०५

(अथ पञ्चमाष्टके द्वितीयप्रपाठके पञ्चमोऽनुवाकः)
पु॒रु॒ष॒मा॒त्रेण॒ वि मि॑मीते य॒ज्ञेन॒ वै पुरु॑षः॒
संमितो यज्ञपुरुषै॒वै॒नं वि मि॑मीते॒ यावा॒न्पुरु॑ष
ऊ॒र्ध्वबा॑हु॒स्तावा॑न्भवत्ये॒ताव॒द्वै पुरु॑षे वी॒र्यं
वी॒र्येणै॒वैनं॒ वि मि॑मीते प॒क्षी भ॑वति॒ न ह्य॑प॒क्षः
पति॑तु॒मर्ह॑त्यर॒त्निना॑ प॒क्षौ द्राघी॑याँसौ भव —
त॒स्तस्मा॑त्प॒क्षप्र॑वयाँ सि॒ वयाँ॑ सि व्याम
मा॒त्रौ प॒क्षौ च॒ पुच्छं॑ च भवत्ये॒ताव॒द्वै पुरु॑षे
वी॒र्यंम् (१) वी॒र्य॑संमितो॒ वेणु॑ना॒ वि मि॑मीत
आग्ने॒यो वै वेणु॑ सयोनि॒त्वाय॒ यजु॑षा युनक्ति॒
यजु॑षा कृषति॒ व्यावृ॑त्त्यै षड्ग॒वेन॑ कृषति॒
षड्वा ऋ॒तव॑ ऋ॒तुभि॑रे॒वैनं॑ कृषति॒ यदद्वा॑दश —
ग॒वेन॑ संवत्स॒रेणै॒वेयं वा अ॒ग्नेर॑तिदा॒हाद॑ —
बिभे॒त्सैतदद्वि॑गु॒णम॑पश्यत्कृ॒ष्टं चाकृ॑ष्टं च॒
ततो॒ वा इ॒मां नात्य॑दह॒द्यत्कृ॒ष्टं चाकृ॑ष्टं च
(२) भव॑त्य॒स्या अन॑तिदाहाय द्विगु॒णं त्वा
अ॒ग्निमुय॑न्तुमर्ह॒तीत्या॑हु॒र्यत्कृ॒ष्टं चाकृ॑ष्टं च॒
भव॑त्य॒ग्नेरुद्य॑त्या ए॒ताव॑न्तो॒ वै प॒शवो॑ द्वि॒पा-
द॑श्च॒ चतु॑ष्पादश्च॒ तान्यत्प्राच॑ उत्सृ॒जेद्रु॒
द्रायापि॑ दध्या॒द्यद्दक्षि॒णा पि॒तृभ्यो॒ नि धु॑वे॒ —
द्यत्प्र॒तीचो॒ रक्षाँ॑सि हन्यु॒रुदी॑च॒ उत्सृ॑ज —
त्ये॒षा वै दे॑वमनु॒ष्याणाँ॑ शा॒न्ता दिक् (३)

[[2318]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(५ पञ्चमकाण्डे—-
(क्षेत्रकर्षणम्)
तामे॒वैना॒ननूत्सृ॑ज॒त्यथो॒ खल्वि॒मा दिश॒मु
त्सृ॑जत्य॒सौ वा आ॑दि॒त्यः प्रा॒णः प्रा॒णमेवैना॒-
ननूत्सृ॑जति दक्षि॒णा प॒र्याव॑र्तन्ते॒ स्वमे॒व
वी॒र्यमनु॑ प॒र्या॑ र्तन्ते॒ तस्मा॒द्दक्षि॒णोऽर्ध॑ आ॒त्म-
नो॑ वी॑र्यवि॑त्त॒रोऽथो॑ आदि॒त्यस्यै॒वाऽऽवृ॒तमनु॑
प॒र्याव॑र्तन्ते॒ तस्मा॒त्पया॑ञ्चः प॒शवो॒ वि तिष्ठ-
न्ते प्र॒त्यञ्च॒ आ व॑र्तन्ते ति॒स्त्रस्ति॑स्त्रः॒ सीताः॑
(४) कृष॒ति॒ त्रि॒वृत॑मेव य॑ज्ञमु॒खे वि या॑त —
य॒त्योष॑धीर्वपति॒ ब्रह्म॒णाऽन्न॒मव॑ रुन्धे॒ऽर्के॑ऽर्क
श्ची॑यते चतुर्द॒शभि॑र्वपति स॒प्त ग्रा॒म्या ओ —
ष॑धयः स॒प्ताऽऽर॒ण्या उ॒भयी॑षा॒मव॑रुद्ध्या
अन्न॑स्यान्नस्य वप॒त्यन्न॑स्यान्न॒स्याव॑रुद्ध्यै
कृ॒ष्टे व॑पति कृ॒ष्टे ह्योष॒धयः प्रति॒तिष्ठ॑न्त्यनु —
सी॒तं व॑पति॒ प्रजा॑त्यै द्वाद॒शसु॒ सीता॑सु वपति॒
द्वाद॑श॒ मासाः॑ संवत्स॒रः सं॑वत्स॒रेणै॒वास्मा॒
अन्नं॑ पचति॒ यद॑ग्नि॒चित् (५) अन॑वरु
द्धस्याश्नि॒ यादव॑रुद्धेन॒ व्यृ॑ध्येत॒ ये वन॒स्पती॑नां
फल॒ग्रह॑य॒स्तानि॒ध्मेऽपि॒ प्रोक्षे॒दन॑वरुद्ध॒ याव॑ —
रुद्ध्यै दि॒ग्भ्यो लो॒ष्टान्त्सम॑स्यति दि॒शामे॒व
वी॒र्य॑मव॒रुध्य॑ दि॒शां वी॒र्येऽग्निं चि॑नुते॒ यं
द्वि॒ष्याद्यत्र॒ स स्यात्तस्यै॑ दि॒शो लो॒ष्टमा ह॑रे —
दिष॒मूर्ज॑म॒हमि॒त आ द॑द॒ इतीषमे॒वोर्जं तस्यै॑
दि॒शोऽव॑रुन्धे॒ क्षोधु॑को भवति॒ यस्तस्यां॑ दि॒शि

[[2319]]

प्रपा. २ अनु. ६) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(क्षेत्रे सिकतादिवापः)
भव॑त्युत्तरवे॒दिमुप॑ वपत्युत्तरवे॒द्याँ ह्य॑ग्निश्वी॒-
यतेऽथो॑ प॒शवो॒ वा उ॑त्तरवे॒दिः प॒शूने॒वाव॑
रु॒न्धेऽथो॑ यज्ञप॒रुषोऽन॑न्तरित्यै (६)॥
(च॒ भ॒वत्ये॒ताव॒द्वै पुरु॑षे वी॒र्यं॑ यत्कृ॒ष्टं चाकृ॑ष्टं च दिक्सीता॑
अग्नि॒चिदव॒ पश्च॑विँशतिश्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीसंहितायां पञ्चमाष्टके
द्वितीयप्रपाठके पञ्चमोऽनुवाकः॥ ५॥