(अथ पञ्चमाष्टके प्रथमप्रपाठके सप्तमोऽनुवाकः)।
स॒प्तभि॑र्धूपयति स॒प्त वै शी॑र्ष॒ण्याः॑ प्रा॒णाः
शिर ए॒तद्य॒ज्ञस्य॒ यदु॒खा शी॒र्षन्ने॒व य॒ज्ञस्य॑
प्रा॒णान्दधाति॒ तस्मा॑त्स॒प्त शी॒र्षन्प्रा॒णाअ॑श्व-
श॒केन॑ धूपयति प्राजाप॒त्यो वा अश्वः॑ सयो-
नित्वायादि॑ति॒स्त्वेत्या॑हे॒यं वा अदिति॒रदि॑त्यै
वादि॑त्यां खनत्य॒स्या अक्रू॑रंकाराय॒ न हि
स्वः स्वँ हि॒नस्ति दे॒वानां॑ त्वा॒ पत्नी॒रित्या॑ह
दे॒वाना॑म् (१) वा ए॒तां पत्न॒योऽग्रेंऽकुर्व॒-
[[2295]]
प्रपा० १ अनु० ८) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(उखासंस्कारः)
न्ताभि॑रे॒वैनां॑ दधाति धि॒षणा॒स्त्वेत्या॑ह वि॒द्या
वै धि॒षणा॑ वि॒द्याभि॑रे॒वैनाम॒मीन्धे॒ ग्नास्त्वे-
त्या॑ह॒ छन्दाँ॑सि॒ वै ग्नाश्छन्दो॑भिरे॒वैनाँ॑
श्रपयति॒ वरू॑त्रय॒स्त्वेत्या॑ह॒ होत्रा॒ वै वरू॑-
त्रयो॒ होत्रा॑भिरे॒वैनां॑ पचति॒ जन॑य॒स्त्वेत्या॑ह
दे॒वानां॒ वै पत्नीः॑ (२) जन॑य॒स्ताभि॑रे॒वैनां॑
षचति ष॒ड्भिः प॑चति॒ षड्वा ऋ॒तव॑ ऋ॒तुभि॑-
रे॒वैनां॑ पचति॒ द्विः पच॒न्त्वित्या॑ह॒ तस्मा॒द्द्विः
सं॑वत्स॒रस्य॑ स॒स्यं प॑च्यते वारु॒ण्यु॑खाऽभीद्धा॑
मै॒त्रियोपै॑ति॒ शान्त्यै॑ दे॒वस्त्वा॑ सवि॒तोद्व॑प॒-
त्वित्या॑ह सवितृप्र॑सूत ए॒वैनां॒ ब्रह्म॑णा दे॒वता॑-
भि॒रुद्व॑प॒त्यप॑द्यमाना पृथि॒व्याशा॒ दिश॒ आ
पृ॑ण (३) इत्या॑ह॒ तस्मा॑द॒ग्निः सर्वा॒ दिशोऽनु॒
वि भा॒त्युत्ति॑ष्ठ बृह॒ती भ॑वो॒र्ध्वा ति॑ष्ठ ध्रु॒वा
त्वमित्या॑ह॒ प्रति॑ष्ठित्या असु॒र्यं॑ पात्रमना॑च्छृ-
ण्ण॒माच्छृ॑ त्ति देव॒त्राऽक॑रजक्षी॒रेणाऽऽ-
च्छृ॑णत्ति पर॒मं वा ए॒तत्पयो॒ यद॑जक्षी॒रं
प॑र॒मेणै॒वैनां॒ पय॒साऽऽ च्छृ॑णत्ति॒ यजु॑षा॒
व्यावृ॑त्त्यै॒ छन्दो॑भि॒रा च्छृ॑णत्ति॒ छन्दो॑भि॒र्वा
ए॒षा क्रि॑यते॒ छन्दो॑भिरे॒व छन्दाँ॒स्था
च्छृ॑णत्ति (४)॥
(आ॒ह॒ दे॒वानां॒ वै पत्नीः॑ पृणै॒षा षट् च॑)।
[[2296]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (५पञ्चमकाण्डे-
(वन्हिपशव)
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
प्रथमप्रपाठके सप्तमोऽनुवाकः॥७॥