(अथ पञ्चमाष्टके द्वितीयप्रपाठके नवमोऽनुवाकः)
ए॒षां वा ए॒तल्लो॒कानां॒ ज्योतिः॒ संभृ॑तं॒ यदु॒
खा यदु॒खामु॑प॒दधा॑त्ये॒भ्य ए॒व लो॒केभ्यो॒ ज्यो —
ति॒रव॑ रुन्धे मध्य॒त उप॑ दधाति मध्य॒त ए॒-
वास्मै॒ ज्योति॑र्दधाति॒ तस्मा॑न्मध्य॒तो ज्योति॒
रुपा॑ऽऽस्महे॒ सिकता॑भिः पूरयत्ये॒तद्वा अ॒ग्ने —
र्वैश्वा॑न॒रस्य रू॒पँ रू॒पेणेव वै॑श्वान॒रमव॑
रुन्धे॒ यं का॒मये॑त॒ क्षोध्रु॑कः स्या॒दित्यू॒नां
तस्योप॑ (१) द॒ध्या॒त्क्षोधु॑क ए॒व भ॑वति॒
यं का॒मये॒तानु॑पदस्य॒दन्न॑मद्या॒दिति॑ पू॒र्णां
तस्योप॑ दध्या॒दनु॑पदस्यदे॒व न्न॑मत्ति स॒हस्त्रं॒
बै प्रति॒ पुरु॑षः पशूनां य॒च्छति स॒हस्त्र॑म॒न्ये
प॒शवो॒ मध्ये॑ पुरुषशी॒षमुप॑ दधाति सवीर्य॒-
त्वायो॒खाया॒मपि दधाति प्रति॒ष्ठामे॒बैनद्रम-
यति॒ व्यृ॑ध्दं॒ वा ए॒तत्प्रा॒णैर॑मे॒ध्यं यत्पु॑रुषशी॒-
र्षम॒मृतं॒ ख॑लुं॒ वै प्रा॒णाः (२) अ॒मृतँ॒ हि-
र॑ण्यं प्रा॒णेषु॑ हिरण्यश॒ल्कान्प्रत्य॑स्यति प्रति॒-
ष्ठामेवै॑नद्गम॑यि॒त्वा प्रा॒णैः सम॑र्धयति द॒ध्ना
म॑धुमि॒श्रेण॑ पूरयति मध॒व्यो॑ऽसा॒नीति॑ शृता —
[[2327]]
प्रपा. २ अनु. ८) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(उखादिस्थापनम्)
त॒ङ्क्ये॑न मेध्य॒त्वाय॑ ग्रा॒म्यं वा एत॒दन्नं॒ यद्द-
ध्या॑र॒ण्यं मधु॒ यद्द॒ध्ना म॑धुमि॒श्रेण॑ पू॒रय॑-
त्यु॒भय॒स्याव॑रुध्यै पशुशी॒र्षाण्युप॑ दधाति प॒-
शवो॒ वै प॑शुशी॒र्षाणि॑ प॒शूने॒वाव॑ रुन्धे॒ यं
का॒मये॑ताप॒शुः स्या॒दिति॑ (३) वि॒षू॒ची-
ना॑नि॒ तस्योप॑ दध्या॒द्विषू॑च ए॒वास्मा॑त्प॒शून्द॑-
धात्यप॒शुरे॒व भ॑वति॒ यं का॒मये॑त पशु॒मा-
न्त्स्या॒दिति॑ समी॒चीना॑नि॒ तस्योप॑ दध्यात्स॒-
मीच ए॒वास्मै॑ प॒शून्द॑धाति पशु॒माने॒व भ॑वति
पु॒रस्ता॑त्प्रती॒चीन॒मश्व॒स्योप॑ दधाति ष॒श्चा-
त्प्रा॒चीन॑मृष॒भस्याप॑शवो॒ वा ऊ॒न्यो गौअ॒श्वे-
भ्यः॑ प॒शवो॑ गोअ॒श्वाने॒वास्मै॑ स॒मीचो॑ दधा-
त्ये॒ताव॑न्तो वै प॒शवः॑ (४) द्वि॒पाद॑श्च च-
तु॑ष्पादश्च॒ तान्वा ए॒तद॒ग्नौ प्र द॑धाति॒ यत्प॑-
शुशी॒र्षाण्यु॑प॒दधा॑त्य॒मुमा॑र॒ण्यमनु॑ ते दिशा॒-
मीत्या॑ह ग्रा॒म्येभ्य॑ एव प॒शुभ्य॑ आर॒ण्यान्प॒-
शूञ्छुच॒मनूत्सृ॑जति॒ तस्मा॑त्स॒माव॑त्पशूनां
प्रजाय॑मानानामार॒ण्याः प॒शव॒ कनी॑याँ सः
शु॒चा ह्यृ॑ताः स॑र्पशी॒र्षमुप॑ दधाति॒ यैव स॒र्पे
त्विषि॒स्तामे॒वाव॑ रुन्धे (५) यत्स॑मी॒चीनं॑
पशुशी॒र्षैरु॑पद॒ध्यादग्रा॒म्यान्प॒शून्दँ शु॑काः
स्यु॒र्यद्वि॑षू॒चीन॑मार॒ण्यान्यजु॑रे॒व व॑दे॒दव॒ तां
[[2328]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (२ द्वितीयकाण्डे —
(प्रथमचितावपस्याद्युपघानम्)
त्विषिँ रुन्धे॒ या स॒र्पे न ग्रा॒म्यान्प॒शून्हि॒न-
स्ति॒ नाऽऽर॒ण्यानथो॒ खलू॑प॒धेय॑मे॒व यदु॑पद-
धा॑ति॒ तेन॒ तां त्विषि॒मव॑ रुन्धे॒ या स॒र्प य-
द्यजु॒र्वद॑ति॒ तेन॑ शा॒न्तम् (६)॥
(ऊ॒नां तस्योप॑ प्रा॒णाः स्या॒दिति॒ वै प॒शवो॑ रुन्धे॒ चतु॑श्चत्वारिँ शच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
द्वितीयप्रपाठके नवमोऽनुवाकः॥ ९॥