(तत्र प्रथमोऽनुवाकः)।
ह॒रिः॒ ॐ।
*विष्णु॑मुखा वै दे॒वाश्छन्दो॑भिरि॒माल्लोँ॒कान॑-
नपज॒य्यम॒भ्य॑जय॒न्यद्वि॑ष्णुक्र॒मान्क्रम॑ते॒ विष्णु॑-
रे॒व भू॒त्वा यज॑मान॒श्छन्दो॑भिरि॒माल्लोँ॒कान॑-
नत॒जय्यम॒भि ज॑यति॒ विष्णोः॒ क्रमो॑ऽस्यभि-
माति॒हेत्या॑ह गाय॒त्री वै पृ॑थि॒वी त्रैष्टु॑भम॒न्त-
रि॑क्षं॒ जाग॑ती॒ द्यौरानु॑ष्टुभी॒र्दिश॒श्छन्दोभिरे॒वे-
माल्लोँकान्य॑थापू॒र्वम॒भि ज॑यति प्र॒जाप॑तिर॒ग्नि-
म॑सृजत॒ सो॑ऽस्मान्सृष्टः (१) परा॑ङै॒त्तमे॒-
तयाऽन्व॒दक्र॑न्द॒दिति॒ तया॒ वै सो॑ऽग्नेः प्रि॒यं
धामावा॑रुन्ध यदे॒ताम॒न्वाहाग्नेरे॒वैतया॑ प्रि॒यं
*एतदाद्यनुवाक्दशकं चतुर्थकाण्डगद्वितीयप्रपाठकतृतीयप्रपाठकस्थानुवाकत्रयव्याख्यानेन सह व्याख्यात्तत्वादत्र पुनर्न व्याख्यातं भाष्यकृता। अतस्तद्व्याख्यानं तत्रैव द्रष्टव्यम् एतदनुवाकदशकविषयाणां संक्षेपेण प्रदर्शनमेकादशानुवाकभाष्यारम्भ भष्याकृतैव कृतमस्ति तदग्ने तत्र द्रष्टव्यम्।
[[2309]]
प्रपा. २ अनु. १) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(आसन्द्यां वह्निस्थापनं वात्सप्रेणोपस्थानं च)
धामाव॑ रुन्ध ईश्व॒रो वा ए॒ष परा॑ङप्र॒दधो॒
यो वि॑ष्णुक्र॒मान्क्रम॑ते चत॒सृभि॒रा व॑र्तते
च॒त्वारि॒ छन्दाँ॑ सि॒ छन्दाँ॑ सि॒ खल॒ वा
अ॒ग्नेः प्रि॒या त॒नूः प्रि॒यामे॒वास्य॑ तनुव॑म॒भि
(२) प॒र्याव॑र्तते दक्षि॒णा प॒र्याव॑र्तते॒ स्वमे॒व
वी॒र्य॑मनु॑ प॒र्याव॑ ते॒ तस्मा॒द्दक्षि॒णोर्ध॑ आ॒त्मनो॑
वी॒य॑वित्त॒रोथो॑ आदि॒त्यस्यै॒वावृत॒मनु॑
प॒र्याव॑र्तते॒ शुनः॒शेप॒माजी॑गर्तिं॒ वरु॑णोगृ-
ह्वा॒त्स ए॒तां वा॑रु॒णीम॑पश्य॒त्तया॒ वै स आ॒-
त्मानं॑ वरुणपा॒शाद॑मुञ्च॒द्वरु॑णो॒ वा ए॒तं
गृ॑ह्णाति॒ य उ॒खां प्र॑तिमु॒ञ्चत॒ उदु॑त्त॒मं
व॑रुण॒ पाश॑म॒स्मदित्या॑हा॒ऽऽत्मान॑मे॒वैतया॑
(३) व॒रु॒ण॒पा॒शान्मु॑ञ्च॒त्या त्वा॑ऽहार्ष॒मि-
त्या॒हाऽऽ ह्ये॑नँ॒ हर॑ति ध्रु॒वस्ति॒ष्ठावि॑चाच-
लि॒रित्या॑ह॒ प्रति॑ष्ठित्यै॒ विश॑स्त्वा॒ सर्वा॑ वाञ्छ॒-
न्त्वित्या॑ह वि॒शैवैनँ॒ सम॑र्धयत्य॒स्मिन्रा॒ष्ट्र-
मधि॑ श्र॒येत्या॑ह रा॒ष्ट्रमे॒वास्मि॑न्ध्रु॒वम॑क॒र्यं
का॒मये॑त रा॒ष्ट्रँ स्या॒दिति॒ तं मन॑सा ध्याये-
द्राष्ट्रमे॒व भ॑वति (४) अग्रे॑ बृ॒हन्न॒षसा॑मू॒र्ध्वो
अ॑स्था॒दित्या॒हाग्र॑मे॒वैनँ॑ समा॒नानां॑ करोति
निर्जग्मि॒वान्तम॑स इत्या॑ह तम॑ ए॒वास्मा॒दप॑
हन्ति॒ ज्योति॒षाऽगा॒दित्या॑ह॒ ज्योति॑रे॒वास्मि-
[[2310]]
श्रीत्सायणाचार्यविरचितभाष्यसमेता — (५पञ्चमकाण्डे-
(उख्याग्निनयन्म्)
न्दधाति चत॒सृभिः॑ सादयति च॒त्वारि॒ छन्दा॑-
ँसि॒ छन्दो॑भिरे॒वातिच्छन्दसोत्त॒मया॒ वर्ष्म॒
वा ए॒षा छन्द॑सां॒ यदति॑च्छन्दा॒ वर्ष्मै॒वैनँ॑
समा॒नानां॑ करोति॒ सद्व॑ती (५) भ॒व॒ति॒ स॒त्त्व-
मे॒वैनं॑ गमयति वात्स॒प्रेणो॑प तिष्ठत ए॒तेन॒ वै
व॑त्स॒प्रीभ॑लिन्द॒नो॑ऽग्नेः प्रि॒यं धामावा॑रुन्धा॒-
ग्नेरे॒वैतेन॑ प्रि॒यं धामाव॑ रुन्ध एकाद॒शं भ॑व-
त्येक॒ धैव यज॑माने वी॒र्यं दधाति॒ स्तोमे॑न॒ वै
दे॒वा अ॒स्मिल्लोँ॒क आ॑र्ध्नुव॒न्छन्दो॑भिर॒मुष्मि॒-
न्त्स्तोम॑स्येव॒ खलु॒ वा ए॒तद्रू॒पं यद्वा॑त्स॒प्रं
यद्वात्सप्रेणोपतिष्ठ॑ते (६) इ॒ममे॒व तेन॑ लो॒क-
म॒भि ज॑यति॒ यद्वि॑ष्णुक्र॒मान्क्रम॑ते॒ऽमुमे॒व
तैर्लो॒कम॒भि ज॑यति पू॒र्वेद्युः प्र का॑मत्युत्तरे॒
द्युरुप॑ तिष्ठते॒ तस्मा॒द्योगे॒ऽन्यासां॑ प्र॒जानां॒
मनः॒ क्षेमे॒ऽन्यासां॒ तस्मा॑द्यायाव॒रः क्षे॒म्यस्यैशे॒
तस्मा॑द्यायाव॒रः क्षे॒म्यम॒ध्यव॑स्यति भुष्टी
क॑रोति॒ वाचं॑ यच्छति य॒ज्ञस्य॒ धृत्यै॑(७)॥
(सृ॒ष्टो॑ऽभ्ये॑तया॑ भवति॒ सद्व॑त्यु॒पतिष्ठ॑ते॒ द्विच॑त्वारिँ शच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
द्वितीयप्रपाठके प्रथमोऽनुवाकः॥ १॥