०३

(अथ पञ्चमाष्टके प्रथमप्रपाठके तृतीयोऽनुवाकः)।
उत्क्रा॒मोद॑क्रमी॒दिति॒ द्वाभ्या॒मुत्क्र॑मयति॒
प्रतिष्ठित्या॒ अनु॑रूपाभ्यां॒ तस्मा॒दनुरूपा-
प॒शवः॒ प्र जायन्ते॒ऽप उप॑ सृजति॒ यत्र॒ वा
आप उप॒गच्छ॑न्ति॒ तदोष॑धयः॒ प्रति॑ तिष्ठ-
न्त्योष॑धीः प्रति॒तिष्ठ॑न्तीः प॒शवोऽनु॒ प्रति॑
तिष्ठन्ति ष॒शन्यज्ञो य॒ज्ञं यज॑मानो यज॑मानं
प्र॒जास्तस्मा॑द॒प उप सृजति॒ प्रति॑ष्ठित्यै॒ यद॑-
ध्व॒र्युर॑नग्नावाहु॑तिं जुहु॒यादन्धो॑ऽध्वर्युः॒ (१)
स्या॒द्रक्षाँ॑सि य॒ज्ञँ ह॑न्यु॒र्हिर॑ण्यमु॒पास्य॑
जुहोत्यग्नि॒वत्ये॒व जु॑होति॒ नान्धो॑ऽध्व॒र्युर्भ-
व॑ति॒ न य॒ज्ञँ रक्षाँ॑सि घ्नन्ति॒ जिघ॑र्म्यग्निं
मन॑सा घृ॒तेनेत्याह॒ मनसा गि पुरु॑षो य॒ज्ञम॑-

[[2286]]

श्रीमत्सायणाचार्यविरचितभाष्यसमेता- (५ पञ्चमकाण्डे-
(अश्वाक्रमणपूर्वकभूसंस्काराभिधानम्)
भि॒गच्छ॑ति प्रति॒क्ष्यन्तं॒ भुव॑नानि॒ विश्वेत्याह॒
सर्वँ ह्ये॑ष प्र॒त्यङ्क्षेति॑ पृ॒थुं ति॑र॒श्चा वय॑सा
बृ॒हन्त॒मित्याहाल्पो॒ ह्ये॑ष जा॒तो म॒हान् (२)
भव॑ति॒ व्यचि॑ष्ठ॒मन्नँ॑ रभ॒सं विदा॑न॒मित्या॒हा-
न्न॑मे॒वास्मै॑ स्वदयति॒ सर्व॑मस्मै स्वदते॒ य
ए॒वं वेदाऽऽ त्वा॑ जिघर्मि॒ वच॑सा घृ॒तेनेत्या॑ह॒
तस्मा॒द्यत्पुरु॑षो॒ मन॑साऽभि॒गच्छ॑ति त ॒चा
व॑दत्यर॒क्षसेत्या॑ह॒ रक्ष॑सा॒मपहत्यै॒ मर्य॑श्रीः
स्पृह॒यद्व॑र्णो अ॒ग्निरित्या॒हाप॑चितिमे॒वास्मि॑न्द
धा॒त्यपचितिमान्यवति॒ य ए॒वम् (३) वेद॒
मनसा॒ त्वै तामाप्तु॑मर्हाति॒ याम॑ध्व॒र्युर॑न॒ग्ना-
वाहु॑तिं जु॒होति॒ मन॑स्वतीभ्यां जुहोत्याहु॑त्यो॒
राप्त्यै॒ द्वाभ्यां॒ प्रति॑ष्ठित्यै यज्ञ॒मुखेयज्ञमुखे॒
वै॒ क्रि॒यमा॑णे य॒ज्ञँ रक्षाँसि जिघाँस-
न्त्ये॒तर्हि॒ खलु॒ वा ए॒तद्य॑ज्ञमु॒खं यर्ह्येन॒दाहु॑ति-
रश्नु॒ते परि लिखति॒ रक्ष॑सा॒मप॑हत्यै ति॒सृभिः॒
परि लिखति त्रि॒वृद्वा अ॒ग्निर्यावा॑ने॒वाग्नि-
स्तस्मा॒द्रक्षाँ॒स्यप॑ हन्ति (४) गा॒य॒त्रि॒या
परि॑ लिखति॒ तेजो॒ वै गा॑य॒त्री तेज॑सै॒वैनं॒ परि॑
गृह्णाति त्रि॒ष्टुभा॒ परि॑ लिखतीन्द्रियं वै त्रि॒ष्टुगिन्द्रि॒येणै॒वैनं॒ परि गृह्णात्यनु॒ष्टुभा॒ परि लिखत्यनु॒ष्टुप् सर्वा॑णि॒ छन्दाँ॑सि

[[2287]]

प्रपा० १अनु०४) कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(मुदः खननपूर्वकं चर्मपत्रयोः संभरणम्)
परि॒भूः पर्या॑प्त्यै मध्य॒तो॑ऽनु॒ष्टुभा॒ वाग्वा
अ॑नु॒ष्टुप्तस्मान्मध्य॒तो वा॒चा व॑दामो गाय-
त्रि॒या प्र॑थ॒मया॒ परि॑ लिख॒त्यथा॑नु॒ष्टुभाऽथ॑
त्रि॒ष्टुभा॒ तेजो॒ वै गा॑य॒त्री य॒ज्ञो॑ऽनु॒ष्टुगि॑-
न्द्रि॒यं त्रि॒ष्टु..तेज॑सा चै॒वेन्द्रि॒येण॑ चोभ॒यतो॑
य॒ज्ञं परि॑ गृह्णाति (५)॥
(अ॒न्धो॑ऽध्व॒र्युर्म॒हान्भ॑वति॒ य ए॒वँ ह॑न्ति त्रि॒ष्टुभा॒ तेजो॒ वे गा॑यत्री
त्रयो॑दश च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
प्रथमप्रपाठके तृतीयोऽनुवाकः॥३॥