(अथ पञ्चमाष्टके प्रथमप्रपाठके पञ्चमोऽनुवाकः)।
क्रू॒रमिव॒ वा अ॑स्या ए॒तत्क॑रोति॒ यत्खन॑त्या॒
उप॑ सृज॒त्यापो वै शा॒न्ताः शा॒न्ताभि॑रे॒वास्यै॒
शुचँ॑ शमयति॒ सं ते॑ वा॒युर्मा॑त॒रिश्वा॑ दधा॒-
त्वित्या॑ह प्रा॒णो वै वा॒युः प्रा॒णेनै॒वास्यै॑
प्रा॒णँ सं दधाति॒ सं ते॑ वा॒युरित्या॑ह॒ तस्मा॑-
द्वा॒युप्र॑च्युता दि॒वो वृष्टि॑रीर्ते॒ तस्मै॑ च देवि॒
वष॑डस्तु (१) तुभ्य॒मित्या॑ह॒ षड्वा ऋ॒तव॑
ऋ॒तुष्वे॒व वृष्टिं॑ दधाति॒ तस्मा॒त्सर्वा॑नृ॒तून्वर्ष॑ति॒
यद्व॑षट्कु॒र्याद्या॒तया॑माऽस्य वषट्का॒रः स्या॒-
[[2290]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (५पञ्चमकाण्डे-
(संभृतमृदो यज्ञभूमौ समाहरणम्)
द्यन्न व॑षट्कुर्याद्रक्षाँ॑सि यज्ञँ॒ ह॑न्यु॒र्वडि-
त्या॑ह प॒रोक्ष॑मेव वषट्करोति नास्य॑ या॒त
या॑मा वषट्का॒रो भव॑ति॒ न य॒ज्ञँ रक्षाँ॑सि
घ्नन्ति॒ सुजा॑तो॒ ज्योति॑षा स॒हेत्य॑नु॒ष्टुभोप॑
नह्यत्य॒नुष्टुप् (२) सर्वा॑णि॒ छन्दाँ॑सि॒
छन्दाँ॑सि॒ खलु॒ वा अ॒ग्नेः प्रि॒या त॒नूः
प्रि॒ययै॒वैनं॑ त॒नुबा॒ षरि॑ दधाति॒ वेदु॑को॒ वासो॑
भवति॒ य ए॒वं वेद॑वारु॒णो वा अ॒ग्निरूप॑नद्ध॒
उदु॑ तिष्ठ स्वध्वरो॒र्ध्व॑ ऊ॒ षु ण॑ ऊ॒तय॒ इति॑
सावि॒त्रीभ्या॒मुत्ति॑ष्ठाति सवि॒तृप्र॑सूत ए॒वास्यो॒-
र्ध्वां व॑रुणमे॒निमुत्सृ॑जति॒ द्वाभ्यां॒ प्रति॑ष्ठित्यै॒
स जा॒तो गर्भो॑ असि (३) रोद॑स्यो॒रि-
त्या॑हे॒मे वै रोद॑सी॒ तयो॑रे॒ष गर्भो॒ यद॒ग्नि-
स्तस्मा॑दे॒वमा॒हाग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धी॒ष्वि-
त्या॑ह य॒दा ह्ये॑तं वि॒भर॒न्त्यथ॒ चारु॑तरो॒
भव॑ति॒ प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद्गा॒इत्या॒-
होष॑धयो॒ वा अ॑स्य मा॒तर॒स्ताभ्य॑ ए॒वैनं॒ प्र
च्या॑वयति स्थि॒रो भ॑व वी॒ड्व॑ङ्ग॒ इति॑ गर्द॒भ
आ सा॑दयति (४) सं न॑ह्यत्य॒वेनै॑मे॒तया॑
स्थे॒म्ने ग॑र्द॒भेन॒ सं भ॑रति॒ तस्माद्गर्द॒भः
पशू॒नां भा॑रभा॒रित॑मो गर्द॒भेन॒ सं भ॑रति॒
तस्मा॑द्गर्द॒भोऽप्य॑नाले॒शेऽत्य॒न्यान्प॒शून्मे॑द्य॒त्य-
[[2291]]
प्रपा० १ अनु० ५) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(संभृतमृदो यज्ञभूमौ समाहरणम्)
न्नँ॒ ह्ये॑नेना॒र्कँ सं॒भर॑न्ति गर्द॒भेन॒ सं भ॑रति॒
तस्मा॑द्गर्द॒भो द्वि॒रेताः॒ सन्कनि॑ष्ठं पशू॒नां प्र
जा॑यते॒ऽग्निर्ह्य॑स्य॒ योनिं॑ नि॒र्दहति प्र॒जासु॒ वा
ए॒ष ए॒तर्ह्यारू॑ढः (५) स ई॑श्व॒रः प्र॒जाः
शु॒चा प्र॒दहः॑ शि॒वो भ॑व प्र॒जाभ्य॒ इत्या॑ह
प्राजाभ्य॑ ए॒वैनँ॑ शमयति॒ मानु॑षीभ्य॒स्त्व-
म॑ङ्गिर॒ इंत्या॑ह मान॒व्यो॑ हि प्र॒जा मा द्यावा॑-
पृथि॒वी अ॒भि शू॑शुचो॒ माऽन्तरि॑क्षं॒ मा वन॒
स्पती॒नित्या॑है॒भ्य ए॒वैनं॑ लो॒केभ्यः॑ शमयति॒
प्रैतु॑ वा॒जी कनि॑क्रद॒दित्या॑ह वा॒जी ह्ये॑ष
नान॑द॒द्रास॑भः॒ पत्वेति॑ (६) आ॒ह॒ रास॑भ॒
इति॒ ह्ये॑तमृष॒योऽव॑द॒न्भर॑न्न॒ग्निं पु॑री॒ष्यमि
त्या॑हा॒ग्निँ ह्ये॑ष भर॑ति॒ मा षा॒द्यायु॑षः पु॒रे
त्य॒ हाऽऽयुरे॒वास्मि॑न्दधाति॒ तस्मा॑द्गर्द॒भः सर्व॒-
मायुरेति॒ तस्मा॑द्गर्द॒भे पु॒राऽऽयु॑षः॒ प्रमीते
बिभ्यति॒ वृषा॒ऽग्निर॒पां गर्भ॑म् (७) स॒मु॒द्रिय॒-
मित्या॑हा॒पाँ ह्ये॑ष गर्भो॒यद॒ग्निरन्न॒ आ या॑हि
वी॒तय॒ इति॒ वा इ॒मौ लो॒कौ व्यै॑ता॒मग्न॒ आ
या॑हि वी॒तय॒ इति॒ यदाहा॒नयो॑र्ले॒ कयो॒र्वीत्यै॒
प्रच्यु॑तो॒ वा ए॒ष आ॒यत॑ना॒दग॑तः प्रति॒ष्ठाँस
ए॒तर्ह्य॑ध्व॒र्युं च॒ यज॑मानं च ध्यायत्यृ॒तँ
[[2292]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (५ पञ्चमकाण्डे-
(उखानिर्माणम्)
स॒त्यमित्या॑हे॒यं वा ऋ॒तम॒सौ (८) स॒त्यम॒-
नयौ॑रे॒वैनं॒ प्रति॑ ष्ठापयति॒ नाऽऽर्ति॒मार्छ॑त्य-
ध्द॒र्युर्न यज॑मानो॒ वरु॑णो॒ वा ए॒ष यज॑मान-
म॒भ्यैति॒ यद॒ग्निरुप॑नद्ध॒ ओष॑धयः॒ प्रति॑
गृह्णीता॒ग्निमे॒तामित्या॑ह॒ शान्त्यै॒ व्यस्य॒-
न्विश्वा॒ अभ॑ती॒रराती॒रित्या॑ह॒ रक्ष॑सा॒मप॑हत्यै
नि॒षीद॑न्नो॒ अप दुर्म॒तिँ ह॑न॒दित्या॑ह॒ प्रति॑-
ष्ठित्या॒ ओष॑धयः॒ प्रति॑ मोदध्वम् (९)
ए॒न॒मित्या॒हौष॑धयो॒ वा अ॒ग्नेर्भा॑ग॒धेयं॒ नाभि॑-
रे॒वैनँ॒ सम॑र्धयति॒ पुष्पा॑वतीः सुपिप्प॒ला
इंत्या॑ह॒ तस्मा॒दोष॑धयः॒ फलं॑ गृह्णन्त्य॒यं वो॒
गर्भ॑ ऋ॒त्वियः॑ प॒त्नँ स॒धःस्थ॒माऽस॑द॒दित्या॑ह॒
याभ्य॑ ए॒वैनं॑ प्रच्या॒वय॑ति॒ तास्वे॒षैनं॒ प्रति॑
ष्ठापयति॒ द्वाभ्या॑मु॒पावह॑रति॒ प्रति॑ष्ठित्यै
(१०)॥
(अ॒स्त्व॒नु॒ष्टुब॑सि सादय॒त्यारू॑ढः॒ पत्वे॒ति॒ गर्भ॑म॒सो
मो॑दध्वं॒ द्विच॑त्वारिँशच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
प्रथमप्रपाठके पञ्चमोऽनुवाकः॥५॥