०९

(अथ पञ्चमाष्टके प्रथमप्रपाठके नवमोऽनुवाकः)।
ष॒ड्भिर्दी॑क्षयति॒ षड्वा ऋत॒व॑ ऋ॒तुभि॑रेवै॒नं॑
दीक्षयति स॒प्तमिर्दीक्षयति स॒प्त छन्दाँ॑सि॒
छन्दो॑भिरे॒वैनं॑ दीक्षयति॒ विश्वे॑ दे॒वस्य॑ ने॒तुरि-
त्य॑नु॒ष्टुभो॑त्त॒मया॑ जुहोति॒ वाग्वा अ॑नु॒ष्टुप्त-
स्मा॑त्प्रा॒णानां॒ वागु॑त्त॒मैक॑स्माद॒क्षरा॒दना॑प्तं
प्रथ॒मं प॒दं तस्मा॒द्यद्वा॒चोऽना॑प्तं॒ तन्म॑नु॒ष्या॑
उप॑ जीवन्ति पूर्णया॑ जुहो॒ति पूर्ण इ॑व॒ हि
प्र॒जाप॑तिः (१) प्रजाप॑ते॒राप्त्यै॒ न्यू॑नया

[[2299]]

प्रपा० १ अनु ९) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(उख्यस्य जननम्)
जुहोति॒ न्यू॑ना॒द्धि प्र॒जाप॑तिः प्र॒जा असृजत
प्र॒जानाँ॒ सृष्ट्यै॒ यद॒र्चिषि॑ प्रवृ॒ञ्ज्याद्भू॒तपव॑
रुन्धीत॒ यदङ्गा॑रेषु भवि॒ष्यदङ्गा॑रेषु प्र वृ॑णक्ति
भवि॒ष्यदे॒वाव॑ रुन्धे भवि॒ष्यद्धि भूयो॑ भू॒ताद्-
द्वाभ्यां॒ प्र वृणक्ति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्यै॒
ब्रह्म॑णा॒ वा ए॒षा यजु॑षा॒ संभृ॑ता॒ यदु॒खा सा
यद्भिद्ये॒ताऽऽर्ति॒मार्छेत् (२) यज॑मानो
ह॒न्येता॑स्य य॒ज्ञो मित्रै॒तामु॒खां त॒पेत्या॑ह॒ ब्रह्म॒
वै मि॒त्रो ब्रह्म॑न्ने॒वैनां॒ प्रति॑ ष्ठापयति॒ नाऽऽ-
र्ति॒मार्छ॑ति॒ यज॑मानो॒ नास्य॑ य॒ज्ञो ह॑न्यते॒
यदि भिद्ये॑त॒ तैरे॒व क॒पालैः॒ सँ सृ॑जे॒त्सैव
ततः॒ प्राय॑श्वित्ति॒र्यो ग॒तश्रीः॒ स्यान्म॑थि॒त्वा
तस्याव॑ दध्याद्भु॒तो वा ए॒ष स स्वाम् (३)
दे॒वता॒मुपैति॒ यो भूति॑कामः स्याद्य उ॒खायै॑
सं॒भवे॒त्स ए॒व तस्य॑ स्या॒दतो॒ ह्ये॑ष सं॒भव॑त्ये॒ष
वै स्व॑यं॒भूर्नाम॒ भव॑त्ये॒व यं का॒मये॑त॒ भ्रातृ॑-
व्यमस्मै जनयेय॒मित्य॒न्यत॒स्तस्या॒ऽऽहृत्याव॑
दध्यात्सा॒क्षादे॒वास्मै॒ भ्रातृ॑व्यं जनयत्यम्ब॒री-
षा॒दन्न॑काम॒स्याव॑ दध्यादम्ब॒रीषे॒ वा अन्नं॑
भ्रिय॒ते॒ सयो॑न्ये॒वान्न॑म् (४) अव॑ रुन्धे॒
मुञ्जा॒नव॑ दधा॒त्यूर्ग्वै मुञ्जा॒ ऊर्ज॑मे॒वास्मा॒
अपि॑ दधात्य॒ग्निर्दे॒वेभ्यो॒ निला॑यत॒ स क्रु॑मु॒कं

[[2300]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (५ पञ्चमकाण्डे-
(उख्यधारणम्)
प्रावि॑शत्क्रुमु॒कमव॑ दधाति॒ यदे॒वास्य॒ तत्र॒
न्यक्तं॒ तदेवाव॑ रुन्ध॒ आज्ये॑न॒ सं यौ॑त्ये॒तद्वा-
अ॒ग्नेः प्रि॒यं धाम॒ यदाज्यं॑ प्रि॒ये॑णै॒वैनं॒ धाम्ना॒
सम॑र्धय॒त्यथो॒ तेज॑सा (५) वैक॑ङ्कती॒मा
द॑धाति॒ भा एवाव॑रुन्धे शमी॒मयी॒मा द॑धाति॒
शान्त्यै॒ सीद॒ त्वं मा॒तुर॒स्या उ॒पस्थ॒ इति॑
ति॒सृभि॑र्जा॒तमुप॑ तिष्ठते॒ त्रय॑ इ॒मे लो॒का
ए॒ष्वे॑व लो॒केष्वा॒विदं गच्छ॒त्यथो॑ प्रा॒णाने॒-
वाऽऽत्मन्ध॑ते (६)॥
(प्र॒जाप॑तिच्छे॒त्स्वामे॒वान्नं॒ तेज॑सा॒ चतु॑स्त्रिँशच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
प्रथमप्रपाठके नवमोऽनुवाकः॥९॥