११

(अथ पञ्चमाष्टके प्रथमप्रपाठक एकोदशोऽनुवाकः)।
समिद्धो॑ अ॒ञ्जन्कृद॑रं मती॒नां घृ॒तम॑ग्ने॒ मधु॑-
म॒त्पिन्व॑मानः। वा॒जी वह॑न्वा॒जिनं॑ जातवेदो
दे॒वानां॑ वक्षि प्रि॒यमा स॒धःस्थ॑म्। घृ॒तेना॒-
ञ्जन्त्सं प॒थो दे॑वया॒ना॑न्प्रजा॒नन्वा॒ज्यप्ये॑तु
दे॒वान्। अ॑नु त्वा सप्ते प्र॒दिशः॑ सचन्ताँ
स्व॒धाम॒स्मै यज॑मानाय धेहि। ईड्य॒श्चासि॒
वन्द्य॑श्च वाजिन्ना॒शुश्चासि॒ मेध्य॑श्च सप्ते।
अ॒ग्निष्ट्वा॑ (१) दे॒वैर्वसु॑भिः स॒जोषाः॑ प्री॒तं
वह्निं वहतु जा॒तवे॑दाः। स्ती॒र्णे व॒र्हिः सु॒ष्ट

[[2303]]

प्रपा. १ अनु. ११) कृष्णायजुर्वेदीयतैत्तिरीयसंहिता।
(अश्वमेधसंबन्धिप्रयाजयाज्याभिधानम्)
री॑मा जुषा॒णोरु पृ॒थु प्रथ॑मानं पृथिव्याम्।
दे॒वेभि॑र्यु॒क्तमदि॑तिः स॒जोषाः॑ स्यो॒नं कृ॑ण्वा॒ना
सु॑वि॒ते द॑धातु। ए॒ता उ॑ वः सु॒भगा॑ वि॒श्व-
रू॑पा॒ वि पक्षो॑भिः॒ श्रय॑माणा॒ उदातैः॑।
ऋ॒ष्वाः स॒तीः क॒वषः॒ शुम्भ॑माना॒ द्वारो॑ दे॒वीः
सु॑प्राय॒णा भ॑वन्तु। अ॒न्त॒रा मि॒त्रावरु॑णा॒
चर॑न्ती॒ मुखं॑ यज्ञाना॑म॒भि सं॑विदा॒ने। उ॒षासा
वाम् (२) सु॒हि॒र॒ण्ये सु॑शि॒ल्पे ऋ॒तस्य॒
योना॑विचह सा॑दयामि। प्र॒थ॒मा वाँ॑ सर॒थिना॑
सु॒वर्णा॑ दे॒वौ पश्य॑न्तौ॒ भुव॑नानि॒ विश्वा॑।
अपि॑प्रयं॒ चोदना वां॒ मिमा॑ना॒ होता॑रा॒
ज्योतिः॑ प्र॒दिशा॑ दि॒शन्ता॑। आ॒दि॒त्यैर्नौ॒ भार॑ती
वष्टु य॒ज्ञँ सर॑स्वती स॒ह रु॒द्रैर्न॑ आवीत्।
इडोप॑हूता॒ वसु॑भिः स॒जोषा॑ य॒ज्ञं नो॑ देवीर॒-
मृते॑षु धत्त। त्वष्टा॑ वी॒रं दे॒वका॑मं जजान॒
त्वष्टु॒रर्वा॑ जायत आ॒शुरश्वः (३) त्वष्टे॒दं
विश्वं॒ भुय॑नं जजान ब॒होः क॒र्तार॑मि॒ह य॑क्षि
होतः। अश्वो॑ घृ॒तेन॒ त्मन्या॒ सम॑क्त॒ उप॑
दे॒वाँ ऋ॑तु॒शः पाथ॑ एतु। वन॒स्पति॑र्देवलो॒कं
प्र॑जा॒नन्न॒ग्निना॑ ह॒व्या स्व॑दि॒तानि॑ वक्षत्।
प्र॒जापते॒स्तप॑सा वावृधानः स॒द्यो जा॒तो
द॑धिषे य॒ज्ञम॑ग्ने। स्वाहा॑कृतेन ह॒विषा॑ पुरोगा
या॒हि सा॒ध्या ह॒विर॑दन्तु दे॒वाः (४)॥

[[2304]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (५ पञ्चमकाण्डे-
(अश्वमेधसंबन्धिप्रयाजयाज्याभिधानम्)
(अ॒ग्निष्ट्वा॑ वा॒मश्वो॒ द्विच॑त्वारिँशच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
प्रथमप्रपाठक एकादशोऽनुवाकः॥११॥


सा॒वि॒त्राणि॒ व्यृ॑द्धमुत्क्रा॑म दे॒वस्य॑ खनति क्रू॒रं वा॑रुणः स॒प्तभि॒रेक॑विँशत्या ष॒ड्भिर्न ह॑ स्म॒ समि॑द्धो अ॒ञ्जन्नेका॑दश॥११॥
सा॒वि॒त्राण्युत्क्रा॑म क्रू॒रं वा॑रु॒णः प॒श॑वः स्यु॒र्न ह॑ स्म॒ नव॑-
पञ्चा॒शत्॥५९॥
हरिः॑ ॐ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
प्रथमः प्रपाठकः॥१॥


इति कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
पञ्चमः काण्डः।


(तत्र प्रथमप्रपाठके प्रथमाद्येकादशान्ता अनुवाकाः)।
यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत्।
मिर्महे तमहं वन्दे विद्यातीर्थमहेश्वरम्॥
चतुर्थकाण्जे चित्यर्थमन्त्राः सर्वत्र वर्णिताः।
ब्राह्मणं पञ्चमे काण्डे तत्र सप्त प्रपाठकाः॥
मन्त्रव्याख्या चतुर्थादौ शिष्टमौपानुवाक्यगम्।
एकादशानुवाकाः स्युराद्येऽर्थास्त्वेवमीरिताः॥
सावित्राहुतिरभ्रेश्च स्वीकारः प्रथमे भवेत्।
द्वितीये मृत्खनं गच्छन्नश्वेनाऽऽक्रमयेद्भुवम्॥

[[2305]]

प्रपा. १ अनु. ११) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अश्वमेधसंबन्धिप्रयाजयाज्याभिघानम्)
तृतीये तूत्क्रमय्याश्वं भूसंस्कारो जलादिभिः।
चतुर्थे तु मृदं खात्वा संभरेच्चर्मपत्रयोः॥
पञ्चमे संभृतामेतां यज्ञभूमौ समाहरेत्।
षष्ठे तूखां निर्मिमीत सप्तमे संस्करोति ताम्॥
अष्टमे पशवो वह्नेरुख्यस्य नवमे जनिः।
उख्यं दधीत दशमे स्यादन्त्यश्चाऽऽश्वमेधिकः॥
अध्येतुमनुवाकोऽत्र प्रोक्त उत्कृष्यतां ततः।
समिद्ध इत्येवमाद्या अश्वस्याऽऽप्रिय ईरिताः॥
आप्रियः स्युः प्रयाजानां याज्या एकादशात्र ताः।
अश्वमेधाख्यकाण्डे ता विनियुक्ताः स्फुटं श्रुतप्॥

एवं हि श्रूयते- “ समिद्धो अञ्जन्कृदरं मतीनामित्यश्वस्याऽऽप्रियो भवन्ति सरुपत्वाय ” इति। तत्र प्रथमामृचमाह-
समिद्धो अञ्जन्निति। हे जातवेदोऽग्ने वाजिनमश्वं वहन्वह देवान्प्रापये-
त्यर्थः। कीदृशोऽग्निः, समिद्धः सम्यक्प्रदीप्तः। वाज्यन्नवानन्नसंपादक इत्यर्थः। किं कुर्वन्, मतीनां कृदरमञ्जन्। कृदरशब्दो धान्यानामावापनं कुसुलादिकमा- चष्टे। मतीनामभिज्ञानां कृदरं कुसूलस्थानीयं त्वक्स्वरूपमञ्जन्प्रकाशयन्। मधु-मन्मधुरं घृतं पिन्वमानः पिवन्। तथा देवार्थं सर्वाणि हवींषि वहन्। कीदृशं वाजिनं, देवानां प्रियं प्रीतिहेतुम्। आसधःस्थं सर्वतः पश्चन्तरैः सह स्थितम्। अंत एवाश्वमेधकाण्डे समाम्नास्यते-“ आग्नेयं कृष्णग्रीवं पुरस्ताल्ललाटे ” इत्यादि। अथ द्वितीयामृचमाह-
घृतेनाञ्जन्निति। अयं वाजी देवानप्येतु प्राप्नोतु। किं कुर्वन्,घृतेन स्वस्योपरिभूतेनाऽऽज्येन देवयानान्पथो देवलोकस्थितान्मार्गान्समञ्जन्सम्यग्द्रवी- कुर्वन्। प्रजानंस्तेन घृतलाञ्छनेन मार्गो यथा ज्ञायते तथा कुर्वन्। हे सप्तेऽश्व प्रदिशः प्रकृष्टाः सर्वा दिशस्त्वा त्वामनुसृत्य सचन्तां, सर्ववेत्त्र्यो भवन्तु देवप्रा- प्तावानुकूल्यमेव कुर्वन्तु। त्वं चास्मै यजमानाय स्वधां स्वधाकारोपलक्षितमन्नं धेहि संपादय। अथ तृतीयामृचमाह-ईड्याश्चासीति।

[[2306]]

हे वाजिन्नश्व त्वमस्माभिरीड्यश्च स्तोतव्यश्च वन्द्यश्च नम्स्कार्यश्चासि। हे सप्तेऽश्वाऽऽशुश्च शीघ्रागामी च मेध्यश्च यागयोग्यश्चासि। जातवेदा अग्निस्त्वा त्वां वहतु देवान्प्रापयतु। कीदृशोऽग्निः, वसुभिर्जगन्निवासहेतुभिर्देवैः सजोषाः समा-नप्रीतिः। कीदृशं त्वां प्रीतं प्रीतिविषयं वह्निं वोढारम्।
अथ चतुर्थीमृचमाह-
स्तीर्णे बर्हिरिति। अदितिर्भूमिदेवी सुविते शोभनप्राप्तियोग्ये स्थाने दधा-त्वश्वं स्थापयतु। कीदृश्यदितिः, बर्हिर्जुषाणा दर्भे पूर्ण सेवमाना। कीदृशं बर्हिः, स्तीर्णं संज्ञापनायाश्वं शाययितुमास्तीर्णं, सुष्टरीम सुष्ठु स्तरणयोग्यं, पृथिव्यां भूमावुरु बहुलं यथा भवति तथा, पृथ्वतिविस्तृतं यथा भवति तथा प्रथमानं प्रसारितम्। तथेयमादितिर्देवेभिः सर्वैर्देवैः सजोषाः समानप्रीतिः। तथा युक्तं योग्यं स्योनं सुखकरं स्थानं कृण्वाना कुर्वती। अथ पञ्चमीमृचमाह-
एता उ व इति। एता अपि द्वारो देवीर्द्वाराख्या देव्यः सुप्रायणा भवन्तु सुष्ठवस्याश्वस्य प्रापिका भवन्तु। कीदृश्यो देव्यः, वो युष्माकमृत्विग्यजमानानां सुभगाः सौभाग्यप्रदा विश्वरूपा बहुविधरूपयुक्ता आतैरातानि सततगमनसाधनानि वाहनानि तैः पक्षोभिः पक्षस्थानीयैर्गतर्विशेषेणोच्छ्रायमाणा ऊर्ध्वं गच्छन्त्य् ऋष्वाः सतीर्गमनागमनयोग्याः सत्यः कवषः कवाटैः शुम्भमानाः शोभमानाः। द्वाराभिमानिन्यो हि देव्यः कपाटसमीपे वर्तमानाः शोभन्ते।
अथ षष्ठीमृचमाह-
अन्तरा मित्रावरुणेति। हे उषासोपःशव्दोपलक्षिते अहोरात्रे देवते त्वां युवामृतस्य योनौ यज्ञस्य कारण इहाश्वे सादयामि स्थापयामि। कीदृश्यावहो-रात्रदेवते, मित्रावरुणरूपे। अत एवान्यत्राऽऽम्नातम्- मैत्रं वा अहः। वारुणी रात्रिः, इति। अन्तरा चरन्ती ब्रह्माण्डस्य मध्ये वर्तमाने यज्ञानां मुखमभि संविदाने यज्ञप्रारम्प्रमभिलक्ष्य परस्परमैकमत्ययुक्ते सुहिरण्ये शोभनहिरण्यवतस्तूर्य-चन्द्रप्रकाशयुक्ते सुशिल्पे सर्वव्यवहारहेतुत्वेन शोभनैः शिल्पैरुपेते।
अथ सप्तमीमृचमाह-
प्रथमा वामिति। हे दंपती यजमानपत्न्यौ वां युवयोरर्थे होतारा देवानां

[[2307]]

प्रपा. १ अनु. ११) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अश्वमेधसंबंन्धिप्रयाजयाज्याभिधानम्)
मध्ये यौ होतारौ तावुभावपिप्रयं प्रीणयामि। कीदृशौ, प्रथमा प्रथमौ मुख्यौ-सरथिना समान एको रथः सरभस्तद्वन्तौ, सुवर्णा शोभनवर्णोपेतौ, देवौ दीप्य, मानौ, विश्वा भुवनानि सर्वाल्ँ लोकान्पश्यन्तौ, वां चोदना मिमाना युवयोर्विहितानि कर्माणि प्रमितवन्तौ, प्रदिशा प्रकृष्टासु दिक्षु ज्योतिर्दिक्षन्ता स्वकीयं प्रकाशं प्रसारयन्तौ। अथाष्टमीमृचमाह-
आदित्यैर्न इति। भारती भारत्याख्या देव्यादित्यैः सह नोऽस्मदीयं यज्ञं
वष्टु कामयताम्। सरस्वती सरस्वत्याख्या देवी रुद्रैः सह नोऽस्मानावीद्रक्षतु। इडाख्या देवी वसुभिः सह सजोषा समानप्रीतिरुपहूताऽनुज्ञाता सत्यस्मानवतु। देवीर्हे देव्यः सर्वं नोऽस्मदीयं यज्ञममृतेषु मरणरहितेषु देवेषु धत्त स्थापयत।
अथ नवमीमृचमाह-त्वष्टा वीरमिति।
त्वष्टा त्वष्टृनामको देवो देवकामं देवान्कामयमानं वीरं कर्मसु शूरं पुत्रं जजानोत्पादयामास। स त्वष्टुः सकाशादर्वा गमनकुशल आशुः शीघ्रगान्यश्वो जायते। किं बहुना त्वष्टेदं विश्वं भुवनं सर्वमपि सोकं जज्ञान जनयामास। हे होतर्बहोर्बहुलस्य जगतः कर्तारं स्रष्टारमिहास्मिन्कर्मणि यक्षि यज।
अथ दशमीमृचमाह-
अश्वो घृतेनेति। अयमश्वसत्मन्याऽऽत्मना स्वयमेव घृतेन समक्तो घृताक्त इव रुचिकरः सन्पाथो देवातामन्नं भूत्वर्तुशस्तत्तदृतुकाले देवानुपैतु प्राप्नोतु। वनस्पतिरतन्नामको देवो देवलोकं प्रजानन्प्रकर्षेणावगच्छन्नग्निना सह स्वदितानि हव्या स्वादुभूतानि हवींषि वक्षद्वहतु देवान्प्रापयतु। अथैकादशीमृचमाह
प्रजापतेरिति। हेऽग्ने त्वं प्रजापतेर्जगदीश्वरस्य तपसा पर्यालोचनेन वावृ-धानो वर्धमानस्त्वं जात उत्पन्नमात्रः सद्यस्तदानीमेव यज्ञं दधिषे धारयसि। स्वाहाकृतेन स्वाहाकारसमर्पितेन हविषा सह पुरोगा अग्रेता गच्छन्याहि देवा-न्प्राप्नुहि। साध्या अस्माभिः साधनीयाः पूजनीया देवा इदमस्पाभिः समर्पितं हविरदन्तु भक्षयन्तु। अत्र विनियोगसंग्रहः-
समिद्ध इत्याप्रियः स्युरश्वस्यैकादशोदिताः।
इति श्रीमत्सायणार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-
दीयतैत्तिरीयसंहिताभाष्ये पञ्चमकाण्डे प्रथमप्रपाठके
प्रथमाद्येकादशान्ता अनुवाकाः।१-११॥

[[2308]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (५ पञ्चमकाण्डे-
(आसन्द्यां वह्निस्थापनं वात्सप्रेणोपस्थानं च)
वेदार्थस्य प्रकाशेन तमो हांर्द निवारयन्।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमेश्वरः॥
इति श्रीमद्विद्यातीर्थमहेश्वरापरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य
श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधवाचार्येण विर-
चिते वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
पञ्चमकाण्डे प्रथमः प्रपाठकः॥१॥