(अथ पञ्चमाष्टके द्वितीयप्रपाठके तृतीयोऽनुवाकः)।
याव॑ती॒ वै पृ॑थि॒वी तस्यै॑ य॒म आधि॑पत्यं॒
[[2313]]
प्रपा. २ अनु. ३) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(गार्हण्त्यचयनम्)
परी॑याय॒ यो वै य॒मं दे॑व॒यज॑नम॒स्या अनि॑-
र्याच्या॒ग्निं चि॑नु॒ते य॒मायै॑नँ॒ स चि॑नु॒तेऽपेत-
त्य॒ध्यव॑साययति य॒ममे॒व दे॑व॒यज॑नम॒स्यै
नि॒र्याच्या॒ऽऽत्मने॒ऽग्निं चि॑नुत इष्व॒ग्रेण॒ वा
अ॒स्या अना॑मृतमि॒च्छन्तो॒ नाविन्द॒न्ते दे॒वा
ए॒तद्यजू॑रपश्य॒न्नपे॒तेति॒ य॒दे॒तेना॑ध्यवसा॒यय॑ति
(१) आ॑ मृत ए॒वाग्निं चि॑नुत॒ उद्ध॑न्ति॒
यदे॒वास्या॑ अमे॒ध्यं तदप॑ हन्त्य॒पोऽवो॑क्षति॒
शान्त्यै॒ सिक॑ता॒ नि व॑पत्ये॒तद्वा अ॒ग्नेर्वैश्वा॑न॒-
रस्य॑ रू॒पँ रू॒पेणै॒व वै॑श्वान॒रमव॑ रुन्ध॒
ऊषान्नि व॑पति॒ पुष्टि॒र्वा ए॒षा प्र॒जन॑नं॒ यदूषाः॒
पुष्ट्या॑मे॒व प्र॒जन॑ने॒ऽग्निं चि॑नु॒तेऽथो॑ सं॒ज्ञान॑
ए॒व सं॒ज्ञान॒ ह्ये॑तत् (२) प॒शू॒नां यदूषा॒
द्यावा॑पृथि॒वी स॒हाऽऽस्तां॒ ते वि॑य॒ति अ॑ब्रूता॒-
मस्त्वे॒व नौ॑ स॒ह य॒ज्ञिय॒मिति॒ यद॒मुष्या॑ य॒ज्ञि-
य॒मासी॒त्तद॒स्याम॑दधा॒त्त ऊषा॑ अभव॒न्यद॒स्या
य॒ज्ञिय॒मासी॒त्तद॒मुष्या॑मदधा॒त्तद॒दश्च॒न्द्रमसि
कृ॒ष्णमृषा॑न्नि॒वप॑न्न॒दो ध्या॑ये॒द्द्यावा॑पृथि॒व्यो-
रे॒व य॒ज्ञिये॒ऽग्निं चि॑नुते॒ऽयँ सो अ॒ग्निरिति॑
वि॒श्वामि॑त्रस्य (३) सू॒क्तं भ॑वत्ये॒तेन॒ वै
वि॒श्वामि॑त्रो॒ऽग्नेः प्रि॒यं धामावा॑रुन्धा॒ग्नेरे॒-
वैतेन॑ प्रि॒यं धामाव॑ रुन्धे॒ छन्दो॑भि॒र्वै दे॒वाः
[[2314]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—-(५ पञ्चमकाण्डे—
(गार्हपत्यचयनम्)
सु॑व॒र्गं॑ लो॒कमा॑य॒न्च(ञ्च)त॒स्त्रः॑ प्राची॒रुप॑
दधाति च॒त्वारि॒ छन्दाँ॑ सि॒ छन्दो॑भिरे॒व
तद्यज॑मानः सुव॒र्ग लोकमे॑ति॒ तेषाँ॑ सुव॒र्गं
लो॒कं य॒तां दिशः॒ सम॑ब्लीयन्त॒ ते द्वे पु॒र-
स्ता॑त्स॒मीची॒ उपा॑दधत॒ द्वे (४) प॒श्चा-
त्स॒मीची॒ ताभि॒र्वै ते दिशो॑ऽदृँ ह॒व्यद्द्वे पु॒र-
स्ता॑त्स॒मीची॑ उप॒दधा॑ति॒ द्वे प॒श्चात्स॒मीची॑
दि॒शां विधृ॑त्यां॒ अथो॑ प॒शवो॒ वै छन्दाँ॑ सि
प॒शूने॒वास्मै॑ स॒मीचो॑ दधात्य॒ष्टावुप॑ दधात्य॒-
ष्टक्ष॑रा गाय॒त्री गा॑य॒त्रो॑ऽग्निर्यावा॑ने॒वाग्निस्तं
चि॑नुते॒ऽष्टावुप॑ दधात्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्री
सु॑व॒र्गं लो॒कमञ्ज॑सा वेद सुव॒र्गस्य॑ लो॒कस्य॑
(५) प्रज्ञा॑त्यै॒ त्रयो॑दश लोकंपृ॒णा उप॑द
धा॒त्येकविँ शतिः॒ सं प॑द्यन्ते प्रति॒ष्ठा वा
ए॑कविँ॒ शः प्र॑ति॒ष्ठा गार्ह॑पत्य एकविँ॒ श
स्यै॒व प्र॑ति॒ष्ठां गार्ह॑पत्य॒मनु॒ प्रति॑ तिष्ठति॒
प्रत्य॒ग्निं चि॑क्या॒नस्ति॑ष्ठति॒ य ए॒वं वेद॒
पञ्च॑चितीकं चिन्वीत प्रथ॒मं चि॑न्वा॒नः
प्राङ्क्तो॑ य॒ज्ञः प्राङ्क्ताः प॒शवो॑ य॒ज्ञमे॒व
प॒शूनव॑ रुन्धे॒ त्रिचि॑तीकं चिन्वीत द्वि॒तीयं॑
चिन्वा॒नस्त्रय॑ इ॒मे लो॒का ए॒ष्वे॑व लो॒केषु॑
(६) प्रति॑ तिष्ठ॒त्येक॑चितीकं चिन्वीत
तृ॒तीयं॑ चिन्वा॒त ए॑क॒धा धै सु॑व॒र्गो लो॒क
[[2315]]
प्रपा. २ अनु. ४) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(उख्याग्निसंक्पनम्)
ए॑क॒वृतै॒व सुव॒र्गं लो॒कमे॑ति॒ पुरीषणा॒भ्यु॑हति॒
तस्मा॑न्माँ॒ सेनास्थि॑ छ॒न्नं न दु॒श्चर्मा भवति॒
य ए॒वं वेद॒ पञ्च॒ चित॑यो भवन्ति प॒ञ्चभिः॒
पुरी॑षरै॒भ्यू॑हति॒ दश॒ संप॑द्यन्ते॒ दशा॑क्षरा वि॒रा —
डन्नं॑ वि॒राड्वि॒राज्ये॒वान्नाद्ये॒ प्रति॑ तिष्ठति
(७)॥
(अ॒ध्य॒व॒सा॒य॑यति॒ ह्ये॑तद्वि॒श्वामि॑त्रस्यादधत॒ द्वे लो॒कस्य॑ लो॒केषु॑
स॒प्तच॑त्वारिँ शच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
द्वितीयप्रपाठके तृतीयोऽनुवाकः॥३॥