११

(अथ पञ्चमाष्टके द्वितीयप्रपाठके एकादशोऽनुवाकः)।
गा॒य॒त्री त्रि॒ष्टुब्जग॑त्यनु॒ष्टुक्प॒ङक्त्या॑ स॒ह।
बृ॒ह॒त्यु॑ष्णिहा॑ क॒कुत्सू॒चीभिः॑ शिम्यन्तु त्वा।
द्वि॒पदा॒ या चतु॑ष्पदा त्रि॒पदा॒ या च॒ षट्प॑दा।
सछ॑न्दा॒ या च॒ विच्छ॑न्दाः सू॒चीभिः॑ शिम्य —

[[2331]]

प्रपा. २ अनु. ११) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(सूचीभिरसिपथकॢप्तिः)
न्तु त्वा म॒हाना॑म्नी रे॒वत॑यो॒ विश्वा॒ आशाः॑
प्र॒सूव॑रीः। मेध्या॑ वि॒द्युतो॒ वाचः॑ सू॒चीभिः॑
शिम्यन्तु त्वा। रज॒ता हरि॑णीः॒ सीसा॒ युजो॑
युज्यन्ते॒ कर्म॑भिः। अश्व॑स्य वा॒जिन॑स्त्व॒चि
सू॒चीभिः॑ शिम्यन्तु त्वा नारीः॑ (१) ते॒
पत्न॑यो॒ लोम॒ वि चि॑न्वन्तु मनी॒षया॑। दे॒वा -
नां॒ पत्नी॒र्दिशः॑ सू॒चीभिः॑ शिम्यन्तु त्वा।
कु॒विद॒ङ्ग यव॑मन्तो॒ यवं॑ चि॒द्यथा॒ दान्त्य॑नु -
पू॒र्वं॑ वि॒यूय॑। इ॒हेहै॑षां कृणुत॒ भोजनानि॒ ये
ब॒र्हिषो॒ नमो॑वृक्तिं॒ न ज॒र॒मुः॒ (२)॥
(नारी॑स्त्रिँ॒ शच्च॑)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
द्वितीयप्रपाठक एकादशोऽनुवाकः॥ ११॥


(अथ पञ्चमकाण्डे द्वितीयः प्रपाठकः)।
(तत्र प्रथमाद्येकादशान्ता अनुवाकः)।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥
उख्याग्निः प्रथमे प्रोक्तो द्वितीये चित्त्युपक्रमः।
द्वादशात्रानुवाकाः स्युरासन्द्यां वह्न्यवस्थितिः॥
वात्सेप्रेणाप्युपस्थानं प्रथमे समुदीरितम्।
द्वितीये तूख्यनयनं गार्हपत्यं चिनोति हि॥
तृतीये तु चतुर्थे तु उख्याग्निं तत्र संवपेत्।
पञ्चमे कृषति क्षेत्रं षष्ठेऽत्र सिकतादिकम्॥

[[2332]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—-(५ पञ्चमकाण्डे—–
(सूचीभिरसिपथकॢप्तिः)
वपेद्रुक्माद्युपादध्यात्सप्तमे चाष्टमे पुनः।
स्थापयोत्स्वयमातृण्णामुखादीन्नवमे तथा॥
अपस्याश्च प्राणभृतस्तथाऽपानभृतश्चितौ।
प्रथमायामुपादध्याद्दशमे तत्समीरितम्॥
एकादशद्वादशौ तु विज्ञेयावाश्वमेधिकौ।
अश्वस्यासिपथाः कल्प्या गायत्रीत्यादिमन्त्रकैः।
कस्त्वैत्यसिपथेऽश्वस्याऽऽच्छ्येत्त्वचं कृष्यतां द्वयम्।
कल्पः-" गायत्री त्रिष्टुबिति द्वाभ्यां सौवर्णीभिः सूचीभिर्महिष्यश्वस्यासिपथान्कल्पयति प्राक्क्रोडात् " इति।
राज्ञः पत्न्यस्त्रिविधा उत्तमा मध्यमाऽधमा चेति। ताश्च महिषी वावाता परिवृक्तीत्येतन्नामधेयाः। ताश्च मृतस्याश्वस्यासिना छेदनाय तत्तत्स्थानेषु रेखाः सूचीभिः कुर्युः। तत्र महिष्माः प्रथमामृचमाह-
गायत्री त्रिष्टुविति। गायत्र्यादिककुदन्तैः शब्दैरभिधेयाच्छन्दोदेवता हेऽश्व त्वां सौवर्णसूचीभिः शिम्यन्तु लिखन्तु। अथ द्वितीयामृचमाह–
द्विपदा येति। द्विपदादिरूपाणां मन्त्राणामभिमानिन्यस्तन्नामिका देवतास्त्वां सृचीभिः शिम्यन्तु लिखन्तु।
कल्पः - “एषमुत्तराभ्यां राजतीभिर्वावाता प्रत्यक्कोडात्प्राङनाभेः” इति। यथा महिषी क्रोडात्प्राचीने मुखभागे लिखति एवं वावाता क्रोडनाभ्योर्मध्येऽनन्तरभाविना मन्त्रद्वयेन लिखेत्। तत्र प्रथममाह-
महानाम्नीति। महत्प्रौढं देवेष्वत्यन्तं प्रसिद्धं नाम यासां देवतानां ता महानाम्न्य एतन्नामधेयाः काश्चिद्देवताः। तथा रेवतयो धनवत्य एतन्नामिका देवताः। तथा प्रसूवरीः सर्वप्रसवहेतुभूता विश्वा अशाः सर्वा दिशो दिग्देवताः। तथा मेघेषु भवा मेघ्या विद्युदभिमानिन्यो देवताः। तथा वाचो गर्जनाभिमा निन्यो देवता हेऽश्व त्वां राजतीभिः सूवीभिः शिम्यन्तु लिखन्तु। अथ द्वितीयमाह-


१ ख. थे छित्वा त्वचमाकृष्यतो द्व। २ क. घ. ड. ष्यतो द्व। ३ घ. ड. च. सूचितसूची।

[[2333]]

प्रपा. २ अनु. ११) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(विशसनाभिधानम्)
रजता हरिणीरिति। रजता रौप्याः। हरिणीर्हिरण्मयाः। सीसा लोहमध्यः। युजो लेखनकर्मयोग्याः सूच्यः। अत एव वाजिनोऽन्नहेतोरश्वस्य त्वचि कर्मभिर्लेखनादिव्यापारैर्युज्यन्ते तादृशीभिः सूचीभिर्हेऽश्व त्वां लेखनकुशला देवता शिम्यन्तु लिखन्तु। कल्पः - “एवमुत्तराभ्यां लौहीभिः सीसाभिर्वा परिवृक्ती शेषम्” इति। तत्र प्रथमा (माह)-
नारीस्ते पत्नय इति। हेऽश्व नारीर्महिष्यादयो नार्यः पत्नयो हाजपत्न्यस्ता मनीषया स्वबुध्द्या लोमानि विचिन्वन्तु, असिपथसिद्धये त्वदीयं लोमजातमपनयन्तु पृथक्कुर्वन्तु। तथा देवानां पत्नीः सेनेन्द्रस्येत्याद्यनुवाकोक्ता देववपत्न्यः। तथा दिशो दिग्देवताः सूचीभिर्लौहीभिरेताभिस्त्वां शिम्यन्तु। अथ द्वितीयमाह-
कुविदङ्गेति। अङ्गशब्दः प्रियसंबोधनवाची। हे प्रिया अश्वमेधहविर्भाजो देवा ये यज्वानो बर्हिषो यागस्य नमोवृक्तिं नमस्कारविनाशनं न जग्मुर्न प्रापुः किंतु, अत्यन्तश्रद्धालवोऽनुतिष्ठन्ति तेषामेषां यज्वनां हविर्विषयाणि भोजनानीहेहकृणुत। यज्ञानामेकैकत्वं वीप्सा। तत्रोपमानमुच्यते। कुविच्छब्दो बह्वर्थवाची। विच्छब्दः समुच्चये। यथा लोके यवमन्तो यवादिधान्योपेताः कृषिकाः कुविद्यवंचिद्वहुलं यवमन्यानि च गोधूमप्रियङ्ग्वादिधान्मान्यनुपूर्वं तत्तत्परिपाकानुक्रमणेन वियूयेदं पक्वमिदमपक्वमिति विशेषेण पृथक्कृत्य दान्ति लुनन्ति, तथा यूयमपि नमस्कारादिरहितो नास्तिकोऽयं यज्वा श्रद्धालुरयं यज्वेति विविच्य श्रद्धालोर्हवींषिभुङ्ग्ध्वम्। अत्र विनियोगसंग्रहः-
गायद्वाभ्यां तु महिषी वावाता तु महाद्वयात्।
परिवृक्ती तु नाद्वाभ्यां कल्पयेयुरसेः पथः॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-
तैत्तिरीयसंहिता पञ्चमकाण्डे द्वितीयप्रपाठके
प्रथमाद्येतादशान्ता अनुवाकाः॥ १-११॥