः॒
खलु॒ वै प॒शवो॒ नाना॑व्रता॒स्ते॑ऽप ए॒वाभि स-
म॑नसः (३) यं का॒मये॑ताप॒शुः स्या॒दिति॑
वय॒स्या॑स्तस्यो॑प॒धाया॑प॒स्या॑ उप॑ दध्या॒दसं॑-
[[2338]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता - (५ पञ्चमकाण्डे -
(स्वयमातृण्णाद्यभिधानम्)
ज्ञानमे॒वास्मै॑ प॒शुभिः॑ करोत्यप॒शुरे॒व भ॑वति॒
यं का॒मये॑त॒ पशुमान्त्स्या॒दित्य॑प॒स्या॑स्तस्यो॑-
प॒धायं॑ वय॒स्या॑ उप॒ दध्यात्सं॒ज्ञान॑मे॒वास्मै॑
प॒शुर्भिः॑ करोति पशु॒माने॒व भ॑वति॒ चत॑स्रः
पु॒रस्ता॒दुप॑ दधाति॒ तस्मा॑च्च॒त्वारि॒ चक्षुषो
रू॒पाणि॒ द्वे शु॒क्ले द्वे कृ॒ष्णे (४) मू॒र्ध॒न्वतीमं॑
वन्ति॒ तस्मा॑त्पु॒रस्ता॑न्मू॒र्धा पञ्च॒ दक्षि॑णायाँ॒
श्रोण्या॒मुप॑ दधाति॒ पञ्चोत्त॑रस्यां॒ तस्मा॑त्य॒-
श्चाद्वर्षी॑यान्पु॒रस्ता॑त्प्रवणः प॒शुर्ब॒स्तो वय॒
इति॒ दक्षि॒णोऽँ स॒ उप॑ दधाति वृष्णिर्वय॒ इ
त्युत्त॒रेऽँसावे॒व प्रति॑ दधाति सि व्या॒घ्रो वय॒
इति॒ दक्षि॑णे प॒क्ष उप॑ दधाति सिँ॒ हो वय॒
इत्युत्त॑रे प॒क्षयो॑रे॒व वी॒र्यं॑ दधाति॒ पुरु॑षो॒ वय॒
इति॒ मध्ये॒ तस्मा॒त्पुरु॑षः पशू॒नामधि॑पतिः
(५)॥
(कॢप्त्या॑ उप॒धाय॑ प्राण॒भृतः सम॑नसः कृ॒ष्णे पुरु॑षो॒ वय॒ इति॒ पञ्च॑ च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
तृतीयप्रपाठके प्रथमोऽनुवाकः॥ १॥