(अथ पञ्चमाष्टके प्रथमप्रपाठके द्वितीयोऽनुवाकः)।
व्यृद्धं॒ वा ए॒तद्य॒ज्ञस्य॒ यद॑य॒जुष्के॑ण क्रि॒यत॑
इ॒माम॑गृभ्णन्रश॒नामृ॒तस्येत्य॑श्वाभि॒धानी॒मा
द॑त्ते॒ यजु॑ष्कृत्यै य॒ज्ञस्य॒ समृ॑द्ध्यै॒ प्रतू॑र्ते
वाजि॒न्ना द्र॒वेत्यश्वम॒भि द॑धाति रू॒पमे॒वास्यै॒-
तन्म॑हिमानं॒ व्याच॑ष्टे यु॒ञ्जाथाँ॒ रास॑भं यु॒व-
मिति॑ गर्द॒भमसत्येव ग॑र्द॒भं प्रति॑ ष्ठापयति॒
तस्मा॒दश्वाद्गर्द॒भोऽस॑त्तरो॒ योगे॑योग त॒वस्त॑र॒-
मित्या॑ह (१) योगे॑योग ए॒वैनं युङ्क्ते॒ वाजे॑
वाजे हवामह॒ इत्या॒हान्नं॒ वै वाजोऽन्न॑मे॒वाव॑
रुन्धे॒ सखा॑य॒ इन्द्र॑मू॒तय॒ इत्या॑पेन्द्रि॒यमे॒वान्व॑-
विन्दत्प्राजाप॒त्योऽश्वोऽश्वे॑न॒ संभ॑र॒त्यनु॑वित्त्यै
पापवस्य॒सं वा ए॒तत्क्रि॑यते॒ यच्छ्रेय॑सा च॒
पापी॑यसा च समा॒नं कर्म॑ कु॒र्वन्ति॒ पापी॑-
यान् (२) ह्यश्वा॑द्गर्द॒भोऽश्वं॒ पूर्वं॑ नयन्ति
पापवस्य॒सस्य॒ व्यावृत्त्यै॒ तस्मा॒च्छ्रेयाँसं॒
पापी॑यान्प॒श्वागन्वे॑ति ब॒हुव भव॑तो॒ भ्रातृ॑व्यो॒
भव॑तीव॒ खलु॒ वा ए॒ष यो॑ऽग्निं चिनु॒ते व॒ज्यश्वः॑
[[2284]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता- [५ पञ्चमकाण्डे-
(मृत्खनगमनपूर्वकमश्वेन भूम्याक्रमणम्)
प्र॒तूर्वन्नेह्य॑व॒क्राम॒न्नश॑स्ती॒रित्या॑ह॒ वज्रे॑णै॒व
पा॒प्मानं॒ भ्रातृ॑व्य॒मव॑ क्रामति रु॒द्रस्य॒ गाण॑-
पत्या॒दित्या॑ह रौ॒द्रा वै प॒शवो॑ रु॒द्रादे॒व (३)
प॒शून्नि॒र्याच्या॒ऽऽत्मने॒ कर्म॑ कुरुते पू॒प्णा
स॒युजा॑ स॒हेत्या॑ह पू॒षा वा अध्व॑नाँ संने॒ता
सम॑ष्ट्यै॒ पुरी॑षायतनो॒ वा ए॒षयद॒ग्निरङ्गि॑रसो॒
वा ए॒तमग्रे॑ दे॒वता॑नाँ॒ सम॑भरन्पृथ्वि॒व्याः
स॒धःसा॑द॒ग्निं पु॑री॒ष्य॑मङ्गिर॒स्वदच्छे॒हीत्या॑ह॒
साय॑तनमे॒वैनं॑ दे॒वता॑भिः॒ सं भ॑रत्या॒ग्निं पु॑री॒-
ष्य॑मङ्गिर॒स्वदच्छे॑म॒ इत्या॑ह॒ येन॑ (४)
सं॒गच्छ॑ते॒ वाज॑मे॒वास्य॑ वृङ्क्ते प्र॒जापतये
प्रति॒प्रोच्या॒ग्निः सं॒भृत्य॒ इत्या॑हुरियं॒ वै प्र॒जा-
प॑पि॒स्तस्या॑ ए॒तच्छ्रोत्रं॒ यद्व॒ल्मीको॒ऽग्निं
पु॑री॒ष्यमङ्गिर॒स्वद्भ॑रिष्याम॒ इति॑ वल्मीकव॒-
पामुप॑ तिष्ठते सा॒क्षादे॒ प्र॒जाप॑तये प्रति॒प्रो-
च्या॒ग्निँ सं भ॑रत्याग्निं पु॑री॒ष्य॑मङ्गिर॒स्वद्भ॑
राम॒ इत्या॑ह॒ येन॑ सं॒गच्छ॑ते॒ वाज॑मे॒वास्य
वृ॒ङ्क्तेऽन्व॒ग्निरु॒षसा॒मग्र॑म् (५) अ॒ख्य॒दि-
त्या॒हानुख्यात्या आ॒गत्य वा॒ज्यध्व॑न आ॒क्रम्य॑
वाजिन्पृथिवी मित्या॑हे॒ च्छत्ये॒वैनं॒ पूर्व॑या वि॒न्द-
त्युत्त॑रया॒ द्वाभ्या॒मा क्र॑मयति॒ प्रति॑ष्ठित्या॒
अनु॑रूपाभ्यां॒ तस्मा॒दनु॑रूपाः प॒शवः॒ प्र
जा॑यन्ते॒ द्यौस्ते॑ पृ॒ष्ठं पृ॑थि॒वी स॒धःस्थ॒मित्या॑
[[2285]]
प्रपा० १अनु० ३] कृष्णयजुर्वेदीयतैत्तिरीयसंहिता।
(अश्वाक्रमणपूर्वकभूसंस्काराभिधानम्)
है॒भ्यो वा ए॒तं लो॒केभ्यः॑ प्र॒जाप॑तिः॒ समैरय-
द्रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ व्याच॑ष्टे व॒ज्री वा
ए॒ष यद्श्वो॑ द॒द्भिर॒न्यतोदद्भ्यो॒ भूयाल्ँ॒लोम॑-
भिरुभ॒याद॑द्भयो॒ यं द्वि॒ष्यात्तमधस्प॒दं ध्या॑ये॒-
द्वज्रे॑णैवैनँ॑ स्तृणुते (६)॥
(आ॒हृ॒ पापी॑यान्रु॒द्रादे॒व येनाग्रं॑ व॒ज्री वै स॒प्तद॑श च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
प्रथमप्रपाठके द्वितीयोऽनुवाकः॥२॥