(अथ पञ्चमाष्टके द्वितीयप्रपाठकेऽष्टमोऽनुवाकः)।
स्व॒य॒मा॒तृ॒ण्णामुप॑ दधाती॒यं वै स्व॑यमातृ॒ण्णे-
मामे॒वोप॑ ध॒त्तेऽश्च॒वमुप॑ ध्रापयति प्राण॒मेवा॒-
स्यां॑ दधा॒त्यथो॑ प्राजाप॒त्यो वा अश्वः॑ प्र॒जा-
प॑तिनै॒वाग्निं चि॑नुते प्रथ॒मेष्ट॑कोपधी॒यमा॑ना
पशू॒नां च॒ यज॑मानस्य च प्रा॒णमपि॑ दधाति
स्वयमातृ॒ण्णा भ॑वति प्रा॒णाना॒मुत्सृ॑ष्ट्या॒
अथो॑ सुव॒र्गस्य॑ लो॒कस्यानु॑ख्यात्या अ॒ग्ना-
व॒ग्निश्चे॑त॒व्या॑ इत्या॑हुरे॒ष वै (१) अ॒ग्नि-
र्वै॑श्वान॒रो यद्ब्रा॑ह्म॒णस्तस्मै॑ प्रथ॒मामिष्ट॑कां॒
यजु॑ष्कृतां॒ प्र य॑च्छेत्तां ब्रा॑ह्म॒णश्चोप॑दध्या-
ताम॒ग्नावे॒व तद॒ग्निं चि॑नुत ईश्व॒रो वा ए॒ष
आर्ति॒मार्तो॒र्योऽवि॑द्वा॒निष्ट॑कामुप॒दधा॑ति॒ त्री-
न्वरा॑न्दद्या॒त्रयो॒ वै प्रा॒णाः प्रा॒णानाँ॒ स्तृत्यै॒
[[2324]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता — (२ द्वितीयकाण्डे —
(स्वयमातृण्णास्थापनम्)
द्वावे॒व देयौ॒ द्वौ हि प्रा॒णावेक॑ ए॒व देय॒
एको॒ हि प्रा॒णः प॒शुः (२) वा ए॒ष यद॒-
ग्निर्न खलु॒ वै प॒शव॒ आय॑वसे रमन्ते दूर्वे-
ष्ट॒कामुप॑ दधाति पशू॒नां धृत्यै॒ द्वाभ्यां॒ प्रति॑-
ष्ठित्यै॒ काण्डात्काण्डात्प्र॒रोह॒न्तीत्या॑ह॒ काण्डे॑
नकाण्डेन॒ ह्ये॑षा प्र॑ति॒तिष्ठ॑त्ये॒वा नो॑ दूर्वे॒ प्र
त॑नु स॒हस्त्रे॑ण श॒तेन॒ चेत्या॑ह साह॒स्त्रः प्र॒जा-
प॑तिः प्र॒जाप॑ते॒राप्त्यै॑ देवल॒क्ष्मं वै त्र्या॑लि-
खि॒तां ता॒मुत्त॑रलक्ष्माणं दे॒वा उषा॑दध॒ताघ॑र
लक्ष्मण॒सु॑रा॒ यम् (३) का॒मये॑त॒ वसी॑-
यान्त्स्या॒दित्युत्त॑रलक्ष्माणं॒ तस्योप॑ दध्या॒द्व-
सी॑याने॒व भ॑वति॒ यं का॒मये॑त॒ पापी॑यान्त्स्या॒-
दित्यध॑रलक्ष्माणं॒ तस्योप॑ दध्यादसुरयो॒नि-
निमे॒वैन॒मनु॒ परा॑ भावयति॒ पापी॑यान्भवति
त्र्यालिखि॒ता भ॑वती॒मे वै लो॒कास्त्र्यालिखि॒-
तैभ्य ए॒व लो॒केभ्यो॒ भ्रातृ॑व्यम॒न्तरे॒त्यङ्गि॑रसः
सुव॒र्गं लो॒कं य॒तः पु॑रो॒डाशः॑ कू॒र्मो भू॒त्वाऽनु॒
प्रास॑र्पत् (४) यत्कू॒र्ममु॒प॑दधा॑ति॒ यथा॑ क्षे
त्रविदञ्ज॑सा॒ नय॑त्ये॒वमे॒वैनं॑ कू॒र्म सु॑व॒र्गं लो॒
कमञ्जसा नयति॒ मधो॒ वा ए॒ष प॑शू॒नां य-
त्कू॒र्मो यत्कू॒र्ममु॑प॒दधा॑ति॒ स्वमे॒व मेधं॒ पश्य॑
न्तः प॒शवः॒ उप॑तिष्ठन्ते श्मशा॒नं वा ए॒त-
[[2325]]
प्रपा. २ अनु. ८) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(स्वयमातृण्णास्थापनम्)
त्क्रि॑यते॒ यन्मृ॒तानां॑ पशू॒नाँ शी॒र्षाण्यु॑पधी॒
यन्ते॒ यज्जी॑वन्तं कू॒र्ममु॑प॒दधा॑ति॒ तेनाश्म॑शा-
न॒चिद्वास्त॒व्यो॑ वा ए॒ष यत् (५) कूर्मो
मधु॒ वाता॑ ऋताय॒त इति॑ द॒ध्ना म॑धुमि॒श्रे-
णाभ्य॑नक्ति स्व॒दय॑त्ये॒वैनं॑ ग्रा॒म्यं वा ए॒तदन्नं
यद्दध्या॑र॒ण्यं मधु॒ यद्द॒ध्ना म॑धुमि॒श्रेणा॑भ्य॒न-
क्त्य॒भय॒स्याव॑रुद्ध्यै म॒ही द्यौः पृ॑थि॒वी च॑
न॒ इत्या॑हा॒ऽऽभ्यामे॒वैन॑मुभ॒यतः॒ परि॑ गृह्णाति॒
प्राञ्च॒मुप॑ दधाति सुव॒र्मस्य॑ लो॒कस्य॒ सम॑ष्ट्यै
पु॒रस्ता॑त्प्र॒त्यञ्च॒मुप॑ दधाति॒ तस्मात् (६)
पु॒रस्ता॑त्प्र॒त्यञ्चः॑ प॒शवो॒ मेध॒मुप॑ तिष्ठन्ते॒
यो वा अप॑नाभिम॒ग्निं चि॑नु॒ते यज॑मानस्य॒
नाभि॒मनु॒ प्र वि॑शति॒ स ए॑नमीश्व॒रो हिँ सि॑-
तोरु॒लूख॑ल॒मुप॑ दधात्ये॒षा वा अ॒ग्नेर्नार्भिः॒
सना॑भिमे॒वाग्निं चि॑नु॒तेऽहिँसाया॒ औदु॑म्बरं
भव॒त्यूर्ग्वा उ॑दु॒म्बर॒ ऊर्ज॑मे॒वाव॑ रुन्धे मध्य॒त
उप॑ दधाति मध्य॒त ए॒वास्मा॒ ऊर्जं॑ दधाति॒
तस्मा॑न्मध्य॒त ऊ॒र्जा भु॑ञ्जत॒ इय॑द्भवति प्र॒जा-
प॑तिना यज्ञमु॒खेन॒ संमि॑त॒मव॑ ह॒न्त्यन्न॑मे॒वाक॑-
र्वैष्ण॒व्यर्चोप॑ दधाति॒ विष्णु॒र्वै य॒ज्ञो वै॑ष्ण॒वा-
वन॒स्पत॑यो य॒ज्ञ ए॒व य॒ज्ञ प्रति॑ ष्ठापयति
[[2326]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—-(५ पञ्चमकाण्डे—
(उखादिस्थापनम्)
(ए॒षं वै प॒शुर्यम॑सर्पदे॒ष यत्तस्मा॒त्तस्मा॑त्स॒प्तविँ॑शतिश्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
द्वितीयप्रपाठकेऽष्टमोनुवाकः॥ ८॥