(अथ पञ्चमाष्टके द्वितीयप्रपाठके चतुर्थोऽनुवाकः)।
वि वा ए॒तौ द्वि॑षाते॒ यश्च पु॒राऽग्निर्यश्चो
खायाँ॒ समि॑त॒मिति॑ चत॒सृभिः॒ सं नि व॑पति
च॒त्वारि॒ छन्दाँ॑सि॒ छन्दाँ॑सि॒ खलु॒ वा
अ॒ग्नेः प्रि॒या त॒नूः प्रि॒ययै॒वैनौ॑ त॒नूवा॒ सँ
शा॑स्ति॒ समि॑त॒मित्या॑ह॒ तस्मा॒दब्रह्म॑णा
क्ष॒त्र्त्रंँ समे॑ति॒ यत्सं॒न्यूप्य॑ वि॒हर॑ति॒ तस्मा॒
दब्रह्म॑णा क्ष॒त्र्त्रं व्ये॑त्यृ॒तुभिः॑ (१) वा ए॒तं
दी॑क्षयन्ति॒ स ऋ॒तुभि॑रे॒व वि॒मुच्यो॑ मा॒तेव॑
पु॒त्रं पृ॑थिवी पु॑री॒ष्य॑मित्या॑ह॒र्तुभि॑रेवैनं॑ दीक्ष
यि॒त्वर्तुभि॑र्वि मु॑ञ्चति वैश्वान॒र्या शि॒क्य॑मा
द॑त्ते स्व॒दय॑त्ये॒वैन॑नैऋ॒तीः कृ॒ष्णास्ति॒स्त्रस्तुष॑ —
[[2316]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—-(५ पञ्चमकाण्डे—
(उख्याग्निसंवपनम्)
पक्वा भवन्ति॒ निर्ऋ॑त्यै॒ वा ए॒तद्भा॑ग॒धेयं॒
यत्तुषा॒ निर्ऋ॑त्यै रू॒पं कृ॒ष्णँ रू॒पेणै॒व निर्ऋ॑-
तिं निरव॑दयत इ॒मां दिशं॑ यन्त्ये॒षा (२) वै
निर्ऋ॑त्यै॒ दिवस्वाया॑ने॒वदि॒शि निर्ऋ॑तिं नि॒र-
व॑दयते॒ स्वकृ॑त॒ इरि॑ण॒ उप॑ दधाति प्रद॒रे
वै॒तद्वै निर्ऋ॑त्या आ॒यत॑नँ॒ स्व ए॒वाऽऽयत॑ने॒
निर्ऋ॑तिं नि॒रव॑दयते शि॒क्य॑म॒भ्युप॑ दधाति
नैतो वै षाशः॑ सा॒क्षादे॒वैनं॑ नितिपा॒शा-
न्मु॑ञ्चति ति॒स्र उप॑ दधाति त्रेधाविहि॒तो वै
पुरु॑षो॒ यावा॑ने॒व पुरु॑ष॒स्तस्मा॒न्निर्ऋ॑ति॒मव
यजते॒ परा॑ची॒रुप॑ (३) द॒धा॒ति॒ परा॑चीमे॒-
वास्मा॒न्निर्ऋ॑तिं॒ प्र णु॑द॒तेऽप्र॑तीक्ष॒मा य॑न्ति॒
निर्ऋ॑त्या अ॒न्तर्हि॑त्यै मार्जयि॒त्वोप॑ तिष्ठन्ते
मेध्य॒त्वाय॒ गार्ह॑पत्य॒मुप॑ तिष्ठन्ते निऋतिलो॒क
ए॒व च॑रि॒त्वां पू॒ता देव॑लो॒कमु॒पाव॑र्तन्त॒ एक॒-
योप॑ तिष्ठन्त एक॒घैव यज॑माने वी॒र्यं॑ दधाति
नि॒वेश॑नः सं॒गम॑नो॒ वसू॑ना॒मित्या॑ह प्र॒जा वै
प॒शवो॒ वसु प्र॒जयै॒वैनं॑ प॒शुभिः॒ सम॑र्धयन्ति
(४)॥
(ऋ॒तुभि॒रेषा परा॑ची॒रुपा॒ष्टाच॑त्वारिँ शच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
द्वितीयप्रपाठकेः चतुर्थोऽनुवाकः॥ ४॥
[[2317]]
प्रपा. २ अनु. ५) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(क्षेत्रकर्षणम्)