०८

(अथ पञ्चममाष्टके प्रथमप्रपाठकेऽष्टमोऽनुवाकः)।
एक॑विँ शत्या॒ माषैः॑ पुरुषशी॒र्षमच्छै॑त्य-
मे॒ध्या वै माषा॑ अमे॒ध्यं पु॑रुषशी॒र्षम॑मे॒ध्यैरे॒-
वास्या॑मे॒ध्यं नि॑रव॒दाय॒ मेध्यं॑ कृ॒त्वाऽऽह॑र॒-
त्येक॑विँ शतिर्भवन्त्येकविँ॒शो वै पुरु॑षः॒
पुरु॑ष॒स्याऽऽप्त्यै॒ व्यृ॑द्धं॒ वा ए॒तत्प्रा॒णै॑रमे॒ध्यं
यत्पु॑रुषशी॒र्षँ स॒प्त॒धा वितृ॑ण्णां वल्मीक-
व॒पां प्रति॒ निद॑धाति स॒प्त वै शीर्ष॒ण्याः॑
प्रा॒णाः प्रा॒णैरे॒वैन॒त्समंर्धयति मेध्य॒त्वाय॒
याव॑न्तः (१) वै मृ॒त्युबंन्धव॒स्तेषां॑ य॒म
आधि॑पत्यं॒ परि॑याय यमगा॒थाभिः॒ परि॑
गायति य॒मादे॒वैन॑द्वृङ्क्ते ति॒सृभिः॒ परि॑
गायति॒ त्रय इ॒मे लो॒का ए॒भ्य ए॒वैन॑ल्लो॒केभ्यो॑
वृङ्क्ते॒ तस्मा॒द्गाय॑ते॒ न देयं॒ गाथा॒ हि तद्व-
ङ्क्ते॑ऽग्निभ्यः॑ प॒शूना ल॑भते॒ कामा॒ वा
अ॒ग्नयः॒ कामा॑ने॒वाव॑ रुन्धे॒ यत्प॒शून्नालभे॒-
तान॑वरुद्धा अस्य (२) प॒शवः॑ स्यु॒र्यत्पर्य॑-
ग्निकृतानुत्सृजेद्य॑ज्ञवेश॒सं कुर्या॒द्यात्सँ॑
स्था॒पये॑द्या॒तया॑मानि शी॒र्षाणि॑ स्यु॒र्यत्प॒शूना॒-
लभ॑ते॒ तेनै॒व प॒शूनव॑ रुन्धे॒ यत्पर्य॑ग्निकृता-

[[2297]]

प्रपा० १ अनु० ८) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(वन्हिपशव)
नुत्सृ॒जति॑ शी॒र्ष्णामयातयामत्वाय प्राजाप॒
त्येन॒ सँ स्था॑पयति य॒ज्ञो वै प्र॒जाप॑तिर्य॒ज्ञ
ए॒व य॒ज्ञं प्रति॑ ष्ठाषयति प्र॒जाप॑तिः प्र॒जा
अ॑सृजत॒ सम रि॑रिचा॒नो॑ऽमन्यत॒ स ए॒ता
आ॒प्रीर॑पश्य॒त्ताभि॒र्वै स मु॑ख॒तः (३) आ॒त्मा-
न॒माऽप्री॑णीत॒ यदे॒ता आ॒प्रियो॒ भव॑न्ति य॒ज्ञो
वै प्र॒जाप॑ते॒राप्त्या॑ ऊनातिरि॒क्ता मि॑थु॒नाः
प्रजात्यै लोम॒शं वै नामै॒तच्छन्दः॑ प्रजाप॑तेः
प॒शवोः॑ लोम॒शाः ष॒शूने॒वाव॑ रुन्धे॒ सर्वा॑णि॒
वा ए॒ता रू॒पाणि॒ सर्वा॑णि रू॒पाण्य॒ग्नौ
चित्ये॑ क्रियन्ते॒ तस्मा॑दे॒ता अ॒ग्नेश्चित्य॑स्य
(४) भ॒व॒न्त्येक॑विँशति सामिधे॒नीरन्वा॑ह॒
रुग्वा ए॑कविँ॒ शो रुच॑मे॒व ग॑च्छ॒त्यथो॑
प्रति॒ष्ठामे॒व प्र॑ति॒ष्ठा ह्ये॑कविँ॒शश्चतु॑र्विँशति॒-
मन्वा॑ह॒ चतु॑र्विँ शतिरर्धमा॒साः सं॑वत्स॒रः
सं॑वत्स॒रो॑ऽग्निर्वै॑श्वान॒रः सा॒क्षादे॒व वै॑श्वान॒र-
मव॑ रुन्धे॒ पर॑ची॒रन्वा॑ह॒ परा॑ङ्वि॒ हि
सु॑व॒र्गो लो॒कः समा॑स्त्वाऽग्न ऋ॒तवो॑ वर्धय॒-
न्त्वित्या॑ह॒ समा॑भिरे॒वाग्निं व॑र्धयति (५)
ऋ॒तुभिः॑ संवत्स॒रं विश्वा॒ आ भा॑हि प्र॒दिशः॑

[[2298]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (५ पञ्चमकाण्डे-
(उख्यस्य जननम्)
पृथि॒व्या इत्या॑ह॒ तस्मा॑द॒ग्निः सर्वा॒ दिशोऽनु॒
वि भा॑ति॒ प्रत्यौ॑हताम॒श्विना॑ मृ॒त्युम॑स्मा॒दि-
त्या॑ह मृ॒त्युमे॒वास्मा॒दप॑ नुद॒त्युद्व॒यं तम॑स॒स्प-
रीत्या॑ह पा॒प्मा वै तमः॑ पा॒प्मान॑मे॒वास्मा॒दप॑
ह॒न्त्यग॑न्म॒ ज्योति॑रुत्त॒ममित्या॑हा॒सौ वा
आ॑दित्यो ज्योति॑रुत्त॒ममा॑दि॒त्यस्यै॒व सायु॑ज्यं
गच्छति॒ न सं॑वत्स॒स्स्ति॑ष्ठति॒ नास्य॒ श्रीस्ति॑-
ष्ठति॒ यस्यै॒ताः क्रि॒यन्ते॒ ज्योति॑ष्मतीमुत्त॒मा-
मन्वा॑ह॒ ज्योति॑रे॒वास्मा॑ उपरि॑ष्टाद्दधाति
सुव॒र्गस्यं लो॒कस्यानु॑ख्यात्यै (६)॥
(याव॑न्तोऽस्य मुख॒तश्चित्य॑स्य वर्धयत्यादि॒त्यो॑ऽष्टविँ॑शतिश्च)।

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
प्रथमप्रपाठकेऽष्टमोऽनुवाकः॥८॥