(तत्र प्रथमप्रपाठके प्रथमोऽनुवाकः)।
हरिः ॐ।
*सा॒वि॒त्राणि॑ जुहोति॒ प्रसू॑त्यै चतुर्गृही॒तेन॑
जुहोति॒ च॑तुष्पादः प॒शवः॑ प॒शूने॒वाव॑ रुन्धे॒
चत॑स्रो॒ दिशो दि॒क्ष्वे॑व प्रति॑ तिष्ठति॒ छन्दाँ॑सि
दे॒वेभ्योऽपाक्राम॒न्न वो॑ऽभागानि॑ ह॒व्यं
व॑क्ष्याम॒ इति॒ तेभ्य॑ ए॒तच्च॑तुर्गृहीतम॑धारयन्पु-
रोनुवा॒क्या॑यै या॒ज्या॑यै दे॒वता॑यै वषट्का॒-
राय॒ यच्च॑तुर्गृही॒तं जु॒होति॒ छन्दाँ॑स्ये॒व
तत्प्री॑णाति॒ तान्य॑स्य प्री॒तानि॑ दे॒वेभ्यो॑ ह॒व्यं
व॑हन्ति॒ यं का॒मये॑त (१) पापी॑यान्त्स्या॒-
दित्येकै॑कं॒ तस्य॑ जुहुया॒दाहु॑तीभिरे॒वैन॒मप॑
गृह्नाति॒ पापी॑यान्भवति॒ यं का॒मये॑त॒ वसी॑-
यान्त्स्या॒दिति॒ सर्वा॑णि॒ तस्या॑नुद्रुत्य॑ जुहुया॒-
दाहु॑त्यै॒वैनम॒भि क्र॑मयति॒ वसी॑यान्भव॒त्यथो॑
य॒ज्ञस्यै॒वैषाऽभिक्रान्ति॒रेति॒ वा ए॒ष य॑ज्ञमु॒खा-
दृद्ध्या॒ यो॑ऽग्नेर्दे॒वता॑या॒ एत्य॒ष्टावे॒तानि॑ सावि॒-
त्राणि॑ भवन्त्य॒ष्टाक्ष॑रा गाय॒त्री गा॑य॒त्रः (२)
*एतदाद्यनुवाकदशकं पूर्वमेव चतुर्थकाण्डप्रथमप्रणठकसंहिताव्याख्यानेन सह व्याख्यातत्वादन्न पुनर्न व्याख्यातं भाष्यकृता। एतदनुवाकदशकरथविषयाणां संक्षेपेण प्रदर्शनमेकादशानुवातभाषायारम्भे भाष्यकृतैव कृतमस्ति तत्तत्र द्रष्टव्यम्।
[[2282]]
श्रीमत्सायणाचार्यविरचितभाष्यसमेता- [५ पञ्चमकाण्डे-
(सावित्राहुत्याभ्रिस्वीकारयोरमिधानम्)
अ॒ग्निस्तेनै॒व य॑ज्ञमु॒खादृद्ध्या॒ अ॒ग्नेर्दे॒वता॑यै॒
नैत्य॒ष्टौ सा॑वि॒त्राणि॑ भव॒न्त्याहु॑तिर्नव॒मी त्रि॒वृ-
त॑मे॒न य॑ज्ञमु॒खे वि या॑तयति॒ यदि॑ का॒मये॑त॒
छन्दाँ॑सि यज्ञयश॒सेना॑र्पयेय॒मित्यृच॑मन्त॒मां
कु॑र्या॒च्छन्दाँ॑स्ये॒व य॑ज्ञयश॒सेना॑र्पयति॒ यदि॑
का॒मये॑त॒ यज॑मानं य॑ज्ञयश॒सेना॑र्पयेय॒मिति॒
यजु॑रन्त॒मं कु॑र्याद्यज॑मानमे॒व य॑ज्ञयश॒सेना॑-
र्पयत्यृ॒ता स्तोमँ॒ सम॑र्ध॒येति॑ (३) आ॒ह॒
समृ॑द्ध्यै च॒तुर्भि॒रभ्रि॒मा द॑त्ते च॒त्वारि॒
छन्दाँ॑सि॒ छन्दो॑भिरे॒व दे॒वस्य॑ त्वा सवि॒तुः
प्र॑स॒व इत्या॑ह॒ प्रसू॑त्या अ॒ग्निर्दे॒वेभ्यो॒ निला॑-
यत॒ स वेणुं॒ प्राविश॒त्स ए॒ताभू॒तिमनु॒ सम॑च-
र॒द्यद्वेणोः॑ सुषि॒रँ सु॑षि॒राऽभ्रि॑र्भवति सयो-
नि॒त्वाय॒ स यत्र॑यत्रावंस॒त्तत्कृष्णभ॑भवत्क-
ल्मा॒षी भ॑वति रूपम॑मृद्धया उभयतः॒क्ष्णर्मे-
वती॒तश्वा॒मुत॑श्वा॒र्कस्याव॑रुद्ध्यै॑ व्याममा॒त्री
भ॑वत्ये॒ताव॒द्वै पुरु॑षे वी॒र्यं॑ वी॒र्य॑संमिताऽपरि-
मिता भव॒त्यप॑रिमित॒स्याव॑रुद्ध्यै॒ यो वन॒स्प-
ती॑नां फल॒ग्रहिः॒ सह ए॑षां वीर्य॑वान्फल॒ग्रहि-
र्वेणु॑र्वैण॒वी भव॑ति वीर्य॑स्याव॑रुद्ध्यै (४)॥
(का॒मयेत गाय॒त्रो॑ऽर्घ॒येति॑ च स॒प्तविँ॑शतिश्च)।
[[2283]]
प्र पा. २ अनु० १] कृष्णयदुर्वेदीयतैत्तिरीयसंहिता।
[मृत्खनगमनपूर्वकमश्वेन भूम्याक्रमणम्]
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां पञ्चमाष्टके
प्रथमप्रपाठके प्रथमोऽनुवाकः॥१॥