(अथ पञ्चमाष्टके द्वितीयप्रपाठके षष्ठोऽनुवाकः)।
अग्ने॒ तव॒ श्रवो॒ वय॒ इति॒ सिक॑ता॒ नि व॑प-
त्ये॒तद्वा अ॒ग्नेवैश्वा॑न॒रस्य॑ सू॒क्तँ सू॒क्तेनै॒व
वै॑श्वान॒रमव॑ रुन्धे ष॒ड्भिर्नि व॑पति॒ षड्वा
ऋ॒तवः॑ संवत्स॒रः संवत्स॒रो॑ऽग्निवैश्वा॑न॒रः सा॒-
क्षादे॒व वै॑श्वान॒रमव॑ रुन्धे समु॒द्रं वै नामै॒त-
च्छन्दः॑ समु॒द्रमनु॑ प्र॒जाः प्र जा॑यन्ते॒ यदे॒तेन॒
सिक॑ता नि॒ वप॑ति प्र॒जानां॑ प्र॒जन॑ना॒येन्द्रः॑
(१) वृत्राय॒ वज्रं॒ प्राह॑र॒त्स त्रे॒धा व्य॑भव–
त्स्फ्यस्तृती॑यँ॒ र॒थ॒स्तृती॑यं॒ यूप॒स्तृती॑यं ये॑ऽ
न्तःश॒रा अशी॑र्यन्त॒ ताः शर्क॑रा अभव॒न्त —
च्छर्कराणाँ शर्कर॒त्वं वज्रो॑ वै शर्क॑राः
प॒शुर॒ग्निर्यच्छर्क॑राभिर॒ग्नि॑ ष॑रिमि॒नोति॒ वज्रे॑
णै॒वास्मै॑ प॒शून्परि॑ गृह्णाति॒ तस्मा॒द्वज्रे॑ण
प॒शवः॒ परि॑गृहीता॒स्तरमात्स्थे॒या॒नस्थे॑यसो॒
[[2320]]
श्रीमत्सायणाचार्यविरचितभाषसमेता—-(५ पञ्चमकाण्डे—-
(क्षेत्रे सिकतादिवापः)
नोप॑ हरते त्रिस॒ताभिः॑ पशुका॑मस्य (२)
परि॑ मिनुयात्स॒प्त वै शी॑र्ष॒ण्याः प्रा॒णाः
प्रा॒णाः प॒शवः॑ प्रा॒णैरे॒वास्मै॑ प॒शूनव॑ रुन्धे
त्रिण॒वामि॒र्भ्रातृ॑व्यवतास्त्रि॒वृत॑मे॒व वज्रँ॑ सं॒
भृत्य॒ भ्रातृ॑व्याय॒ प्र ह॑रति॒ स्तृत्या॒ अप॑रिमि-
तामिः॒ परि॑ मिनुया॒दप॑रिमित॒स्यावरु॑ द्ध्यै॒
यं का॒मयेताप॒शुः स्या॒दित्यप॑रिमित्य॒ तस्य॒
शर्क॑राः॒ सिक॑ता॒ व्यू॑हे॒दप॑रिगृहीत ए॒वास्य॑
बिषू॒चीनँ॒ रेतः॒ परा॑सिञ्चत्यप॒शुरे॒व भ॑वति
(३) यं का॒मये॑त पशु॒मान्त्स्या॒दिति॑ परि॒ —
मित्य॒ तस्य॒ शर्क॑राः॒ सिक॑ता॒ व्यू॑ह॒त्परि॑गृहीत
ए॒वास्मै॑ समी॒चीनँ॒ रेतः॑ सिञ्चति पशु॒मा —
ने॒व भ॑वति सौ॒म्या व्यू॑हति॒ सोमो॒ वे रे॑ता॒धा
रेत॑ ए॒व तद्द॑धाति गायत्रि॒या ब्रा॑ह्म॒णस्य॑
गाय॒त्रो हि ब्रा॑ह्म॒णस्त्रि॒ष्टुभा॑ राज॒न्य॑स्य॒ त्रै-
ष्ट॑भो हि रा॑ज॒न्यः॑ शं॒युं बार्हस्प॒त्यं मेधा॒
नापा॑नम॒त्साऽग्निं प्रावि॑शत् (४) सो॑ऽग्ने
कृष्णो॑ रू॒पं कृ॒त्वोदायत॒ सोऽश्वं॒ प्रावि॑श॒-
त्सोऽश्व॑स्यावान्तरश॒फो॑ऽभव॒द्यश्वमाक्र॒मय॑-
ति॒ य ए॒व मेधोऽश्वं॒ प्रावि॑श॒त्तमे॒वाव॑ रुन्धे
प्र॒जाप॑तिना॒ऽग्निश्वे॑त॒व्य॑ इत्या॑हुः प्राजा॒पत्योऽ
श्वो॒ यदश्व॑माक्र॒मय॑ति प्र॒जाप॑तिनै॒वाग्निं चि॑
नुते पुष्करप॒र्णमुप॑ दधाति॒ योनि॒र्वा अ॒ग्नेः
[[2321]]
प्रपा. २ अनु. ७) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(रुक्माद्युपधानम्)
पु॑ष्करप॒र्णँ सयो॑निमे॒वाग्निं चि॑नुते॒ऽपां पृ॒ष्ठ-
म॒सीत्युप॑ दधात्य॒पां वा ए॒तत्पृ॒ष्ठं यत्पु॑ष्कर-
पर्णँ रू॒पेणै॒वैन॒दुप॑ दधाति (५)॥
(इन्द्रः॑ प॒शुका॑मस्य भवत्यदिश॒त्सपो॑नि विंँ श॒तिश्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
द्वितीयप्रपाठके षष्ठोऽनुवाकः॥ ६॥