(अथ पञ्चमाष्टके द्वितीयप्रपाठके द्वादशोऽनुवाकः)।
कस्त्वा॑ छ्यति॒ कस्त्वा॒ वि शा॑स्ति॒ कस्ते॒
१ ख. घ. ङ. च. क्तीति शे। २ क कत्बे वी।
[[2334]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(५ पञ्चमकाण्डे—
(विशसनाभिधानम्)
गात्राणि शिम्यति। क उ॑ ते शमि॒ता क॒विः।
ऋ॒तव॑स्त ऋतु॒धा परुः॑ शमि॒तारो॒ वि शा॑स-
तु। सं॒व॒त्स॒रस्य॒ धाय॑सा॒ शिमी॑भिः शिम्यन्तु
त्वा। दैव्या॑ अध्व॒र्यव॑स्त्वा॒ छ्यन्तु॒ वि च॑
शासतु। गात्रा॑णि पर्व॒शस्ते॒ शिमाः॑ कृण्व -
न्तु शिम्य॑न्तः। अ॒र्ध॒मा॒साः परूँ॑ षि ते॒ मा-
सा॑श्छ्यन्तु॒ शिम्य॑न्तः। अ॒हो॒रा॒त्राणि॑ म॒रुता॒
विलि॑ष्टम् (१) सू॒द॒य॒न्तु॒ ते॒। पृ॒थि॒वी ते॒ऽ
न्तरि॑क्षेण वा॒युश्छि॒द्रं भि॑षज्यतु। द्यौस्ते॒ न -
क्ष॑त्रैः स॒ह रू॒पं कृ॑णोतु साधु॒या। शं ते॒
परे॑भ्यो॒ गात्रे॑भ्यः॒ शम॒स्त्वव॑रेभ्यः। शम॒स्थ -
भ्यो॑ म॒ज्जभ्यः॒ शमु॑ ते त॒नुवे॑ भुवत् (२)॥
(विलिष्टं त्रिँ॒ शच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
द्वितीयप्रपाठके द्वादशोऽनुवाकः॥ १२॥
विष्णु॑मुखा॒ अन्न॑पते॒ याव॑ती॒ वै वि वै पु॑रुषमा॒त्रेणाग्ने॒ तव॒ श्रवौ॒ वयो॒ ब्रह्म॑
जज्ञा॒नँ स्व॑यमातृ॒ण्णामे॒षां वै प॒शुगायि॒त्री कस्त्वा॒ द्वाद॑श॥ १२॥
विष्णु॑मुखा अप॑चितिमा॒न्वि वा ए॒तावग्ने॒ तव॒ श्रवः॑ स्वयमातृ॒ण्णां
वि॑षू॒चीना॑नि गाय॒त्री चतुः॑षष्टीः॥ ६४॥
हरिः ॐ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
द्वितीयः प्रपाठकः॥ २॥
[[2335]]
प्रपा. २ अनु. १२) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(विशसनाभिधानम्)
(अथ पञ्चमकाण्डे द्वितीयप्रपाठके द्वादशोऽनुवाकः)।
एकादशानुवाके सूचीभिरसिपथक्लप्तिरभिहिता। अथ द्वादशे विशसनमुच्यते। कल्पः-“कस्त्वा छ्यति कस्त्वा विशास्तीत्यश्वस्य त्वचमाच्छ्यति” इति। तस्मिन्ननुवाके प्रथमामृचमाह-
कस्त्वा छ्यतीति। हेऽश्व त्वां काः प्रजापतिश्छ्यति छिनत्ति। छित्वा चानन्तरं कः प्रजापतिरेव त्वां विशास्ति त्वदवयवान्विभज्य स्थापयति। ततः कः प्रजापतिरेव ते गात्राण्यवलयवाञ्शिम्यति सुरक्षितानि करोतीत्यर्थः। कविर्विद्वानर्थज्ञश्छेदनाद्यभिज्ञः क उ प्रजापतिरेव ते तव शमिता न त्वितरपशुवदन्यः कश्चिन्मनुष्यः। अथ द्वितीयामाह–
ऋतस्त इति। ऋतवो वसन्तादयो देवाः शमितारो भूत्वर्तुधा तत्तद्दतुकाले ते परुस्त्वदयिं पर्व विशासतु विविधं स्थापयन्तु। संवत्सरस्य धायसा धारणेनशिमीभिः शमनहेतुभिः क्रियाभिस्त्वा त्वां शिम्यन्तु शमयन्तु। ऋतुदेवा एव संवत्सरधारकाः सन्तस्तत्तत्कालोचितव्यापारैस्त्वां देवयोग्यं कुर्वन्त्वित्यर्थः। अथ तृतीयामाह–
दैव्या अध्वर्यव इति। देवेषु भवा दैव्या अध्वर्यवो द्युप्रभृतयः। “द्यौरध्वर्युः” “अश्विनाऽध्वर्यू” “सत्हविरध्वर्यूः” इति श्रुतः। तादृशाः सर्वे त्वां छ्यन्तु शस्त्रेण च्छिन्दन्तु। किचं विशासतु विविधं स्थापयन्तु। शिमाः शमनहेतवः सन्तस्ते गात्राणि त्वदीयानवयवान्पर्वशस्तत्तत्पर्वानुसारेण शिम्यन्तः शमयन्तो रक्षन्तः कृण्वन्तु तत्र तत्रोचितं व्यापारं कुर्वन्तु। अथ चतुर्थीमाह—-
अर्धमासा इति। अर्धमासा मासाश्च देवतास्ते परूंषि शिम्यन्तः शमयन्ते रक्षन्तश्छ्यन्तु च्छिन्दन्तु। तथाऽहोरात्राणि तदभिमानिनी दैवता मरुतश्च ते सर्वेऽपि विलिष्टं विनाशितमङ्गं सूदयन्तु स्वादू कुर्वन्तु। अथ पञ्चमीमाह—
पृथिवी इति। हेऽश्व ते छिद्रं त्वदीयं विनष्टमङ्गमन्तरिक्षेण सहिता पृथिवी भिषज्यतु समादधातु। वायुश्च भिषज्यतु। इयं द्यौर्नक्षत्रैः सहिता ते रूपं त्वदीयं स्वरूपभूतमिदं हविः साधुया साधु समीचीनं .था भवति तथा कृणोतु करोतु। अथ षष्ठीमाह—-
[[2336]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—-(४ चतुर्थकाण्डे—-
(द्वितीयचितिगतश्विन्यादीष्टकाचतुष्टयाभिधानम्)
शं ते परेभ्य इति। हेऽश्व ते तव परेभ्यो गात्रेभ्य उत्कृष्टेभ्योऽवयवैभ्यः शं सुखमस्तु। तथाऽवरेभ्यो निकृष्टेभ्योऽवयवेभ्यः शमस्तु। तथाऽस्यम्यस्त्वदीयेभ्योऽस्थिभ्यो मज्जभ्यश्च शमस्तु। तथा ते तनवे शरीराय शमु भुवत्सुखमेव भवतु।
अत्र विनियोगसंग्रहः -
कस्त्वेतिमन्त्रषट्केन ह्यश्वस्य त्वचमाच्छ्यति॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-
दीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे द्वितीयप्रपाठके
द्वादशोऽनुवाकः॥ १२॥
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः॥
इति श्रीमद्विद्यातीर्थमहेश्वरापरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य
श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधवाचार्येण विर
चिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
पञ्चमकाण्डे द्वितीयः प्रपाठकः॥ २॥