(अथ चतुर्थाष्टके सप्तमप्रपाठके पञ्चदशोऽनुवाकः)।
अ॒ग्नेर्म॑न्बे प्र॒थमस्य॒ प्रचे॑तसो॒ यं पाञ्च॑जन्यं
ब॒हवः॑ समि॒न्धते। विश्व॑स्यां वि॒शि प्र॑विवि-
शि॒वाँ समीमहे॒ स नो॑ मुञ्च॒त्वँह॑सः। य
स्ये॒दं प्रा॒णानि॑मि॒षद्यदेज॑ति॒ यस्य॑ जा॒तं जन॑-
मानं च॒ केव॑लम्। स्तौम्य॒र्ग्नि ना॑थि॒तो
- न्यायमालयां ‘त्ययमाहवनीयस्यान्वाधाने करणभूतो मन्त्रोऽध्व’ इति पाठः।
()‘दर्शपूर्णमासाभ्यां स्वर्गकामो यजेत’ इति न्यायामालापाठः।
[[2270]]
जो॑हवीमि॒ स नो॑ मुञ्च॒त्वँह॑सः । इन्द्र॑स्य
मन्ये प्रथ॒मस्य॒ प्रचे॑तसो वृत्र॒घ्नः स्तोमा॒ उप॒
मामु॒पागुः॑। यो दा॒शुषः॑ सु॒कृतो॒ हव॒मुप॒
गन्ता॑ [१] स नो॑ मुञ्च॒त्वँ ह॑सः। यः
स॑ङ्ग्रा॒मं नय॑ति॒ सं व॒शी यु॒धे यः पु॒ष्टानि॑
सँ सृ॒जति॑ त्र॒याणि॑। स्तौमीन्द्रं॑ नाथि॒तो
जो॑हवीमि॒ स नो॑ मुञ्च॒त्वँह॑सः। म॒न्वे वां॑
मित्रावरुणा॒ तस्य॑ वित्तँ॒ सत्यौ॑जसा
दृँ हणा॒ यं नु॒देथे॑। या राजानँ स॒रथं॑
या॒थ उ॑ग्रा॒ ता नो॑ मुञ्चत॒माग॑सः। यो वाँ॒
रथ॑ऋ॒जुर॑श्मिः स॒त्यधर्मा॒ मि॒थु श्चर॑न्तमुप॒-
याति॑ दू॒षय॑न्। स्तौमि॑ [ २ ] मि॒त्रावरु॑णा-
नाथि॒तो जो॑हवीमि॒ तौ नो॑ मुञ्चत॒माग॑सः।
वा॒योः स॑वि॒तुर्वि॒दथा॑नि मन्महे॒ यावा॑त्म॒न्व
द्वि॑भृ॒तो यौ च॒ रक्ष॑तः। यौविश्व॑स्य परि॒भू-
ब॑भू॒वतु॒स्तौ नो॑ मुञ्चत॒माग॑सः। उप॒ श्रेष्ठा॑ न
आ॒शिषो॑ दे॒वयो॒र्धर्मे॑ अस्थिरन्। स्तौमि॑
वा॒युँ स॑वि॒तारं॑ नाथि॒तो जो॑हवीमि॒ तौ नो॑
मृञ्चत॒माग॑सः। र॒थीत॑मौ रथी॒नाम॑ह्व ऊ॒तये॒
शु॒भं गमि॑ष्ठौ सु॒यमो॑भिर॑श्वैः॑ ययोः॑ (३)
वां॒ दे॒वौ॒ दे॒वेष्वनि॑शित॒मोज॒स्तौ नो मुञ्च॒त-
[[2271]]
माग॑सः । यदया॑तं वह॒तुँसू॒र्याया॑स्त्रिच॒क्रेण॑
सँ॒सद॑मि॒च्छमा॑नौ। स्तौमि॑ दे॒वाव॒श्विनौ॑
नाथि॒तो जो॑हवीमि॒ तौ नौ॑ मुञ्चत॒माग॑सः।
म॒रुतां॑ मन्वे॒ अधि॑ नो ब्रवन्तु॒ प्रेमां वाचं॒
विश्वा॑मवन्तु॒ विश्वे॑। आ॒शून्हु॑वे स॒यमा॑नू॒तये॒
ते नो॑ मुञ्च॒न्त्वेन॑सः। ति॒ग्ममायु॑धं वीडितँ
सह॑स्वद्दिव्यँ श॑र्धः [४] पृत॑नासु जि॒ष्णु।
स्तौमि॑ दे॒वान्म॒रुतो॑ नाथि॒तो जो॑हवीमि॒ ते
नो॑ मुञ्च॒न्त्वेन॑सः। दे॒वानां॑ मन्वे॒ अधि॑ नो
ब्रवन्तु॒ प्रेमां वाचं॒ विश्वा॑मवन्तु विश्वे॑।
आ॒शून्हु॑वे सु॒यमा॑नू॒तये॒ ते नो॑ मुञ्च॒न्त्वेन॑सः।
यदि॒दं मा॑ऽमि॒शोच॑ति॒ पौरु॑षेयेण॒ दैव्ये॑न।
स्तौमि॒ विश्वा॑न्दे॒वान्ना॑थि॒तो जो॑हवीमि॒ ते
नो॑ मुञ्च॒न्त्वेन॑सः। अनु॑ नो॒ऽद्यानु॑मति॒रनु
[५] इद॑नुमते॒ त्वं वै॑श्वान॒रो न॑ ऊ॒त्या
पृ॒ष्टो दि॒वि। ये अप्र॑थेता॒ममि॑तेभि॒रोजो॑भि॒र्ये
प्र॑ति॒ष्टे अभ॑वतां॒ वसू॑नाम्। स्तौभि॒ द्यावा॑-
पृथि॒वी ना॑थि॒तो जोहवीमि॒ ते नो॑ मुञ्चत॒-
मँ हसः। उर्वी रोदसी॒ वरि॑वः कृणोतं॒
क्षेत्र॑स्य पत्नी॒ अधि॑ नो ब्रूयातम्। स्तौमि॒
द्यावा॑पृथि॒वी ना॑थितो जो॑हवीमि॒ ते नो॑
[[2272]]
मुञ्च॒तमँ ह॑सः । यत्ते॑ व॒यं पु॑रुष॒त्रा य॑वि॒ष्ठा
वि॑द्वाँ सश्चकृ॒म कच्च॒न [६] आगः॑ ।
कृ॒धी स्व॑स्भाँ अदि॑ते॒रना॑गा॒ व्येनाँ॑ सि
शिश्रथो॒ विष्व॑गग्ने। यथा॑ ह॒ तद्व॑सवो
गौ॒र्यं चित्प॒दि षि॒ताममु॑ञ्चता यजत्राः
ए॒वा त्वम॒स्मत्प्र मु॑ञ्चा॒ व्यँ हः॒ प्रता॑र्यग्ने
प्रत॒रां न॒ आयुः॑ (७) ।।
(गन्ता॑ दू॒षय॒न्त्स्तौमि॒ ययोः॒ शर्धोऽनु॑ मति॒रनु॑ च॒न चतु॑स्त्रिँ शच्च)।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
सप्तमप्रपाठके पञ्चदशोऽनुवाकः ।। १५ ।।
अग्ना॑विष्णू॒ ज्यैष्ठ्यँ॒ शे चोर्क्चाश्मा॑ चा॒ग्निश्चाँ॒ शुश्चे॒ध्मश्चा॒ग्निश्च घ॒र्म ग॒र्भा
श्चैका॑ च॒ वाजो॑ नो॒ऽग्निं यु॑नज्मि॒ ममा॑ग्ने॒ऽग्नेर्म॑न्त्रे॒ पञ्च॑दश ।। १५ ।।
अग्ना॑विष्णु अ॒ग्निश्च॒ वाजो॑ नो॒ अद॑ब्धो गो॒पा एका॒न्नच॑त्वा-
रिँशत् ।। ३९ ।।
हरि ॐ ।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
सप्तम प्रपाठक ।। ७ ।।
इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां
चतुर्थाष्टकः ।। ४ ।।
[[2273]]
(अथ चतुर्थकाण्डे सप्तमप्रपाठके पञ्चदशोऽनुवाकः) ।
चतुर्दशानुवाके विहव्याख्या इष्टका उक्ताः। तावतेष्टकाचयनमन्त्राः समाप्ताः। अथ पञ्चदशेऽश्वमेधसंवन्धिन्यो याज्यानुवाक्या उच्यन्ते । अयं चानुवाकोऽस्मात्काण्डादुत्क्रष्टब्यः।
कल्पः— “अग्नयेऽँहोमुचेऽष्टाकपाल इति दशहविषं मृगारेष्टिमनुनिर्वपति समानं तु स्विष्टकृदिडमग्नेर्मग्ने प्रथमस्य प्रचेतस इति यथालिङ्गं याज्यानुवाक्याः” इति। तत्रोदाहृतस्य प्रथमहविषः पुरोनुवाक्यामाह–
अग्नेर्मन्व इति। पञ्चजना निषादपञ्चमा वर्णास्तेभ्यो हितः पाञ्चजन्यस्तादृशं यमग्निं बहवो यजमानाः समिन्धते प्रदीपयन्ति, प्रथमस्य सृष्ट्यादावुत्पन्नस्य प्रचेतसः प्रकृष्टज्ञानवतस्तस्याग्नेर्मूर्तिं मन्त्रे मनसा चिन्तयामि। विश्वस्यविशि सर्वस्यां प्रजायां प्रविविशिवांसं जाठरग्निरूपेण प्रविष्टवन्तं तमग्निमीमहे वयं प्राप्नुमः। सोऽग्निर्नोऽ-स्मानंहसः पापान्मुञ्चतु मुक्तान्करोत्। तत्रैव याज्यामाह –
यस्येदं प्राणन्निति। प्राणच्छ्वासोपेतं निमिषन्निमेषोपेतं यदिदं जगदेजवि कम्पते चेष्टत इत्यर्थः। तत्सर्वं यस्याग्नेरधीनं जातं पूर्वमुत्पन्नं जनमानमितः परं जनिष्यमाणं च जगत्सर्वं केवलं परनिरपेक्षं सद्यस्याधीनं तमग्निं स्तौगि। नाथितः फलयाञ्चायुक्तोऽहं जोहवीमि पुनः पुनर्जुहोमि । शेषं पूर्ववत्।
अथेन्द्रायाँ होमुच एकादशकपाल इत्यस्य पुरोनुवाक्यामाह–
इन्द्रस्य मन्य इति। प्रथमस्य सृष्ट्यादावत्पन्नस्य प्रचेतसः प्रकृष्टज्ञानवत इन्द्रस्य मूर्तिं मन्येऽहं मनसा चिन्तयामि। वृत्रघ्नः शत्रुघातिन इन्द्रस्योप समीपं प्राप्ताः स्तोमाः स्तोत्राणि मां यजमानगुपागुः प्राप्ताः। इन्द्रगुणकथनपराणि स्तोत्राणि मज्जि-ह्वायामवस्थितानीत्यर्थः। य इन्द्रो दाशुयो हविर्दत्तवतः सुकुतः सुष्टु कर्मानुतिष्ठतो यजमानस्य हवमाह्वानं यज्ञं वोपगन्ता प्राप्स्यति।
तत्रैव याज्यमाह–
[[2274]]
य संग्राममिति। य इन्द्रो युधे योद्धुं वशी स्वाधीनपरिवारोफ्ते संग्रामं युद्धदेशं प्रति संनयति स्वकीयां सेनां सम्यक्प्रापयति। यश्चेन्द्रः पुष्टानि संपूर्णानि त्रयाणि गवाश्वपुरुषरूपाणि संसृजति यजमानेन योजयति। शेषं पूर्ववत्।
अथ मित्रावरुणाभ्यामागोमुग्भ्यां पयस्येत्यस्य पुरोनुवाक्यामाह–
मन्वे वाभिति। मित्रावरुणा हे मित्रावरुणौ वां युवयोर्मूर्तिं मन्त्रे मनसा घ्यायामि। सत्यौजसाऽकृत्रिमबलौ दृंहणा स्तम्भयन्तौ युवां यमस्मद्वैरिणं नुदेथे निराकुरुत [ थ ] स्तस्ब वैरिणो वित्तं दुष्टबुद्धिं जानीतम्। या युवां यावुभौ राजानं दीप्तिमन्तं सरथं रथसहितमादित्यं याथो लोकोपकाराय वृष्टिमुत्पादयितुं प्राप्नुथः। उग्राऽनिष्टनिवारणेऽत्यन्तं तीक्ष्णौ ता तौ युवां नोऽस्मानागसः पापान्मुञ्चतं मुक्तं कुरुतम्। तत्रैव याज्यामाह–
यो वाँ रथ इति। हे मित्रावरुणौ वां युवयोर्यो रथ ऋजुरश्मिरकुटिलप्रग्रहः सत्यधर्माऽवितथधारणश्च भवति सरयो मिथुश्चरन्तं मिथ्याचारिणमन्याय कारिणं शत्रुं दूषयन्नुपयाति बाधमान प्राप्नोति। स्तौमीत्यादि पूर्ववत्। अथ वायोसावित्र आगोमु-ग्भ्यां चरुरित्यस्य पुरोनुवाक्यामाह–
वायोः सावतुरिति। यो वायुर्यश्च सविता तयोरुभयोर्विदथानि वेदनान्यभि-प्रायविशेषान्ममहे जानीमः। यौ वायुसवितारावात्मन्वत्स्वशरीरमिव विभृत सर्वं जग-द्धारयतः किंच यौ वायुसवितारौ रक्षतो जगत्पालयतः। किंच यौ वायुसवितारौ विश्वस्य कृत्स्नस्य जगतः परिभू परितो व्यापकौ वभूवतुस्तावित्यादि सर्ववत्। तत्रैव याज्यामाह–
उप श्रेष्ठा न इति। श्रेष्ठाः प्रशस्ता नौऽस्मदीया आशिषः फलविशेषा देवयोर्वायुसवित्रोः संबन्धिनि धर्मे कर्मण्युपास्थिरन्नुपास्थितास्तदधीना इत्यर्थः। पूतैमीत्यादि पूर्ववत्। अथाश्विभ्यामावोमुग्भ्यां धाना इत्यस्य पुरोनुवाक्यामाह–
रथीतमाविति। रथीनां रथीतमौ ये रथिनो देवाः सन्ति तेषां मध्येऽतिशयन रथिनौ सुयमेभिः सुष्ठु नियन्तुं शक्यैरश्वैः शुभं समीचीनं देशं गमिष्ठा-
[[2275]]
वतिशयेन गच्छन्तावश्विनौ। * अहवेऽहमाह्वयामि। (हे) देवावश्विनौ देवेषु सर्वेषु मध्ये ययोर्वां युवयोरोजो वलमनिशितमन्येन केनापि न तीक्ष्णीकृतं किंतु स्वभावत एव तीक्ष्णमित्यर्थः। तावित्यादि पूर्ववत्। तत्रैव याज्यामाह–
यदयातं वहतुमिति। यद्यस्मात्कारणात्सूर्यायाः सूर्यपत्न्याः स्वमातुः संसद-मिच्छमानौ। सद्भावस्थानमिच्छन्तावश्विनौ युवां त्रिचक्रेण चक्रत्रययुक्तेन रथेन वहतुं वाहयितुप्रयातं रथस्योपरि गतवन्तौ तस्मात्कारणात्तथाविधौ देवौ स्तौनीत्यादि पूर्ववत्। अथ मरुद्भ्य एनोमुग्भ्यः सप्तकपाल इत्यस्य पुरोनुवाक्यामाह—
मरुतां मन्व इति। मरुतां मरुत्संज्ञकानां देवानां मूर्तिं मन्वेऽहं मनसा घ्यायागि। तेन च मरुतो नोऽस्मानधिब्रुवन्तु अधिकान्ब्रुवन्तु। ते च विश्वे सर्वेऽपीमां वाचं मदीयां प्रार्थनां विश्वां सर्वामपि प्रावन्तु प्रकर्षेण रक्षन्तु। आशूञ्शीघ्रगामिनः (ण) सुयमान्सुष्ठु नियामकान्मरुदाख्यान्देवानूतये रक्षणाय हुव आह्वयामि। ते न इत्यादि पूर्ववत्। तत्रैव याज्यामाह–
तिग्ममायुधामिति। मरुदाख्यानां देवानामायुधं तिग्मादिविशेषविशिष्ठं तिग्मं तीक्ष्णं वीडितं दृढम्। किंच, मरुतां शर्धो बलं सहस्वत्परेषामभिभवितृ दिव्यं यथो-चितब्यवहारयोग्यम्। अत एव पृतनासु परकीयसेनासु जिष्णु जयशीलं, स्तौमीत्यादि पूर्ववत्। अथ किश्वेभ्यो देवेभ्य एनीमुग्भ्यो द्वादककपाल इत्बस्य पुरोनुवाक्यामाह–
देवानां मन्व इति। पूर्वोक्ता मरुतां पुरोनुवाक्या, तथेयं विश्वेपां देवानां पुरो-नुवाक्या योजनीया। तत्रैव याज्यामाह–
यदिदं मेति। पौरुषेयेण मनुष्यव्यापारेण दैव्येन देवव्यापारेण च संपादितं यदिदं दुःखं माऽभिशोचति, अभितो मां क्लेशयति। तस्य दुःखस्यापनो दनार्थं स्तौमी-त्यादि पूर्ववत्। अथानुमत्यै चरुरित्यस्य याज्यापुरोनुवाक्ययोः प्रतीके दर्शयति–
- ऊतये इति यदस्य व्याख्यानां स्खालिप्तम्।
[[2276]]
अनु नोऽद्येति। अनु नोऽद्यानुमतिर्यज्ञामिति पुरोनुवाक्या। अन्विदनुमते त्वं मन्यासा इति याज्या। एतच्चोभयमिदं वामास्ये हविरित्यनुवाके व्याख्यातम्।
अथाग्नये वैश्वानराय द्वादशकपाल इत्यस्य याज्यापुरोनुनाक्ययोः प्रतीके दर्शयति–
वैश्वानरो न इति। वैश्वानरो न ऊत्या प्र यात्विति पुरोनुवाक्या । पृष्ठो दिवि पृष्ठो अग्निरिति याज्मा। एतच्चोभयं वैश्वानरो न ऊत्येस्मिन्ननुवाके व्याख्यातम्।
अथ द्यावापृथिवीभ्यामँहोमुग्भ्यां द्विकपाल इत्यस्य पुरोनुवाक्यामाह–
ये अप्रथेतामिति। ये द्यावापृथिव्यावमितेभिरोजोभिः परिच्छेत्तुमशक्यैर्ब-लैरप्रथेतां प्रख्याते अभूताम्। किंच, ये द्यावापृथिव्यौ वसूनां धनानां प्रतिष्ठे आश्रय-भूते अभवतां ते द्यावापृथिब्यौ स्तौमीत्यादि पूर्ववत्। तत्रैव याज्यामाह–
उर्बी रोदसी इति। उर्वी उर्व्यावत्यन्तं विस्तृते रोदसी रोदस्यौ हे द्यावापृ-थिव्यौ वरिवो धनं पूजां वा कृणोतं कुरुतम्। क्षेत्रस्य पत्नी पत्न्यौ हे द्यावापृथिव्यौ नोऽस्मानधिब्रूयातमधिकात्कथयतम्। स्तौमीत्यादि पूर्ववत्।
अथ स्विष्टकृतः पुरोनुवाक्यामाह–
यत्ते वयमिति। हे यविष्ट युवतमाग्ने वयममिद्वांसो ज्ञानरहिता। सन्तस्ते त्वदीयेषु पुरुषा पुरुषेषु यत्कच्चानाऽऽगो यं कमप्यपराधं चकृम कृतवन्तः। अदि-तेरखण्डनीयस्य तवास्माननागा अपराधरहितान्सुकृधि सुष्ठु कुरु। हेऽग्ना एनांस्य-स्मदीयानि पापानि विष्वक्सर्वथा विशिश्रयो विशेषण श्रथितानि कुरु।
तत्रैव याज्यामाह –
यथा ह तदिति। यजत्रा यष्टाव्या वसवो जगन्निवासहेतवोऽग्निना सहिता हे देवाः पदि सितां बन्धनस्थाने स्वकीयस्य पाशस्याऽऽक्रमणेन पादे बद्धां गौर्यंचिद्रौरी-मपि यां कांचिद्गौरवर्णां गाममुञ्चत बन्धान्मुक्तां कृतवन्तः। हेऽग्ने तद्यथा ह येनैव प्रकारेण तद्वन्धमोचनं कृतमेवा त्वमेवमेव त्वमपि अस्मदस्मत्सकाशाद्व्यंहो विविधं पापं प्रमुञ्च प्रकर्षेण मुक्तं कुरु। नोऽस्मदीयमायुः प्रतरामत्यधिकं यथा भवति तथा प्रातारि प्रतर संपादय।
[[2277]]
अत्र विनियोगसंग्रहः–
अग्नयेऽँहोमुचेऽष्टाकपाल इत्यादिनेरिताः।
इष्टयोऽग्नेर्मन्वयुक्ता याज्यास्तासु क्रमादिमाः।।
अग्नेराग्नेयके द्वी [ही]न्द्रस्यैन्द्रे मन्वे ह्यनन्तरे।
मैत्रावरुणके वायोर्वायोसावित्रके रथी।।
आश्विने मरुतां मारुते देवा वैश्वदेविके।
अनुद्वयोश्वाऽऽ (यं चाऽऽ)नुमते वैश्वा वैश्वानरे तथा।।
द्यावापृथिव्यके ये तु यत्ते स्विष्टकृतीर्यते।
अनुवाके पञ्चदशे मन्त्रा द्वाविंशतिर्मताः।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वेदीय-तैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्तमप्रपाठके
पञ्चदशोऽनुवाकः ।। १५ ।।
वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन्।
पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः।।
इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधिराजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन माधावाचार्येण विरचिते
वेदार्थप्रकाशे कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
चतुर्थकाण्डे सप्तमः प्रपाठकः ।।७ ।।
[[2278]]
इति श्रीमद्विद्यातीर्थमहेश्वरपरावतारस्य श्रीमद्राजाधि-
राजपरमेश्वरस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरि-
पालकेन माधावाचार्येण विरचिते वेदार्थप्रकाशे
कृष्णयजुर्वेदीयतैत्तिरीयसंहिताभाष्ये
चतुर्थः काण्डः समाप्तः ।। ४ ।।
मूलक्रमेण चतुर्थाष्टके—प्रं. ७ । अ० ७२ ।
भाष्यक्रमेण चतुर्थकाण्डे—प्रं. ७ । अ० ७२ ।
मूलक्रमेणाऽऽदितः समष्ट्यङ्काः अष्ट. ४ प्र० २६ अ० ३४८।
भाष्यक्रमेणाऽऽदितः समष्ट्यङ्का का० ४ । प्र० २६ अ० ३४३।
समाप्तोऽयं श्रीमत्सायणाचार्यविरचितभाष्यसमेतायाः कृष्णयजुर्वेदीयतैत्तिरीयसंहितायाश्चतुर्थः काण्डः ।। ४ ।।