१०

(अथ पञ्चमाष्टके द्वितीयप्रपाठके दशमोऽनुवाकः)।
प॒शुर्वा ए॒ष यद॒ग्निर्योनिः॒ खलु॒ वा ए॒षा प॒-
शोर्वि क्रि॑यते॒ यत्प्रा॒चीन॑मैष्ट॒काद्यजुः॑ क्रि॒यते॒
रेतो॑ऽप॒स्या॑ अ॒प॑स्या उप॑ दधाति॒ योना॑वे॒व
रेतो॑ दधाति॒ पञ्चोष॑ दधाति॒ पाङ्क्ताः॑ प॒-
शवः॑ प॒शूने॒वास्मै॒ प्र ज॑नयति॒ पच्ञ॑ दक्षि-
ण॒तो वज्रो॒ वा अ॑प॒स्या॑ वज्रे॑णै॒व य॒ज्ञस्य॑
दक्षिण॒तो रक्षाँ स्यप॑ हन्ति॒ पञ्च॑ प॒श्चात्
(१) प्राची॒रुप॑ दधाति प॒श्चाद्वै प्रा॒चीनँ॒
रेतो॑ धीयते प॒श्चादे॒वास्मै॑ प्रा॒चीनँ॒ रेतो॑ द-
धाति॒ पञ्च॑ पु॒रस्ता॑त्प्र॒तीची॒रुप॑ दधाति॒
पञ्च॑ प॒श्चात्प्राची॒स्तस्मा॑त्प्रा॒चीनँ॒ रेतो॑
धीयते प्र॒तीचीः॑ प्र॒जा जा॑यन्ते॒ पञ्चो॑त्तर॒त-
श्छ॑न्द॒स्याः॑ प॒शवो॒ वै छ॑न्द॒स्याः प॒शूने॒व

[[2329]]

प्रपा. २ अनु. १०) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(प्रथमचितावपस्याद्युपधानम्)
प्रजा॑ता॒न्त्स्वमा॒यत॑नम॒भि पर्यू॑हत इ॒यं वा
अ॒ग्नेर॑तिदा॒हादबिभे॒त्सैताः (२) अ॒प॒स्या॑
अपश्य॒त्ता उपा॑धत्त॒ ततो॒ वा इ॒मां नात्य॑दह॒-
द्यद॑प॒स्या॑ उप॒दधा॑त्य॒स्या अन॑तिदाहायो॒-
वाच॑ हे॒यमद॒दित्स ब्रह्म॒णाऽन्नं॒ यस्यै॒ता उ॑प-
धी॒यन्तै॒ य उ॑ चैना ए॒वं वेद॒दिति॑ प्राण॒मृत॒
उप॑ दधाति॒ रेत॑स्ये॒व प्रा॒णान्द॑धाति तस्मा॒-
द्वद॑न्प्रा॒णन्पश्य॑ञ्छृ॒ण्वन्प॒शुज॑जिते॒ऽयं पु॒रः
(३) भुव॒ इति॑ पु॒रस्ता॒दुप॑ दधाति प्रा॒णमे॒-
वैताभि॑र्दाधारा॒यं द॑क्षि॒णा वि॒श्वक॒र्मेति॑ दक्षि-
ण॒तो मन॑ ए॒वेताभि॑र्दाधारा॒यं प॒श्चाद्वि॒श्वव्य॑-
चा॒ इति॑ प॒श्चाच्चक्षु॑रे॒वैताभि॑र्दाधारे॒दमु॒त्त-
रात्सुव॒रित्यु॑त्तरतः॒ श्रोत्र॑मे॒वैतामि॑र्दाधारे॒यमु॒-
परि॑ म॒तिरित्यु॒परि॑ष्टा॒द्वाच॑मे॒वैताभि॑र्दाधार॒
दश॑द॒शो दधाति सवीयं॒त्वाया॑क्ष्ण॒या (४)
उप॑ दधाति॒ तस्मा॑दक्ष्ण॒या प॒शवोऽङ्गा॑नि॒ प्र
ह॑रन्ति॒ प्रति॑ष्ठित्यै॒ याः प्राची॒स्ताभि॒र्वसि॑ष्ठ
आर्ध्नो॒द्या द॑क्षि॒णा तामि॑र्भ॒रद्वा॑जो॒ याः प्र॒-
तीची॒स्ताभि॑र्वि॒श्वामि॑त्रो॒ या उदी॑ची॒स्ताभि॑-
र्ज॒मद॑ग्नि॒र्या ऊ॒र्ध्वास्ताभि॑र्वि॒श्वक॑र्मा॒ य ए॒व-
मे॒तासा॒मृद्धिं॒ बेद॒र्ध्नोत्ये॒व य आ॑सामे॒वं ब॒ —
न्धुतां॒ वे॒द बन्धु॑मान्भवति॒ य आसामे॒वं

[[2330]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—-(५ पञ्चमकाण्डे—-
(सूचीभिरसिपथकॢप्तिः)
कॢप्तिं॒ वेद॒ कल्प॑ते (५) अ॒स्मै॒ य आ॑ —
सामे॒वमा॒यत॑नं॒ वेदा॒ऽऽयत॑नवान्भवति॒ य आ॑ —
सामे॒वं प्र॑ति॒ष्ठां वेद॒ प्रत्ये॒व ति॑ष्ठति प्राण॒भृत॑
उप॒धाय॑ सं॒यत॒ उप॑ दधाति प्रा॒णाने॒वास्मि॑-
न्धि॒त्वा सं॒यद्भिः॒ सं य॑च्छति॒ तत्सं॒यताँ॑ सं-
य॒त्त्वमथो॑ प्रा॒ण ए॒वापा॒नं द॑धाति॒ तस्मा॑त्प्रा-
णापा॒नौ सं च॑रतो॒ विषू॑ची॒रुप॑ दधाति॒ त-
स्मा॒द्विष्व॑ञ्चौ प्राणापा॒नौ यद्वा अ॒ग्नेरसं॑यतम्
(६) असु॑दर्ग्यमस्य॒ तत्सु॑व॒र्ग्यो॑ऽग्निर्यत्सं॒-
यत॑ उप॒दधा॑ति॒ समे॒वैनं॑ यच्छति सुव॒र्ग्य॑मे॒-
बाक॒स्त्र्यवि॒र्वयः॑ कृ॒तमया॑ना॒मित्या॑ह॒ वयो॑ —
भिरे॒वाया॒नव॑ रु॒न्धेऽयै॒र्वयाँ॑ सि स॒र्वतो॑ वायु॒ —
मती॑र्भवन्ति॒ तस्मा॑द॒यँ स॒र्वतः पवते (७)॥
(प॒ञ्चादे॒ताः पु॒रोऽक्ष्ण॒या कल्प॒तेऽसं॑यतं पञ्च॑त्रिँ शच्च)
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
द्वितीयप्रपाठक दशमोऽनुवाकः॥ १०॥