(पञ्चमाष्टके द्वितीयप्रपाठके सप्तमोऽनुवाकः)।
ब्रह्म॑ जज्ञा॒नमिति॑ रुक्ममुप॑ दधाति॒ ब्रह्म॑-
मुखा॒ वै प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ ब्रह्म॑मुखा
ए॒व तत्प्र॒जा यज॑मानः सृजते॒ ब्रह्म॑ जज्ञा॒न-
मित्या॑ह॒ तस्मा॑द्ब्राह्म॒णो मुख्यो॒ मुख्यो॑ भ-
वति॒ य ए॒वं वेद॑ ब्रह्मवा॒दिनो॑ वदन्ति॒ न पृ॑
थि॒व्यां नान्तरि॑क्षे॒ न दि॒व्या॑ग्निश्चे॑त॒व्य॑ इति॒
यत्पृ॑थि॒व्यां चि॑न्वी॒त पृ॑थि॒वीँ शुचाऽर्प॑ये॒-
न्नोष॑धयो॒ न वन॒स्पत॑यः (१) प्र जा॑येर॒-
न्यद॒न्तरि॑क्षे चिन्वी॒तान्तरि॑क्षँ शु॒चाऽर्प॑ये॒न्न
वयोँ॑ सि॒ प्र जा॑येर॒न्यद्दि॒वि चि॑न्वी॒त दिवँ॑
शु॒चाऽर्ष॑ये॒न्न प॒र्जन्यो॑ वर्षेद्रु॒क्भमुप॑ दधात्य॒-
मृतं॒ वै हिर॑ण्यममृत॑ ए॒वाग्निं चि॑नुते॒ प्र-
ज॑ त्यै हि॒रण्मयं॒ पुरु॑ष॒मुप॑ दधाति यजमान-
लो॒कस्य॒ विधृ॑त्यै॒ यदिष्ट॑काया॒ आतृ॑ण्णमनु-
[[2322]]
श्रीमत्सायणाचार्यविरचितभाषसमेता–(५ पञ्चमकाण्डे–
(रुक्माद्युपधानम्)
पद॒ध्यात्पशू॒नां च॒ यज॑मानस्य च प्रा॒णमपि
दध्याद्दक्षिण॒तः (२) प्राञ्च॒मप॑ दधाति
दा॒धार॑ यजमानलो॒कं न प॑शू॒नां च॒ यज॑मा-
नस्य च प्रा॒णमपि॑ दधा॒त्यथो॒ खल्विष्ट॑काया॒
आतृ॑ण्ण॒मनुप॑ दधाति प्रा॒णाना॒मुत्सृ॑ष्टै द्र॒-
प्सश्च॑स्क॒न्देत्य॒भि मृ॑शति॒ होत्रा॑स्वे॒वैनं॒ प्रति॑
ष्ठापयति॒ स्त्रुचा॒वुप॑ दधा॒त्याज्य॑स्य पूर्णं का-
र्ष्मर्य॒मयीं॑ द॒ध्नः पू॒र्णामौदु॑म्बरीमि॒यं वै
का॑र्ष्मर्य॒मय्य॒सावौदु॑म्बरी॒मे ए॒वोप॑ धत्ते ()
तू॒ष्णीमुप॑ दधाति॒ न हीमे यजु॒षाऽऽप्तु॒मर्ह॑ति॒
दक्षि॑णां कार्ष्मयम॒यी॒मुत्त॑रा॒मौदु॑म्बरीं॒ तस्मा॑-
द॒स्या अ॒सावुत्त॒राऽऽज्य॑स्य पू॒र्णां कार्ष्म॒र्यो॑
मयीं॒ वज्रो॒ वा आज्यं॒ वज्रः॒ कार्ष्म॒र्यो॑
वज्रे॑णै॒व य॒ज्ञस्य॑ दक्षिण॒तो रक्षाँ॒ स्यप॑
हन्ति द॒ध्नः पू॒र्णामौ॑दुम्बरीं प॒शवो॒ वै दध्यू —
र्गुदु॒म्बरः॑ प॒शुष्वे॒वोर्ज॑ दधाति पू॒र्णे उप॑ द-
धाति पू॒र्णे ए॒वैन॑म् (४) अ॒मुष्मि॑ल्लो॒क
उप॑ तिष्ठेते विराज्य॒ग्निश्चे॑त॒व्या॑ इत्या॑हुः॒ स्त्रुग्वै
वि॒राड्यत्स्त्रुचा॑वुय॒दधा॑ति वि॒राज्ये॒वाग्निं
चि॑नुते यज्ञमु॒खेय॑ज्ञमुखे॒ वै क्रि॒यमा॑णे य॒ज्ञँ
रक्षाँ॑ सि जिघाँ सन्ति यज्ञमु॒खँ रु॒क्मो
यद्रु॒क्मं व्या॑घा॒रय॑ति यज्ञ॒मुखादे॒व रक्षाँ॒-
[[2323]]
प्रपा. २ अनु. ८) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(स्वयमातृण्णास्थानम्)
स्यप॑ हन्ति प॒ञ्चभि॒र्व्याघा॑रयति॒ पाङ्क्तो॑
य॒ज्ञो यावा॑ने॒व य॒ज्ञस्तस्मा॒द्रक्षाँ॒ स्यप॑ ह-
न्त्यक्ष्ण॒या व्याघा॑रयति॒ तस्मा॑दक्ष्ण॒या प॒श-
वोऽङ्गा॑नि॒ प्र ह॑रन्ति॒ प्रति॑ष्ठित्यै (५)।
(वन॒स्पत॑यो दक्षिण॒तो ध॑त्त एनं॒ तस्मा॑दक्ष्ण॒या पञ्च॑ च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
द्वितीयप्रपाठके सप्तमोऽनुवाकः॥ ७॥