०४

(अथ पञ्चमाष्टके प्रथमप्रपाठके चतुर्थोऽनुवाकः)
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति खनति॒
प्रसूत्या अथो॑ धू॒ममै॒वैतेन॑ जनयति॒ ज्योति॑-
ष्मन्तं त्वाऽग्ने सु॒प्रती॑का॒मित्याह॒ ज्योतिरे॒वैतेन॑
जनयति॒ सो॑ऽग्निर्जा॒तः प्र॒जाः शु॒चाऽऽर्प॑य॒त्तं
दे॒वा अ॑र्ध॒र्चेनाशमयञ्छिवं प्रजाभ्योऽहिँ॑-
सन्तमि॒त्या॑ह प्र॒जाभ्य॑ ए॒वैनँ॑ शमयति॒
द्वाभ्यां॑ खनति॒ प्रति॑ ष्ठित्या अ॒पां पृ॒ष्ठम॒सीति॑
पुष्करप॒र्णमा (१) ह॒र॒त्य॒पां वा ए॒तत्पृ॒ष्ठं
यत्पु॑ष्करप॒र्णँ रू॒पेणै॒वैन॒दा ह॑रति पुष्करप॒-
र्णे॑न॒ सं भ॑रति॒ योनि॒र्वा अ॒ग्नेः पुष्करप॒र्णँ

[[2288]]

श्रीमत्सायणाचार्याविरचितभाष्यसमेता- (५पञ्चमकाण्डे-
(मृद, खननपूर्वकं चर्मपत्रयोः संमरणम्)
सयो॑निमे॒वाग्निँ सं भ॑रति कृष्णाजि॒नेन॒ सं
भ॑रति य॒ज्ञो वै कृष्णाजि॒नं य॒ज्ञेनै॒व य॒ज्ञँ
सं भ॑रति॒ यद्ग्रा॒म्याणां॑ पशू॒नां चर्म॑णा
सं॒भरे॑द्ग्रा॒म्यान्प॒शूञ्छु॒ चाऽर्प॑येत्कृष्णाजि॒नेन॒
सं भ॑रत्यार॒ण्याने॒व पशून् (२) शुचाऽ–
र्प॑यति॒ तस्मा॑त्स॒मावत्पशू॒नां प्र॒जायमानाना-
मार॒ण्याः प॒शवः॒ कनीयाँसः शुचा ह्यृ॑ता
लो॑म॒तः सं भ॑र॒त्यतो॒ ह्य॑स्य॒ मेध्यं॑ कृष्णा-
जि॒नं च पुष्करप॒र्ण॑ च॒ सँस्तृ॑णाती॒यं वै
कृ॑ष्णाजि॒नम॒सौ पु॑ष्करप॒र्णमा॒भ्यामे॒वैन॑मुभ॒-
यतः॒ परि॑ गृह्णात्य॒ग्निर्दे॒वेभ्यो॒ निला॑यत॒
तमथ॒र्वाऽन्व॑पश्य॒दथ॑र्वा त्वा प्रथ॒मो निर॑म-
न्थदग्न॒ इति॑ (३) आ॒ह॒ य ए॒वैन॑म॒न्व-
प॑श्य॒त्तेनै॒वैनँ॒ सं भ॑रति त्वामग्ने॒ पुष्क॑रा॒द-
धीत्या॑ह पुष्करप॒र्णे ह्ये॑न॒मुप॑श्रित॒मवि॑न्द॒त्त-
भु॑त्वा द॒ध्यङ्ऋषिरि॒त्या॑ह द॒ध्य॒ङ्वा आ॑थ-
र्व॒णस्तेज॒स्व्या॑सी॒त्तेज॑ ए॒वास्मि॑न्दधाति॒ तमु॑
त्वा पा॒थ्यो वृषेत्या॑ह॒ पूर्व॑मे॒वोदि॒तमुत्त॑रेणा॒भि
गृ॑णाति (४) च॒त॒सृभिः॒ सं भ॑रति च॒त्वारि॒
छन्दाँ॑सि॒छन्दो॑भिरेव गा॑य॒त्रीभि॑र्ब्राह्म॒णस्य॑
गाय॒त्रो हि ब्रा॑ह्म॒णस्रि॒ष्टुग्मी॑ राज॒न्य॑स्य॒
त्रैष्टु॑भो॒ हि रा॑ज॒न्यो॑ यं का॒मये॑त॒ वासी॑या-

[[2289]]

प्रपा० १अनु० ५) कृष्णयजुर्वेदीयतैत्रिरीयसंहिता।
(संभृतमृदो यज्ञभूमौ समाहरणम्)
न्त्स्या॒दित्यु॒भयी॑भि॒स्तस्य॒ सं भ॑रे॒त्तेजश्चैवास्मा॑
इन्द्रि॒यं च स॒मीची॑ दधात्यष्टा॒भिः सं भ॑रत्य॒-
ष्टाक्ष॑रा गाय॒त्री गा॑यत्रोंऽग्निर्यावा॑ने॒वाग्नि-
स्तँ सं भ॑रति॒ सीद॑ होत॒रित्याह दे॒वता॑
ए॒वास्मै॒ सँसादयति॒ नि होतेति मनुष्यान्त्सँ सीद॒स्वेति॒ वयाँ॑सि॒ जनि॑ष्वा॒ हि जेन्यो॒ अग्रे॒ अह्नामित्या॑ह देवमनु॒ष्याने॒
वास्मै॒ सँ स॑न्ना॒न्प्र ज॑नयति (५)॥
(ऐव प॒शूनिति॑ गृणाति होत॒रिति॑ स॒प्तविँ॑ शतिश्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
प्रथमप्रपाठके चतुर्थोऽनुवाकः॥४॥