१३

( अथ चतुर्थकाण्डे सप्तमप्रपाठके त्रयोदशोऽनुवाकः )।
अ॒ग्निं यु॑नज्मि॒ शव॑सा घृ॒तेन॑ दि॒व्यँ सु॑प॒र्णं
वयसा बृ॒हन्त॑म। तेन॑ व॒यं प॑तेम ब्र॒घ्‍नस्य॑
वि॒ष्टषँ॒ सुवो॒ रुहा॑णा॒ अधि॒ नाक॑ उत्त॒मे।
इ॒मौ ते॑ प॒क्षाव॒जरौ॑ पत॒त्रिणो॒ याभ्याँ॒ रक्षाँ॑
स्यप॒हँस्य॑ग्ने। ताभ्यां॑ पतेम सु॒कृता॑मु लो॒कं
यत्रर्ष॑यः प्रथम॒जा ये पु॑रा॒णाः। चिद॑सि
समु॒द्रयो॑नि॒रिन्दु॒र्दक्षः॑ श्ये॒न ऋ॒तावा॑। हिर॑-
ण्यपक्षः शकु॒नो भुर॒ण्युर्म॒हान्त्स॒धस्थे॑ ध्रु॒वः
[१] आ निष॑त्तः। नम॑स्ते अस्तु॒ मा मा॑
हिँसी॒र्विश्व॑स्य मू॒र्द्धन्नधि॑ तिष्ठसि श्रि॒तः।
स॒मु॒द्रे ते॒ हृद॑यम॒न्तरायु॒र्द्यावा॑पृथि॒बी भुव॑ने॒-
ष्वर्पि॑ते। उ॒द्‍नो द॑त्तोद॒धिं भि॑न्त दि॒वः प॒र्ज-
न्या॑द॒न्तरि॑क्षात्पृथि॒व्यास्ततो॑ नो॒ वृष्ट्या॑ऽवत।
दि॒वो मू॒र्धाऽसि॑ पृथि॒व्या नाभि॒रूर्ग॒पामेष॑-

[[2253]]

धीनाम्। वि॒श्वायुः॒ शर्म॑ स॒प्रथा॒ नम॑स्प॒थे।
येनर्ष॑य॒स्तप॑सा स॒त्र (२) आस॒तेन्धा॑ना
अ॒ग्निँ सुव॑रा॒भर॑न्तः। तस्मि॑न्न॒हं नि द॑धे॒
नाके॑ अ॒ग्निमे॒तं यमा॒हुर्मन॑वः स्ती॒र्णब॑र्हिषम्।
तं पत्‍नी॑भि॒रनु॑ गच्छेम देवाः पु॒त्रैर्भ्रातृ॑भिरु॒त
वा॒ हिर॑ण्यैः। नाकं॑ गृह्णा॒नाः सु॑कृ॒तस्य॑
लो॒के तृ॒तीये॑ पृ॒ष्ठे अधि॑ रोच॒ने दि॒वः। आ
वा॒चो मध्य॑मरुहद्‍भुर॒ण्युर॒यम॒ग्निः सत्प॑ति॒
श्‍चेकि॑तानः पृ॒ष्ठे पृ॑थि॒व्या निहि॑तो॒ दवि॑-
द्युतदधस्प॒दं कृ॑णुते ( ३ ) ये पृ॑त॒न्यवः॑। अ॒-
यम॒ग्निर्वी॒रत॑मो वयो॒धाः स॑ह॒स्रियो॑ दीप्य-
ता॒मप्र॑युच्छन्। वि॒भ्‍राज॑मानः सरि॒रस्य॒
मध्य॒ उप॒ प्र या॑त दि॒व्यानि॒ धाम॑। सं प्र
च्य॑वध्व॒मनु॒ सं प्र या॒ताग्ने॑ प॒थो दे॑व॒याना॑-
न्कृणुध्वम्। अ॒स्मिन्त्स॒धस्थे॒ अध्युत्त॑रस्मि॒-
न्विश्वे॑ देवा॒ यज॑मानश्‍च सीदत। येना॑
स॒हस्रं॒ वह॑सि॒ येनाग्ने सर्ववेद॒सम्। तेने॒मं
य॒ज्ञं नो॑ वह देव॒यानो॒ यः ( ४ ) उ॒त्त॒मः।
उद्‍बु॑ध्यस्वाग्ने॒ प्रति॑ जागृह्येनमिष्टापू॒र्ते सँ
सृ॑जेथाम॒यं च॑ । पुनः॑ कृ॒ण्वँ स्त्वा॑ पि॒तरं॒
युवा॑नम॒न्वाताँ॑ सी॒त्त्वयि॒ तन्तु॑मे॒तम्। अ॒यं
ते॒ योनि॑र्॒ऋ॒त्वियो॒ यतो॑ जा॒तो अरो॑चथाः।

[[2254]]

तं जा॒नन्‍न॑ग्‍न॒ आ रो॒हाथा॑ ना वर्धया र॒यिम्
[५] ।।
( ध्रुवः सत्रं कृणु॑प्ते यः सप्तत्रिँ॑ शञ्च )।

इति कृष्णयजुर्वेदीयतैत्तिरीयसंहितायां चतुर्थाष्टके
सप्तमप्रपाठके त्रयोदशोऽनुवाकः ।। १३ ।।

( अथ चतुर्थकाण्डे सप्तमप्रपाठके त्रयोदशोऽनुवाकः )।
द्वादशो वाजप्रसवीयहोमोऽभिहितः। अथ त्रयोदशेऽग्नियोगोऽभिधीयते।
कल्पः—“ पुरस्तात्प्रातरनुवाकादग्निं युनज्मीमिति तिसृभिरभिमृशन्‍नग्निं युनक्ति ” इति। तत्र प्रथमामाह–
अग्निं युनज्मीति। अग्निं चितमेतं वह्‍निं शवसा बलेन घृतेन घृतादिद्रव्य- युक्तेन कर्मणा युनज्पि रथेनाश्वमिवाहं योजयामि। कीदृशमग्निं, दिव्यं द्योतनात्मकं, सुपर्णं पक्ष्याकारं, वयसा बृहन्तं चिरकालभाविनम्। तेनाग्निना वयं यजमाना ब्र ध्‍नस्याऽऽदित्यस्य विष्टपं तापरहितं स्थानं पतेम प्राप्‍नुयाम। कीदृशा वयम्, उत्तमे नाकेऽत्युत्कृष्टे स्वर्गलोके सबोऽधिरुहाणाः सुखप्रापकप्रदेशमधिरोढुकामाः। अथ द्वितीयामाह–
इमौ ते पक्षावति। पतत्रिणः पक्ष्याकारस्य ते तवाग्नेरिमौ पक्षावजरौ कदाचिदपि जीर्णौ न भवतः। हेऽग्‍ने याभ्यां पक्षाभ्यां त्वं रक्षांस्यपहंसि मारयसि ताभ्यां वयं सुकृतामु पुण्यकृतामेव पुरुषाणां योग्यं लोकं पतेम प्राप्‍नुयाम्। ये पुराणा अनादिसिध्दा ऋषयो महर्षयः सन्ति ये च प्रथमजाः सृष्ट्यादावेवोत्पन्‍नास्तादृशा यत्र लोके निबसन्ति तं लोकं पतेम। तृतीयामाह –
चिदसि समुद्रेति । हेऽग्‍ने त्वं चिदादिविशेषणैर्विशेषितोऽसि। चिज्‍जगत-श्चेतयिता यजमानौश्चितो वा । समुद्रयोनिर्यथा समुद्रः सर्वेषां जलग्रहाणां स्थानं तथा त्वं सर्वेषां क्रतूनां स्थानम्। इन्दुः परमैश्वर्ययुक्तः। दक्षः कर्मनिष्पादन कुशलः। श्येनः पक्षिविशेषाकारः । ऋतावा सत्यवान्। हिरण्यपक्षः सुवर्णं मयाभ्यां पक्षाभ्यामुपेतः। शकुनः कामनादिभेदेन कङ्कादिपक्ष्याकारः। भुरण्युः

[[2255]]

सर्वं भरितं क्षमः । महान्बह्‍वीभिरिष्टकाभिश्चितत्वात्प्रौढः। सधःस्थ आदित्येन सहैकत्र स्थितियोग्ये मण्डले (ध्रुवः स्थिरः) । आनिषत्तः समन्तत उपविष्टः।
कल्पः – “यज्ञायज्ञियस्य स्तोत्र एकयाऽप्रस्तुतं भवत्यथ नमस्ते अस्तु मा मा हिँ सीरिति द्वाभ्यामग्निमभिमृशति” इति। तत्र प्रथमामाह–
नमस्ते अस्त्विति। हेऽग्‍ने ते नमोऽस्तु। त्वं कर्मणि त्वद्यागकारिणं मा मां मा हिंसीर्मा विनाशय। त्वं विश्वस्य सर्वस्य जगतो मूर्धञ्शिरोवदुत्तमे चितिप्रदेशे श्रित आश्रितः सन्नधितिष्ठसि। अधिको भूत्वा वर्तसे। ते हृदयं त्वदीयं चित्तं समुद्रे वर्तते। यद्‍वृष्टिद्वारेण समुद्रसमानं जलं संपादयिष्यामीत्येवं सर्वदा तवा नुग्रहः। तथाऽन्तरायुस्त्वदीयचित्तस्य मध्ये सर्वेषां प्राणिनामायुस्तिष्ठति चिरं जीवन्त्वेते प्राणिन इति यदा स्मरसि तदानीं तेषामायुर्भवत्येव । किंच भुवनेषु सर्वेषु लोकेषु निमित्तभूतेषु द्यावापृथिवी अर्पिते उपरि द्यौरधो भूमिश्च त्वया स्थपिते। एतयोर्मध्ये सर्वे लोकास्तिष्ठन्त्वित्येवं तवानुग्रहः। अथ द्वितीयामाह–
उद्‍नो दत्तोदघिमिति। अत्र पूजार्थमेकस्मिन्नेवाग्नौ बहुत्वमारोप्य निर्दिश्यते। हेऽग्‍नयो यूयमुदूनो दत्तादकानि प्रयच्छत। उदकदाने क उपाय इति तदुच्यते—उदधिं भिन्त, उदकं धीयतेऽस्मिन्नित्युदघिर्मेघस्तं विदारयत। केभ्यो निमित्तेभ्यः, दिवोऽन्तरिक्षात्पृथिव्या लोकत्रयं निमित्तीकृत्येत्यर्थः ततो मेघवि दारणादूर्ध्वं पर्जन्यादागतया वृष्ट्या नोऽस्मानवत रक्षत। पुनरप्येकत्वेनैव संबोध्योच्यते—हेऽग्ने त्वं दिवो मूर्धाऽसि द्युलोकस्य मूर्धस्थानीय आदित्यरूपोसि। पृथिव्या नाभिरसि नाभिवन्मध्यदेशे वर्तसे। अपामोषधीनां चोर्ग्रसोऽसि। त्वया हि पाके क्रियमाणे सति तत्र रसो जायते तथा विश्वायुरसि सर्वस्य जगत आयुष्प्रदो-ऽसि। शर्म शरणभूतोऽसि। सप्रथाः सविस्तारोऽसि। पथे पुण्यलोकमार्गरूपाय तुभ्यं नमोऽस्तु। अग्नियोगमन्त्रं व्याख्यातुं प्रस्तौति–
“सुवर्गाय वै लोकाय देवरथो युज्यते यत्राऽऽकूताय मनुष्यरथ एष खलु देवरथो यदग्निः” (सं० का० ५ प्र० ४ अ० १०) इति।
द्विविधो हि रथो देवरथो मनुष्यरथश्चेति। तत्र स्वर्गप्राप्तये देवरथः सज्‍जी

[[2256]]

क्रियत। यत्र क्वापि ग्रामविशेषे गन्तुमाकूतमभिपायो भवति तदर्थं मनुष्यरथः सज्‍जी क्रियते। योऽयमत्र चीयमानोऽग्निः स एष देवरथो न तु मनुष्यरथः इत्यं प्रस्तुत्य मन्त्रस्य तात्पर्यं दर्शयति–
“अग्निं युनज्मि शवसा घृतेनेत्याह युनक्त्येवैनँ स एनं युक्तः सुवर्गं लोकमभि वहति” (सं० का० ५ प्र० ४ अ० १०) इति।
एनं देवरथरूपमग्‍निमनेन मन्त्रेण युनक्त्येव। स च युक्तोऽग्निरेव यजमानं स्वर्गं प्रापयति। उक्तमन्त्रपञ्चके मन्त्रत्रयं विभज्य विनियुङ्क्ते–
यत्सर्वाभिः पञ्चभिर्युञ्‍ज्याद्युक्तोऽस्याग्निः प्रच्युतः स्यादप्रंतिष्ठिता आहुतयः स्युरप्रतिष्ठिताः स्तोमा अप्रतिष्ठितान्युक्थानि तिसृभिः प्रातःसवनेऽभिमृशति त्रिवृद्वा अग्निर्यावानेवाग्निस्तं युनक्ति यथाऽनसि युक्त आधीयत एवमेव तत्प्रत्याहुतयस्तिष्ठन्ति प्रति स्तोमाः प्रत्युक्थानि” (सं० का० ५ प्र० ४ अ० १०) इति।
आदावेव मन्त्रपञ्चकेन योजने सति कालान्तरे योजयितुं मन्त्राभावादयं युक्तोऽग्निः प्रच्युतो भवेत्। प्रच्युतेऽग्‍नावाहुतीनां स्तोत्रशस्त्रयोश्च प्रतिष्ठा न भवेत्। अतः पश्चाद्योक्तुं मन्त्रद्वय मवशेष्य प्रातःसवने तिसृभिरमिमृशेत्। तथा सति त्रिगुणमग्‍निं सर्वमप्यभिमृशति। ततो यथा लोके बलीवर्दैयुक्ते शकटे सर्वं ग्रामान्तरे नेतध्यं वस्तुजातमभिनिधीयत एवमेतस्मिन्नग्‍नावाहुतयः स्तोत्राणि (शस्त्राणि) च प्रतितिष्ठन्ति। अथावशिष्टं मन्त्रद्वयं विनियुङ्‍क्ते–
“यज्ञायज्ञियस्य स्तोत्रे द्वाभ्याममि मृशत्येतावान्वै यज्ञो यावानग्‍निष्टोमोभूमा त्वा अस्यात ऊर्ध्वः क्रियते यावानेव यज्ञस्तमन्ततोऽन्वारोहति” (सं० का० ५ प्र० ४ अ० १०) इति।
यज्ञायज्ञा वो अग्‍नय इत्यस्यामृच्युत्पन्नं साम यज्ञायज्ञियं, तस्य साम्‍नः संबन्धि स्तोत्रं तृतीयसवने प्रवर्तते। तस्मिन्प्रवर्तमाने सति शिष्टाभ्यां द्वाभ्यां मन्त्राभ्यामग्‍निमभिमृशेत्। यज्ञायज्ञियस्तोत्रान्तो हि प्रकृतिभूतोऽग्‍निष्टोमः। स च यावांस्तावानेवोक्थ्यातिरात्रादिः सर्वोऽपि यज्ञः। एतावदेव हि सर्वेस्याषि यज्ञस्य

[[2257]]

मुख्यं शरीरम्। अस्योक्थ्यादिक्रतोर्यज्ञायज्ञियस्तोत्रादूर्ध्वस्तु स्तोत्रसमूहो यः क्रियते सतु मैव क्रियते, तेनातिरिक्तेन पूर्वं विद्यमानस्य यज्ञशरीरस्य वाहुल्यमेव भवति, न तु किंचिन्‍नूतनं शरीरम्। एवं सति यज्ञायज्ञियस्तोत्रकालीनाभिमर्शनेनातिरिक्तेनाग्‍नि- ष्टोमोक्थ्यातिरात्रादिरूपो यज्ञो यावानस्ति तं सर्वमप्यन्तकालेऽन्वारोहति कृत्स्नमपि यज्ञजातं प्राप्‍नोतीत्यर्थः। मन्त्रद्वित्वं प्रशंसति–
“द्वाभ्यां प्रतिष्ठित्यै” [सं० का० ५ प्र० ४ अ० १०] इति।
स्तोत्रमध्य एवावान्तरकालाविशेषं विधत्ते –
“एकयाऽप्रस्तुतं भवत्यथाभिमृशत्युपैनमुत्तरो यज्ञो नमत्यथो संतत्यै” (सं० का० ५ प्र० ४ अ० १० ) इति।
यज्ञायज्ञियस्य स्तोत्रे ह्येकविंशः स्तोमो विहितः। तिस्रो हि ऋच एकविं-शतिसंख्यापूरणायाऽऽवर्तनीयाः। तत्र हि विंशतिस्तोत्रीयासूक्तासु याऽन्ता (न्त्या) स्तोत्रीया तया स्तोत्रमप्रस्तुतमनुपक्रान्तं यदा भवति तदानीं मन्त्राभ्यामभिमृशेत्। एवं सत्युत्तरकालभावी यज्ञः सर्वोऽप्येनं यजमानमुपनमति। अपि च तदभिमर्शनं यज्ञनैरन्तर्याय संपद्यते।
कल्पः—“ पुनश्चितिस्त्रिष्वर्थेषु श्रूयतेऽस्त्रवणार्थे समृद्ध्यर्थे संतानार्थे चास्रवणार्थं व्याख्यास्यामो यदीष्ट्या यदि पशुना यदि सोगेन यजेत योऽप्यस्य पुरोऽ–ग्निस्तमन्ववसाय यजेतापि वा येनर्षय इत्यष्ठौ नाना मन्त्रा उत्तरवेद्यामुपदध्यात् ” इति। तत्र प्रथमामाह–
येनर्षय इति। येन स्वगेंण निमित्तभूतेन पूर्वे महर्षयस्तपसा संतापयक्ते-नाग्निना सत्रमासतानुष्ठितवन्तः । कीदृशा महर्षयः, अग्निमिन्धानाः प्रज्वलयन्तः । सुवराभरन्तः स्वर्गमाहर्तुं समुद्यताः अहमपि तस्मिन्नाके निमित्तभूते सति एतमग्‍निं निदधे स्थापयामि। यमग्‍निं मनवः पूर्वे मनुष्याः स्तीर्णबर्हिषं प्रसारितयज्ञमाहुस्त मग्‍निं निदध इत्यन्वयः। अथ द्वितीयामाह–
तं पत्‍नीभिरिति। हे देवा ऋत्विजः सर्वे वयं पत्न्यादिभिः सर्वैर्मनुष्यैरुत

[[2258]]

वा हिरण्यैर्हिरण्यदिभिः सर्वैः साधनद्गव्यैश्च सहितास्तमग्‍निमनुगच्छेमानुगताः सन्तः फलं प्राप्स्याम इत्बाशयः । स एव स्पष्टीक्रियते-दिवः पृष्ठे स्वर्गस्योपरि नाकं दुःखरहितं स्थानं गृह्‍णाना ग्रहीतुकामा वयमित्यर्थः। कीदृशे दिवः पृष्ठे, सुकृतस्य लोके सम्यगनुष्ठितस्य कर्मणः फलभूते, तृतीये पृथिवीमारभ्य गणनायां त्रिसंख्या-पूरके, अधिरोचनेऽधिकत्वेन दीप्यमाने। अथ तृतीयामाह–
आ वाचो मध्यमेति। अयगग्‍निर्वाचो मध्यमारुहत्स्तोत्ररूपाया वाचः प्रतिपाद्यमर्थमारूढः स्तोत्रगतसर्वगुणयुक्त इत्यर्थः। कीदृशोऽग्‍निः, भुरण्युर्जनद्भ-रणशीलः। सत्पतिः सतां पालकः। चेकितानोऽभिज्ञानवान्। स च पृथिव्याः पृष्ठे भूमेरुपरि निहितः स्थापितो दविद्युतदतिशयेन द्योतते। ये तु विरोधिनः पृतन्यवोऽस्माभिः सह कलहं कर्तुमिच्छन्ति तानधस्पदं कृणुतेऽस्माकं पादस्याधस्तादर्वास्थितान्करोति। अथ चतुर्थीमाह–
अयमग्निरिति। अयमग्‍निर्दीप्यतामस्मिन्कर्मणि प्रकाशताम्। कीदृशः, वरितमोऽतिशयेन शूरः। वयोधा वयस आयुषः स्थापयिता। सहस्त्रिय इष्टकासहस्रेण संपादितः। अप्रयुच्छन्नस्मिन्कर्मणि प्रमादरहितः। सरिरस्य जलस्य मध्ये विभ्राजमान और्वविद्युदादिरूपेण विशेषतः प्रकाशमानः। हे ऋत्विग्यजमानास्तस्य प्रसादाद्दिव्यानि धाम स्थानानि उप प्रयात प्राप्‍नुत। अथ पञ्चमीमाह–
सं प्र च्यवध्वमिति। हेऽग्ने त्वं विश्वेदेवा यजमानश्च सर्वे यूयं संप्रच्यवर्ध्य सम्यक्प्रच्यावयत, अस्य कर्मणो विघ्‍नं विनाशयतेत्यर्थः। अनुसंप्रयासानुक्रमेण कर्म-सिद्धिं प्राप्‍नुत। ततो देवयानान्देवलोकप्राप्तिहेतून्पथो मार्गान्कृणुघ्वं कुरुत। सधःस्थे सहस्थितियोग्येऽस्मिन्कर्मणि सीदतोत्तरस्मिल्ँ लोकेऽधिकत्वेन सीदत। अथ षष्ठीमाह–
येना सहस्रमिति। हेऽग्‍ने देवयानो देवप्रापको यस्त्वमुत्तमः स त्वं येन व्यापारेण सहस्रं वहसि सहस्रदक्षिणाकं यज्ञं निर्वहसि, तथा येन व्यापारेण सर्व-वेदसं सर्वस्वदक्षिणाकं यज्ञं वहसि, तेन व्यापारेण नोऽस्मदीयमिमं यज्ञं वह देवान्प्रापय। देवयान इत्यादिकं यज्ञविशेषणं वाऽस्तु। यो यज्ञो देवान्प्राप्त उत्तमो भवति तमिमं यज्ञं वहेत्यर्थः अथ सप्तमीमाह–

[[2259]]

उद्‍वुध्यस्वाग्‍न इति। हेऽग्‍ने त्वमुद्‍बुध्यस्वास्माद्वेषये सावधानो भव। एनं यजमानं प्रति जागृहि प्रतिदिनं जागारूकं सावधानं कुरु। अयं च त्वं च मिलित्वे-ष्टापूर्ते श्रौतस्मार्तकर्मणी संसृजेथां संपादयतम्। हे यजमान त्वां पितरं पालकं युवानं यौवनोपेतं पुनः कृण्वन्भूयो भूयः कुर्वन्नयमग्‍निस्त्वयि निमित्तभूते सत्येतं तन्तुं यज्ञप्रवाहमन्वातांसीदनुक्रमेण तनोतु संपादयतु। अथाष्टमीमाह–
अयं ते योनिरिति। हेऽग्‍ने योऽयमिष्टकाचितिरूपप्रदेशस्ते तव योनिः स्थानं, यतो यस्या इष्टकाचितेर्जात उत्पन्नस्त्वमरोचथा दीप्तो भवति, तं योनिं जान-न्स्वकीयत्वेनावगच्छन्नारोह। अथानन्तरं नोऽस्माकं रयिं धनं वर्धय।
एतैर्मन्त्रै। साध्यां पुनश्चितिं विधत्ते–
“प्र वा एषोऽस्माल्लोकाच्च्यवते योऽग्‍निं चिनुते न वा एतस्यानिष्टक आहु-तिरवकल्पते यां वा एषोऽनिष्टक आहुतिं जुहोति स्रवति वै सा ताँ स्रवन्तीं यज्ञोऽ-नुपरा भवति बज्ञं यजमानो यत्पुनश्चितिं चिनुत आहुतीनां प्रतिष्ठित्यै प्रत्याहुतयस्ति-ष्ठन्ति न यज्ञः पराभवति न यजमानः” [सं० का० ५ प्र० ४ अ० १०] इति।
अग्‍निं चिन्वानः पुरुषः स्वर्गाभिमुखत्वादस्माल्लोकात्प्रच्युतो भवति। एतस्य परुषस्येष्टकारहिते देश आहुतिनं संभवति, भूप्रदेशस्य स्वकीयत्वाभावात्। एवं सतीष्टकारहिते प्रदेशे यामाहुतिं जहोति सा भवति, यथा भिन्नभाण्डे जलं गलति तद्वत्। स्रवन्तीं तामाहुतिमनु यज्ञो नश्यति। यज्ञमनु यजगानोऽपि नश्यति। अत आहुतिप्रतिष्ठार्थं पुनश्चितिं कुर्यात्। तत आहुतियज्ञयजमानाः प्रतितिष्ठन्ति। अस्यां चिताविष्ठकासंख्यां विधत्ते
“अष्टावुपदधात्यष्टाक्षरा गायत्री गायत्रेणैवैनं छन्दता चिनुते” [सं० का० ५ प्र० ४ अ० १०] इति।
एतच्छाखाम्‍नातमन्त्रानुसारेण संख्यां विधाय शाखान्तरानुसारेणान्यौ द्वो पक्षौ विधत्ते– “ यदेकादश त्रैष्टुभेन यद्‍द्वादश जागतेन छन्दोभिरेवैनं चिनुते ” ( सं० का० ५ प्र० ४ अ० १०) इति।
प्रकारान्तरेण पुनश्चितिं प्रशंसति –

[[2260]]

“नपात्को वे नामैषोऽग्‍निर्यत्पुनश्चितिर्य एवं विद्वान्पुनश्चितिं चिनुत आ तृतीयात्पुरुषादन्नमत्ति” (सं० का० ५ प्र० ४ अ० १०) इति।
न षातयति न विनाशयत्याहुतिं न स्त्रावयतीति पुनश्चितिरूपस्याग्‍नेर्नपात्क इति नामधेयम्। एवं ज्ञात्वा चितवान्पुरुषः पुत्रपौत्रापर्यन्तमन्‍नसगृद्धो भवति।
पुनःशब्दतात्पर्यं दृष्टान्तेन दर्शयति–
“यथा वै पुनराधेय एवं पुनश्चितिर्योऽग्‍न्याधेयेन नर्घ्‍नोति स पुनराधेयमा-धत्ते योऽग्‍निं चित्वा नर्घ्‍नोति स पुनश्चितिं चिनुते यत्पुनश्चितिं चिनुत ऋद्ध्यै” (सं० का० ५ प्र० ४ अ० १०) इति।
पुनराधेयपुनश्चित्योः पूर्वमृद्ध्यभावेन पश्चादृद्धिसद्भावेन च सादृश्यम्।
अत्र पूर्वपक्षत्वेन शाखान्तरमतमुपन्यस्यति–
“अथो खल्वाहुर्न चेतव्येति रुद्रो वा एष यदग्‍निर्यथा व्याघ्‍रँ सुप्तं बोध यति तादृगेव तत्” [सं० का० ५ प्र० ४ अ० १०] इति।
यथा लोके सुप्तो व्याघ्‍रः केनचिन्मार्गे गच्छता पुरुषेण बोधितस्तमेव बोध यितारं मारयति, एवमयं क्रूरोऽग्‍निः पूर्वं चितः कथंचित्पुण्यवशात्सुप्तवच्छान्तो वर्तते। स चेत्षुनश्चीयेत प्रबोधितव्याघ्रवन्मारयेत्। तस्मान्‍न चेतव्येयं पुनश्चितिरिति पूर्वः पक्षः। तमिमं पक्षमनादृत्य स्वपक्षमेव स्थापयति–
“अथो खल्वाहुश्चेतव्येति यथा वसीयाँसं भागधेयेन बोधयति तादृगेव तत्” (सं० का० ५ प्र० ४ अ० १०) इति।
लोके धनाढ्यं प्रभुं चिरकालव्यवधानेन विस्मृतवन्तं भृत्यः पुनरप्युपाय-नमानीय यथा बोधयति, स च बोधित एवाभीष्टसिध्दिं करोति, एवमयं प्रभुराग्‍निः पुनश्चितः सन्नमीष्टं साधयतीति चेतव्येयं पुनश्चितिः।
तस्याः पुनश्चितेः समृद्धिहेतुत्वमुदाहरणमुखेन स्पष्टयति–
“मनुरग्निमचिनुत तेन नाऽऽर्ध्‍नोत्स एतां पुनश्चितिमपश्यत्तामचिनुत तया वै स आर्घ्‍नोद्यत्पुनश्चितिं चिनुत ऋद्‍ध्यै” [सं० का० ५ प्र० ४ अ० १०] इति।
अत्र विनियोगसंग्रहः—

[[2261]]

अग्‍नित्रयं पुरा प्रातरनुवाकात्स्पृशेदिह (?) ।
नमोद्वाभ्यां वह्‍‍निमर्शो येनाष्टाविष्टकाष्टकम्।
पुनश्चितिरिति प्रोक्ता मन्त्रा अत्र त्रयोदश।।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे कृष्णयजुर्वे-दयितैत्तिरीयसंहिताभाष्ये चतुर्थकाण्डे सप्तमप्रपाठके
त्रयोदशोऽनुवाकः ।। १३।।