(अथ पञ्चमाष्टके द्वितीयप्रपाठके द्वितीयोऽनुवाकः)।
अन्न॑प॒तेऽन्न॑स्य नो दे॒हीत्या॑हा॒ग्निर्वा अन्न॑
[[2311]]
प्रपा. २ अनु. २) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(उख्याग्निनयनम्)
पतिः स ए॒वास्मा॒ अन्नं॒ प्रय॑च्छत्यनमी॒वस्य॑
शु॒ष्मिण॒ इत्या॑हाय॒क्ष्मस्येति॒ वावैतदा॑ह॒ प्र
प्र॑दा॒तरं॑ तारिष॒ ऊर्जं॑ नो धेहि द्वि॒पदे॒ चतु॑ —
ष्पद॒ इत्या॑हा॒ऽऽशिष॑मे॒वैतामा शा॑स्त उदु॑ त्वा॒
विश्वे॑ दे॒वा इत्या॑ह प्रा॒णा वै विश्वे॑ दे॒वाः
(१) प्रा॒णैरे॒वैन॒मुद्य॑च्छ॒तेऽग्ने॒ भर॑न्तु॒ चित्ति॑-
भि॒रित्या॑ह॒ यस्मा॑ ए॒वैनं॑ चि॒त्तायो॒द्यच्छ॑ते॒
तेनै॒वैनँ॒ सम॑र्धयति चत॒सृभि॒रा सा॑दयति
च॒त्व रि॒ छन्दाँ॑ सि॒ छन्दोभिरे॒वाति॑च्छन्द
सोत्त॒मया॒ वर्ष्भ॒ वा एषा छन्द॑मां॒ यदति॑ —
च्छन्दा॒ वर्ष्मै॒वैनँ॑ समा॒नानां॑ करोति॒ सद्व॑ती
भवति स॒त्त्वमे॒वैनं॑ गमयति॒ प्रे॑दग्ने॒ ज्योति॑ —
ष्मान् (२) या॒हीत्या॑ह॒ ज्योति॑रे॒वास्मि॑न्द —
धाति त॒नुवा॒ वा ए॒ष हि॑नस्ति॒ यँ हि॒नस्ति॒
मा हिँ॑सीस्त॒नुवा॑ प्र॒जा इत्या॑ह प्र॒जाभ्य॑
ए॒वैनँ॑शभयति॒ रक्षाँ सि॒ वा ए॒तद्य॒ज्ञँ
स॑चन्ते॒ यदन॑ उ॒त्सर्ज॒त्यक्र॑न्द॒दित्यन्वा॑ह॒ रक्ष॑ —
सा॒मप॑हत्या॒ अन॑सा वह॒न्त्यप॑चितिमे॒वास्मि॑ —
न्दधाति॒ तस्मा॑दन॒स्वी च॑ र॒थी चाति॑थी
ना॒म प॑चिततमौ (३ अप॑चितिमान्भवति॒
य ए॒वं वेद॑ स॒मिधा॒ऽग्निं दु॑वस्य॒तेति॑ घृता-
नुषि॒क्तामवसिते स॒मिधमा द॑धाति॒ यथाऽति॑
थय॒ आग॑ताय स॒र्पिष्व॑दाति॒थ्यं क्रि॒यते॑ ता॒दृ —
[[2312]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता—(५ पञ्चमकाण्डे—
(गार्हपत्यचयनम्)
गे॒व तद्वा॑यत्रि॒या ब्रा॑ह्म॒णस्य॑ गाय॒त्रो हि
ब्रा॑ह्म॒णस्त्रि॒ष्टुभा॑ राज॒न्य॑स्य॒ त्रैष्ट॑भो॒ हि रा॑ज॒-
न्यो॑ऽप्सु भस्म॒ प्र वे॑शयत्य॒प्सुयो॑नि॒र्वा अ॒ग्नि
स्वामे॒वैनं॒ योनिं॑ गमयति ति॒सृभिः॒ प्र वे॑श —
यति त्रि॒वृद्वै (४) अ॒ग्निर्यावा॑ने॒वाग्निस्तं
प्र॑ति॒ष्ठा ग॑मयति॒ परा॒ वा ए॒षो॑ऽग्निं व॑पति॒
यो॑ऽण्सु भस्म॑ प्रवे॒शय॑ति॒ ज्योति॑ष्मतीभ्या॒मव॑
दधाति॒ ज्योति॑रे॒वास्मिन्दधाति॒ द्वाभ्यां॒ प्रति॑
ष्ठित्यै॒ परा॒ वा ए॒ष प्र॒जां प॒शून्व॑पति॒ यो॑ऽप्सु
भस्म॑ प्रवे॒शय॑ति॒ पु॒न॑रू॒र्जा स॒ह र॒य्येति॒ पुन॑ —
रु॒दैति॑ प्र॒जामे॒व प॒शूना॒त्मन्ध॑त्ते॒ पुन॑स्त्वाऽऽ
दि॒त्याः (५) रु॒द्रा वस॑वः॒ समि॑न्धता॒मि —
त्या॑है॒ता वा ए॒तं दे॒वता॒ अग्रे॒ समै॑न्धत॒ ताभि —
रे॒वैनँ॒ समि॑न्धे॒ बोधा॒ स बो॒धीत्युप॑ तिष्ठते
बो॒धय॑त्ये॒वैनं॒ तसमा॑त्सु॒प्त्वा प्र॒जाः प्र बु॑ध्यन्ते
यथास्था॒नमुप॑ तिष्ठते॒ तस्मा॑द्यथास्था॒नं
प॒शवः॒ पुन॒रेत्योप॑ तिष्ठन्ते (६)॥
(वै विश्वे॑ दे॒वा ज्योति॑ष्मा॒नप॑चिततमौ त्रि॒वृद्वा आ॑दि॒त्या द्विच॑त्वारिँशच्च)
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
द्वितीयप्रपाठके द्वितीयोऽनुवाकः॥ २॥