(अथ पञ्चमाष्टके प्रथमप्रपाठके षष्ठोऽनुवाकः)।
वा॒रु॒णो वा अ॒ग्निरुप॑नद्धो॒ वि पाज॒सेति॒
वि स्रँ॑सयति सवि॒तृप्र॑सूत ए॒वास्य॒ विषू॑चीं
[[2293]]
प्रपा० १ अनु० ६) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(उखानिर्माणम्)
वरुणमे॒निं वि सृ॑जत्य॒प उप सृज॒त्यापो॒ वै
शा॒न्ताः शा॒न्ताभि॑रे॒वास्य॒ शुचँ॑ शमयति
ति॒सृभि॒रुप॑ सृजति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वा-
ग्निस्तस्य॒ शुचँ॑ शमयति मि॒त्रः सँ॒सृज्य॑
पृथि॒वीमित्या॑ह मि॒त्रो वै शि॒वो दे॒वानां॒
तेनै॒व (१) ए॒नँ॒ सँ सृ॑जति॒ शान्त्यै॒ यद्-
ग्रा॒म्याणां॒ पात्रा॑णां क॒पालै॑ सँ सृ॒जेदग्रा॒-
म्याणि॒ पात्रा॑णि शु॒चाऽर्प॑येदर्मकपा॒लैः सँ
सृ॑जत्ये॒तानि॒ वा अ॑नुपजीवनी॒यानि॒ तान्ये॒व
शु॒चाऽर्प॑यति॒ शर्क॑राभिः॒ सँ सृ॑जति॒ धृत्या॒
अथो॑ शं॒त्वाया॑जलो॒मैः सँ सृ॑जत्ये॒षा वा
अ॒ग्नेः प्रि॒या त॒नूर्यद॒जा प्रि॒ययै॒वैनं॑ त॒नुवा॒
सँ सृ॑ज॒त्यथो॒ तेज॑सा कृष्णाजि॒नस्य॒
लोमाभिः॒ सम् (२) सृ॒ज॒ति॒ य॒ज्ञो वै कृ॑ष्णा-
जि॒नं य॒ज्ञेनै॒व य॒ज्ञँ सँ सृ॑जति रु॒द्राः
सं॒भृत्य॑ पृथिवीमित्या॑है॒ता वा ए॒तं दे॒वता॒
अग्रे॒ समभर॒न्ताभि॑रे॒वैनँ॒ संभरति म॒खस्य॒
शिरो॒ऽसीत्या॑ह य॒ज्ञो वै म॒खस्तस्यै॒ताच्छिरो॒
यदुखा तस्मादे॒वमा॑ह य॒ज्ञस्य॑ प॒दे स्थ॒
इत्या॑ह य॒ज्ञस्य॒ ह्येते (३) पदे अथो॒ प्रति॑-
ष्ठित्यै॒ प्रान्याभि॒र्यच्छ॒त्यन्व॒न्यैर्म॑न्त्रयते मिथु-
न॒त्वाय॒ त्र्यु॑द्धिं करोति॒ त्रय॑ इ॒मे लो॒का
ए॒षां लो॒काना॒माप्त्यै॒ छन्दो॑भिः करोति
[[2294]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (५ पञ्चमकाण्डे-
(उखासंस्कार)
वी॒र्यं॑ वै छन्दाँ॑ सि वी॒र्येणै॒वैनां॑ करोति॒
यजु॑षा॒ बिलं॑ करोति॒ व्यावृ॑त्त्या॒ इय॑तीं
करोति प्र॒जाप॑तिना यज्ञमु॒खेन॒ संमि॑तां
द्विस्त॒नां क॑रोति॒ द्यावा॑पृथिव्योर्दोहा॑य॒ चतु॑-
स्तनां करोति पशू॒नां दोहा॑या॒ष्टास्तनां
करोति॒ छन्द॑सां॒ दोहा॑य॒ नवा॑श्रिमभि॒चर॑तः
कुर्यात्रि॒वृत॑मे॒व वज्रः॑ सं॒भृत्य॒ भ्रातृ॑व्याय॒
प्र ह॑रति॒ स्तृत्यै॑ कृ॒त्वाय॒ सा महीमु॒खामिति॒
नि द॑धाति दे॒वतास्वे॒वैनां॒ प्रति ष्ठापयति
(४)॥
(तेनै॒व लोम॑भिः॒ समे॒ते अ॑भि॒चर॒॑त एकविँशतिश्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
प्रथमप्रपाठके षष्ठोनुवाकः॥६॥